Book Title: Visheshavashyak Bhashya Part 01
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा०
॥१५९॥
।
यत् तस्य स्वरूपम्- 'समयाम्मि चेव परिचियविसयस्स विसेसविनाणं' इति, तदेतत्परोक्तमपि तदवस्थमेव, न पुनः किश्चिदूनाधिकावस्थम् । कुतः ?, इत्याह- 'पुव्वदोसउ त्ति' 'जेणत्थोग्गहकाले' इत्यादिना, 'सामण्ण-तयण्ण-' इत्यादिना च यः पूर्व दोषोऽभिहितस्तस्मात् पूर्वदोषात्- पूर्वदोषाऽनतिवृत्तेः, तदेतत्परोक्तं तदवस्थमेव, इति नान्यदूषणाऽभिधानप्रयासो विधीयत इति भावः । अथवाऽपूर्वमपि दूषणमुच्यते । किं तत् ?, इत्याह- 'तम्मि चेवेत्यादि' वा इत्यथवा, तस्मिन्नेव स्पष्टविज्ञानस्य व्यक्तस्य जन्तोर्विशेषग्राहिणि समये 'शाङ्खः, शाङ्गों वाऽयं शब्दः, स्निग्धः, मधुरः, कर्कशः, स्त्री-पुरुषाद्यन्यतरवाद्यः' इत्यादि सुबहुकविशेषग्रहणं प्रसज्येत । इदमुक्तं भवति- यदि व्यक्तस्य परिचितविषयस्य जन्तोरव्यक्तशब्दज्ञानमुल्लध्य तस्मिन्नावग्रहैकसमयमात्रे शब्दनिश्चयज्ञानं भवति, तदाऽन्यस्य कस्यचित् परिचिततरविषयस्य पटुतरावबोधस्य तस्मिन्नेव समये व्यक्तशब्दज्ञानमप्यतिक्रम्य 'शाङ्खोऽयं शब्दः' इत्यादिसंख्यातीतविशेषग्राहकमपि ज्ञानं भवदभिप्रायेण स्यात् , दृश्यन्ते च पुरुषशक्तीनां तारतम्यविशेषाः । भवत्येव कस्यचित् प्रथमसमयेऽपि सुबहुविशेषग्राहकमपि ज्ञानमिति चेत् । न, “ने उण जाणइ के वेस सद्दे " इत्यस्य सूत्रावयवस्याऽगमकत्वप्रसङ्गात् । विमध्यमशक्तिपुरुषविषयमेतत् सूत्रमिति चेत् । न, अविशेषेणोक्तत्वात् , सर्वविशेषविषयत्वस्य च युक्त्यनुपपन्नत्वात् । न हि प्रकृष्टमतेरपि शब्दधमिणमगृहीत्वोत्तरोत्तरबहुसुधर्मग्रहणसंभवोऽस्ति, निराधारधर्माणामनुपपत्तेः ॥ इति गाथार्थः ।। २६९ ॥
किश्च, समयमात्रेऽपि 'शब्दः' इति विशेषविज्ञानमभ्युपगच्छतोऽन्येऽपि समयविरोधादयो दोषाः । के पुनस्ते ?, इत्याह
अत्थोग्गहो न समयं अहवा समओवओगबाहुल्लं । सव्वविसेसग्गहणं सव्वमई वोगहो गिज्झो ॥२७॥ एगो वाऽवाओ च्चिय अहवा सोऽगहिय-णीहिए पत्तो । उक्कम-वइक्कमा वा पत्ता धुवमोग्गहाईणं ॥२७॥
सामण्णं च विसेसो वा सामण्णमुभयमुभयं वा । न य जुत्तं सव्वमियं वा सामण्णालंबनं मोत्तुं ॥ २७२॥
व्याख्या- " उग्गहो एक समयं " इत्यादिवचनादर्थावग्रहः सिद्धान्ते सामयिको निर्दिष्टः, यदि चार्थावग्रहे विशेषविज्ञानमभ्युपगम्यते तदा सामयिकोऽसौ न पामोति, विशेषज्ञानस्याऽसंख्येयसामयिकत्वात् । अथ समयमात्रेऽप्यस्मिन् विशेषज्ञानमिष्यते, तर्हि
१ गाथा २६८। २ गाथा २६६। ३ गाथा २६७। ४ न पुनर्जानाति क एष शब्दः । ५ अर्थावग्रहो न समयमथवा समयोपयोगबाहुल्यम् । सर्वविशेषग्रहणं सर्वमतिर्वावग्रहो प्रायः ॥ २७॥ एको वाऽपाय एचाऽथवा सोऽगृहीता-ऽनीहितः प्राप्तः । उत्क्रम-व्यतिक्रमी वा प्राप्ती भुवमवग्रहादीनाम् ॥२७॥ सामान्य च विशेषो वा सामान्यमुभयमुभयं वा । न च युक्तं सर्वमिदं वा सामान्यालम्बनं मुक्त्वा ॥ २७२ ॥ 4 अवग्रह एक समयम् ।
||१५९॥
duona intemat
For Personal and Private Use Only
www.janeltrary.org
Loading... Page Navigation 1 ... 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202