Book Title: Visheshavashyak Bhashya Part 01
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
MINISTR8
विशेषा०यावदम्यो
॥१६॥
सर्वत्र विषयपरिच्छेदे कर्तव्ये निश्चयतः परमार्थत ईहा-पायौ भवतः, 'ईहा, पुनरपायः, पुनरीहा, पुनरप्यपायः' इत्येवं क्रमेण यावदन्त्यो विशेषः, तावदीहा-ऽपायावेव भवतः, नार्थावग्रह इत्यर्थः, । किं सर्वत्रैवमेव ?, न, इत्याह- 'मोत्तुमाइसामण्णं ति' आद्यमव्यक्तं सामान्यमात्रालम्बनमे सामयिक ज्ञानं मुक्त्वाऽन्यत्रेहा-ऽपायौ भवतः, इदं पुनर्नेहा, नाऽप्यपायः, किन्त्वर्थावग्रह एवेति भावः । संव्यवहारार्थे व्यावहारिकजनप्रतीत्यपेक्षं पुनः सर्वत्र यो योऽपायः स स उत्तरोत्तरेहा-पायापेक्षया, एष्यविशेषापेक्षया चोपचारतोविग्रहः । एवं च तावद् नेयम्, यावत्तारतम्येनोत्तरोत्तरविशेषाकाङ्क्षा प्रवर्तते ।। इति गाथार्थः ।। २८५॥
तरतमयोगाभावे तु किं भवति ?, इत्याह
तैरतमजोगाभावेऽवाउ च्चिय धारणा तदंतम्मि । सव्वत्थ वासणा पुण भणिया कालंतरे वि सई ॥२८६॥
तरतमयोगाभावे ज्ञातुरग्रेतनविशेपाकाङ्क्षानिवृत्तावपाय एव भवति , न पुनस्तस्याऽवग्रहत्वमिति भावः , तनिमित्तानां पुनराहादीनामभावादिति । यद्यग्रत ईहादयो न भवन्ति, तर्हि किं भवति ?, इत्याह- तदन्तेऽपायान्ते धारणा तदर्थोपयोगाऽअच्युतिरूपा भवति । शेषस्य वासना-स्मृतिरूपस्य धारणाभेदद्वयस्य क संभवः ?, इत्याह- 'सव्वत्थ वासणा पुणेत्यादि' वासना वक्ष्यमाणरूपा, तथा कालान्तरे स्मृतिः, सा च सर्वत्र भणिता। अयमर्थः- अविच्युतिरूपा धारणाऽपायपर्यन्त एव भवति, वासना-स्मृती तु सर्वत्र कालान्तरेऽप्यविरुद्ध ।। इति गाथार्थः ॥ २८६ ॥ एवं चाऽभिहितस्वरूपव्यावहारिकाऽर्थावग्रहापेक्षया यथाश्रुतार्थव्याख्यानमपि सूत्रस्याविरुद्धमेव, इति दर्शयन्नाहसदो त्ति व सुयभणियं विगप्पओ जइ विसेसविण्णाणं । घेप्पेज तं पि जुज्जइ संववहारोग्गहे सव्वं ॥ २८७ ॥
वाशब्दोऽथवार्थे, ततश्चायमभिप्रायः- 'सदे ति भणइ वत्ता' इत्यादिप्रकारेण तावद् व्याख्यातं “तेणं सद्दे त्ति उग्गहिए" | इत्यादि मूत्रम् । अथवा 'शब्दः" इति यत्सूत्रभणितम्- "शब्दस्तेनाऽवगृहीतः" इति यत् सूत्रे प्रतिपादितम् , तद् यदि विकल्पतो विवक्षावशतो विशेषविज्ञानं गृह्यते, तदपि सर्व युज्यते । कस्मिन् ?, इत्याह-यथोक्त औपचारिके सांव्यवहारिकार्थावग्रहे गृह्यमाणे तरतमयोगाभावेशाय एवं धारणा सहन्ते । सर्वत्र वासना पुनर्भणिता कालान्तरेऽपि स्मृतिः ॥ २८६॥ २ घ. छ. ज, 'तरसई य'।
pa||१६८॥ ३ घ.छ.ज. 'न्तरे स्मृतिः कालान्तरस्म'। ४ शब्द इति वा श्रुतभणितं विकल्पतो यदि विशेषविज्ञानम् । गृहोत तदपि युज्यते संव्यवहारावग्रहे सर्वम् ॥२८७॥ ५ गाथा १५३ । ६ तेन शब्द इत्यवगृहीतः।
Jan Education Internatio
For Personal and Private Use Only
ANTww.jaineltrary.org
Loading... Page Navigation 1 ... 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202