Book Title: Visheshavashyak Bhashya Part 01
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 172
________________ विशेषा० ॥१७॥ विशेषः सोऽप्यपेक्षया सामान्यम् , यत्सामान्यं तदप्यपेक्षया विशेष इति व्यवहियते, तथाहि- 'शब्द एवाऽयम्' इत्येवमध्यवसितोऽर्थः पूर्वसामान्यापेक्षया विशेषः, 'शाङ्खोऽयम्' इत्युत्तरविशेषापेक्षया तु सामान्यम्, इत्येवं यावदन्त्यो विशेष इति प्रागप्युक्तम् । बृहद्वत्तिः । अयं चोपर्युपरिज्ञानप्रवृत्तिरूपेण संतानेन लोके रूढः सामान्य-विशेषव्यवहार औपचारिकावग्रहे सत्येव घटते, नान्यथा, तदनभ्युपगमे हि प्रथमापायानन्तरमीहाऽनुत्थानम् , उत्तरविशेषाग्रहणं चाऽभ्युपगतं भवति, उत्तरविशेषाग्रहणे च प्रथमापाया चसितार्थस्य विशेषत्वमेव, न सामान्यत्वम् ; इति पूर्वोक्तरूपो लोकमतीतः सामान्य-विशेषव्यवहारः समुच्छिद्येत । अथ प्रथमापायानन्तरमभ्युपगम्यत ईहोत्थानम् , उत्तराविशेषग्रहणं च ; तर्हि सिद्धं तदपेक्षया प्रथमापायव्यवसितार्थस्य सामान्यत्वम्, यश्च सामान्यग्राहकः, यदनन्तरं चेहादिप्रवृत्तिः सोऽर्थावग्रहः, नैश्चयिकाऽऽद्यर्थावग्रहवत् , इत्युक्तमेव । इति सिद्धो व्यावहारिकार्थावग्रहः, तत्सिद्धौ च सन्तानप्रवृत्त्याऽन्त्यविशेषं यावत् सिद्धः सामान्य-विशेषव्यवहारः ।। इति गाथार्थः ।। २८८ ॥ ॥ इति मतिज्ञानाऽऽद्यभेदलक्षणो विभेदोऽप्यवग्रहः समाप्त इति ॥ अथ तद्वितीयभेदलक्षणामीहां व्याचिख्यासुराह इय सामण्णग्गहणाणंतरमीहा सदत्थवीमंसा । किमिदं सद्दोऽसद्दो को होज व संख-संगाणं? ॥ २८९ ॥ इतिशब्द उपपदर्शने, इत्येवं प्रागुक्तेन प्रकारेण नैश्चयिकाऽर्थावग्रहे यत् सामान्यग्रहणं रूपाद्यव्यावृत्त्याऽव्यक्तवस्तुमात्रग्रहणमुक्तम् , तथा व्यवहारावग्रहेऽपि यदुत्तरविशेषापेक्षया शब्दादिसामान्यग्रहणमभिहितम् । तस्मादनन्तरमीहा प्रवर्तते । कथंभूतेयम् ?, इत्याह- सतस्तत्र विद्यमानस्य गृहीतार्थस्य विशेषविमर्शद्वारेण मीमांसा विचारणा । केनोल्लेखेन ?, इत्याह- किमिदं वस्तु मया गृहीतं- शब्दः, अशब्दो वा रूप-रसादिरूपः १; इदं च निश्चयार्थावग्रहाऽनन्तरभाविन्या ईहायाः स्वरूपमुक्तम् । अथ व्यवहारार्थावग्रहानन्तरसंभविन्याः स्वरूपमाह-को होज वेत्यादि' वा इत्यथवा, व्यवहारावग्रहेण शब्दे गृहीत इत्थमीहा प्रवर्तते- शाङ्ख-शायोमध्ये कोऽयं भवेत् शब्दः- शाङ्खः, शाङ्गो वा ? इति । ननु 'किं शब्दः, अशब्दो वा ?' इत्यादिकं संशयज्ञानमेव कथमीहा भवितुमर्हति ?।। सत्यम्, किन्तु दिङ्मात्रमेवेदमिह दर्शितम् , परमार्थतस्तु व्यतिरेकधर्मनिराकरणपरः, अन्वयधर्मघटनप्रवृत्तश्चाऽपायाभिमुख एव बोध ईहा द्रष्टव्या, तद्यथा ||१७०॥ इति सामान्यग्रहणानन्तरमीदा सदर्थमीमांसा । किमिदं शब्दोऽशब्दः को भवेद् वा शाख-शााणाम् ? ॥ २८९ ॥ For Personal Prime Use Only

Loading...

Page Navigation
1 ... 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202