Book Title: Visheshavashyak Bhashya Part 01
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा०
॥१६७॥ |
Jain Educationa Internation
नैarraisegood | अथ च्छद्मस्थव्यवहारिभिरपि यो व्यवहियते तं व्यावहारिकमुपचरितमर्थावग्रहं दर्शयति- ' तत्तो इत्यादि' ततो नैश्चयिकार्थावग्रहादनन्तरमीहितस्य वस्तुविशेषस्य योऽपायः स पुनर्भाविनीहाम्, अपायं चाऽपेक्ष्योपचरितोऽवग्रहोऽर्थावग्रह इति द्वितीयगाथायां संबन्धः । उपचारस्यैवाऽस्य निमित्तान्तरमाह- 'एस्सेत्यादि ' एप्यो भावी योऽन्यो विशेषस्तदपेक्षया येन कारणेनायमपायोsपि सन् सामान्यं गृह्णाति, यश्च सामान्यं गृह्णाति सोऽर्थावग्रहो यथा प्रथमो नैश्चायकः । एतदिह तात्पर्यम् - प्रथमं नैश्चयिकेsर्थावग्रहे रूपादिभ्योऽव्यावृत्तमव्यक्तं शब्दादिवस्तुसामान्यं गृहीतं, ततस्तस्मिन्नीहिते सति 'शब्द एवाऽपम्' इत्यादिनिश्चय रूपोऽपायो भवति । तदनन्तरं तु 'शब्दोऽयं किं शाङ्खः, शार्ङ्ग वा' इत्यादिशब्दविशेषविषया पुनररीहा प्रवर्तिष्यते, 'शाङ्ख एवाड्यं शब्दः' इत्यादिशब्दविशेषविषयोsurer यो भविष्यति तदपेक्षया 'शब्द एवाऽयम्' इति निश्चयः प्रथमोऽपायोऽपि सन्नुपचारादर्थावग्रहो भण्यते, ईहा ऽपायापेक्षात इति, अनेन चोपचारस्यैकं निमित्तं सुचितम् । 'शाङ्खोऽयं शब्दः, इत्याद्येष्यविशेषापेक्षया येनाऽसौ सामान्यशब्दरूपं सामान्यं गृह्णातीति, अनेन तूपचारस्यैव द्वितीयं निमित्तमावेदितम् ; तथाहि - यदनन्तरमीहा पायौ प्रवर्तेते, यश्च सामान्यं गृह्णाति सोऽर्थावग्रहः, यथाऽऽद्यो नैश्रयिकः, प्रवर्तते च 'शब्द एवायम् इत्याद्यपायाऽनन्तरमीहा पायौ, गृह्णाति च ' शाङ्खोऽयं ' इत्यादिभाविविशेषापेक्षयाऽयं सामान्यम् । तस्मादर्थावग्रह एष्यविशेषापेक्षया सामान्यं गृह्णातीत्युक्तम् । ततस्तदनन्तरं किं भवति १, इत्याह तृतीयगाथायाम्' तत्तोऽणन्तरमित्यादि' ततः सामान्येन शब्दनिश्चयरूपात् प्रथमापायादनन्तरं ' किमयं शब्दः शाङ्खः शार्ङ्ग वा ?' इत्यादिरूपेहा प्रवर्तते । ततस्तद्विशेषस्य शङ्खमभवत्वादेः शब्दविशेषस्य 'शाङ्क एवाऽयम्' इत्यादिरूपेणाऽपायश्च निश्चयरूपो भवति । अयमपि च भूयोsन्यतद्विशेषाकाङ्क्षावतः प्रमातुर्भाविनीमीहामपायं चाऽपेक्ष्य, एष्यविशेषापेक्षया सामान्यालम्बनत्वाच्चाऽर्थावग्रह इत्युपचर्यते । इयं च सामान्य विशेषापेक्षा तावत् कर्तव्या यावदन्त्यो वस्तुनो भेदो विशेषः । यस्माच्च विशेषात् परतो वस्तुनोऽन्ये विशेषा न संभवन्ति सोऽन्त्यः, अथवा संभवत्स्वपि अन्यविशेषेषु यतो विशेषात् परतः प्रमातुस्तजिज्ञासा निवर्तते सोऽन्त्यः, तमन्त्यं विशेषं यावद् व्यावहारिकार्थावग्रहे-हा-पायार्थ सामान्य विशेषाऽपेक्षा कर्तव्या ।। इति गाथात्रयार्थः ।। २८२ ।। २८३ ॥ २८४ ॥
इह च गाथात्रयेऽपि यः पर्यवसितोऽर्थो भवति, तमाह
सैव्वत्थे-हा-वाया निच्छयओ मोत्तुमाइसामण्णं । संववहारत्थं पुण सव्वत्थाऽवग्गहोऽवाओ ॥ २८५ ॥
१ सर्वत्रेहा पायौ निश्रयतो मुक्त्वाऽऽदिसामान्यम् । संव्यवहारार्थं पुनः सर्वनाऽयमहोऽपायः ॥ २८५ ॥
For Personal and Private Use Only
बृहद्वत्तिः ।
॥१६७॥
www.janelibrary.org
Loading... Page Navigation 1 ... 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202