Book Title: Visheshavashyak Bhashya Part 01
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 171
________________ विशेषा० बृहद्वत्तिः । ॥१६९॥ सति; अत्र हि 'शब्दः' इति विशेषविज्ञान युज्यते, सर्वग्रहणास् तदनन्तरमीहादयश्चप्पियन्ते, पूर्वोक्तयुक्तः । ततश्च "से' जहानामए केइ पुरिसे अव्वत्तं सई सुणेजा, तेण सद्दे ति उग्गहिए, न उण जाणइ के वेस सद्दे, तओ ईहं पविसइ, तओ अवार्य गच्छई" इत्या- दि सर्वे सुस्थं भवति । यद्येवम् , अयमेवार्थावग्रहः कस्माद् न गृह्यते, येन सर्वोऽपि विवादः शाम्यति? इति चेत् । नैवम् , 'शब्द एवाऽयम्' इत्याद्यपायरूपोऽयमावग्रहः, अपायश्च सामान्यग्रहणे-हाभ्यामन्तरेण न संभवति, इत्याद्यसकृत् पूर्वमभिहितमेव । इति पाक्तनमेव व्याख्यानं मुख्यम् । इत्यलं विस्तरेण ॥ इति गाथार्थः ।। २८७ ।। व्यावहारिकार्थावग्रहाभ्युपगमे यो गुणस्तं सविशेषमुपदर्शयन्नाह खिप्पे-यराइभेओपुव्वोइयदोसजालपरिहारो । जुज्जइ संताणेण य सामण्ण-विसेसववहारो ॥ २८८ ॥ क्षिप्रे-तरादिभेदं यत् पूर्वोदितदोषजालं तस्य परिहारो युज्यते 'अस्मिन् व्यावहारिकेऽर्थावग्रहे सति' इति प्रक्रमाद् गम्यते । इदमुक्तं भवति- एकसामयिकनैश्चयिकाऽर्थावग्रहव्याख्यातारं प्रति प्राग् यदुक्तम्- यद्यसावेकसामयिकः, तर्हि कथं क्षिप्र-चिरग्रहणविशेषणमस्योपपद्यते; तथा यद्यसौ सामान्यमात्रग्राहकः, तर्हि बहु-बहुविधादिविशेषणोक्तं विशेषग्रहणं कयं घटते ? ; तथाविग्रहस्य विशेषग्राहकत्वे यत् समयोपयोगबाहुल्यमुक्तम् । इत्यादिकस्य दोषजालस्य परिहारो व्यावहारिकेविग्रहे सति युज्यते, तथाहि-नैश्चयिकावग्रहवादिनेदानीं शक्यमिदं वक्तुं यदुत-क्षिप्रे-तरादिविशेषणानि यौवहारिकावग्रहविषयाण्येतानि,असंख्येयसमयनिष्पन्नत्वेनाऽस्य क्षिप-चिरग्रहणस्य युज्यमानत्वात्, विशेषग्राहकत्वेन बहु-बहुविधादिग्रहणस्याऽपि घटमानकत्वादिति । 'सामण्ण-तयण्णविसेसेहा' इत्यादिना मागभिहितं समयोपयोगबाहुल्यमप्यस्मिन् निरास्पदमेव, सामान्यग्रहणे-हापूर्वकत्वेन, असंख्येयसामयिकत्वेन चैकसमयोपयोगवाहुल्यस्याऽत्राऽसंबध्यमानत्वादिति । ननु नैश्चयिकावग्रहे किं क्षिप्रे-तरादिविशेषणकलापो न घटते, येन व्यावहारिकावग्रहापेक्षःप्रोच्यते । सत्यम् , मुख्यतया व्यवहारावग्रहे एवं घटते, कारणे कार्यधर्मोपचारात् पुनर्निश्चयावग्रहेपि युज्यते, इति प्रागप्युक्तम् , वक्ष्यते च विशिष्टादेव हि कारणात् कार्यस्य वैशिष्टयं युज्यते, अन्यथा त्रिभुवनस्याऽप्यैश्वर्यादिप्रसङ्गः, काष्ठखण्डादेरपि रत्नादिनिचयाचाप्तः, इत्यलं प्रसङ्गेन । प्रकृतमुच्यतेसंतानेन च योऽसौ सामान्य-विशेषव्यवहारो लोके रूढः, सोऽपि 'व्यवहारावग्रहे सति युज्यते' इतीहापि संबध्यते । लोकेऽपि हि यो तद्यथानामा कश्चित् पुरुषोऽव्यक्तं शब्दं शृणुयात् , तेन शब्द इत्यवगृहीतः, न पुनर्जानाति क एप शब्दः, सत ईहां प्रविशति, ततोऽपायं गच्छति । १ ज. 'हाऽर्थान्यु' । ३ क्षिप्रे-तरादिभेदपूर्वोदितदोषजालपरिहारः । युज्यते संतानेन च सामान्यविशेषव्यवहारः ॥ २८८ ॥ ४ गाथा २६७ । बERBASTI ॥१६९॥ Poeto solo ताalarolo Jan Education internat For Personal and Private Use Only

Loading...

Page Navigation
1 ... 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202