Book Title: Visheshavashyak Bhashya Part 01
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा ०
॥ १७२ ॥
Jain Education Internatio
अपि प्रागेव निराकृताः । इति गाथार्थः ॥ २९९ ॥
तदेवं " " से जहानामए केइ पुरिसे अव्वत्तं सद्दं सुणेज्ज " इत्यादिसूत्रानुरोधेन शब्दमाश्रित्याऽवग्रहादयो भाविताः । अथ सूत्रकारेणैव यदुक्तम्- “ एवं एएणं अभिलावेणं अव्वत्तं रूवं रसं गंध फासं " इत्यादि, तच्चैतास निधाय भाष्यकारोऽप्यतिदेशमाहसेसेसु विरूवाइसु विसएसुं होंति रूवलक्खाई । पायं पच्चासन्नत्तणेणमीहाइवत्थूणि ॥ २९२ ॥ यथा शब्दे, एवं शेषेष्वपि रूपादिविषयेषु साक्षादनुक्तान्यपि रूपलक्षाणि कथितानुसारमसरत्यज्ञानां चतुरचेतसां सुज्ञेयानि भवन्ति । कानि १, इत्याह- ईहादीन्याभिनिबोधिकज्ञानस्य भेदवस्तूनि । केन रूपलक्षाणि १, इत्याह- प्रायः प्रत्यासन्नत्वेन चक्षुरादिना गृह्यमाणस्य स्थाण्वादेः, तत्राऽगृह्यमाणेन पुरुषादिना सह प्रायो बहुभिर्धर्मैर्यत् प्रत्यासन्नत्वं या प्रत्यासत्तिः सादृश्यमिति यावत्, तेनेहादीनि ज्ञेयानि, न पुनरत्यन्तवैलक्षण्ये स्थाण्वादेरुष्ट्रादिना सहेत्यर्थः, इदमुक्तं भवति- अवग्रहे तावत् सामान्यमात्रग्राहकत्वाद् द्वितीयवस्त्वपेक्षाऽपि न विद्यते, ईहा पुनरुभयवस्त्ववलम्बिनी, तत्र पुरोदृश्यमानस्य वस्तुनो यत् प्रतिपक्षभूतं वस्तु तत्प्रायो बहुभिर्धर्मैः प्रत्यासं ग्राह्यम्, न पुनरत्यन्तविलक्षणम् ; पुरो हि मन्दमन्दप्रकाशे दूराद् दृश्यमाने स्थाण्वादी 'किमयं स्थाणुः, पुरुषो वा' इत्येवमेवेहा प्रवर्तते, ऊर्ध्वस्थानारोह - परिणाहतुल्यतादिभिः मायो बहुभिर्धर्मैः पुरुषस्य स्थाणुप्रत्यासन्नत्वादिति । किमयं स्थाणुः, उष्ट्रो वा ?” इत्येवं तु न प्रवर्तते, उष्ट्रस्य स्थाण्वपेक्षया प्रायोऽत्यन्तविलक्षणत्वात् । अत एव सामान्यमात्रग्राह्यवग्रहोत्रादौ न कृतः, किन्तु 'ईहादीनि' इत्येवमेवोक्तम् उभयवस्त्ववलम्बित्वेनेहाया एव 'पायं पच्चासन्नत्तणेण' इतिविशेषणस्य सफलत्वात् । अपायस्याऽपि 'स्थाणुरेवाऽयं, न पुरुषः' इत्यादिरूपेण प्रवृत्तेः किञ्चिद् विशेषणस्य सफलत्वादादिशब्दोऽप्यविरुद्धः ॥ इति गाथार्थः ॥ ॥ २९२ ॥
इह 'किं शब्दः, अशब्दो वा ?" इति श्रोत्रेन्द्रियस्य प्रत्यासन्नवस्तूपदर्शनं कृतमेव । अथवशेषचक्षुरादीन्द्रियाणां विषयभूतानि प्रत्यासन्नवस्तूनि क्रमेण प्रदर्शयति
थाणु-पुरिसाइ कुट्टू- पलाइ संभियकरिल्ल-मंसाई । सप्पु - प्पलनालाइव समाणरूवाइविसयाई ॥ २९३ ॥ 'ईहादिवस्तूनि रूपलक्षाणि' इत्युक्तम् । कथंभूतानि सन्ति पुनस्तानि रूपलक्षाणि ?, इत्याह- समानः समानधर्मा रूप
१ तथानामा कश्चित् पुरुषोऽव्यक्तं शब्दं शृणुयात् । २ एवमेतेनाऽभिलापेनाऽव्यक्तं रूपं रसं गन्धं स्पर्शम् ।
३ शेषेण्यपि रूपादिषु विषयेषु भवन्ति रूपलक्षाणि । प्रायः प्रत्यासन्नत्वेनेहादिवस्तूनि ॥ २९२ ॥ ४. 'लक्ष्याणि' ।
५ स्थाणुः पुरुषादिः कुष्टापलादि-संभूतकरौल-मांसादि । सर्पों पढनालादिवत् समानरूपादिविषयाणि ॥ २९३ ॥
For Personal and Private Use Only
बृहद्वृत्तिः ।
॥ १७२ ॥
www.jainelibrary.org
Loading... Page Navigation 1 ... 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202