Book Title: Visheshavashyak Bhashya Part 01
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 162
________________ KAPIONOR विशेषा बृहदत्तिः । ॥१६॥ Tara S | 'सामण्ण-तयण्णविसेसेहा' इत्यादिना प्रागुक्तं समयोपयोगवाहुल्यं पामोति । अथवेत्यग्रतोऽप्यनुवर्तते । ततश्चाऽथवा परिचितविषयस्य विशेषज्ञानेऽभ्युपगम्यमाने परिचिततरविषयस्य तस्मिन्नेव समये सर्वविशेषग्रहणमनन्तरोक्तं पामोति । अथवाऽवग्रहमात्रादपि विशेष- परिच्छेदेङ्गीक्रियमाणे ईहादीनामनुत्थानमेव । ततश्च सर्वाऽपि मतिरवग्रहो ग्राह्यः- सर्वस्यापि मतेरवग्रहरूपतैव प्रामोतीत्यर्थः । अथवा सर्वाऽपि मतिरपाय एवैकः पामोति, अर्थावग्रहे विशेषज्ञानस्याऽऽश्रयणात् , तस्य च निश्चयरूपत्वात् , निश्चयस्य चाऽपायत्वादिति । समयमात्रे चाऽस्मिन्नपार्य सिद्धे "ईहा-वाया मुहुत्तमन्तं तु” इति विरुध्यते । अथवाऽर्थेऽवगृहीते, ईहिते च, अपायः सिद्धान्ते निर्दिश्यते " उग्गहो ईहा अवाओ य" इति क्रमनिर्देशात् , यदि चाऽऽद्यसमयेऽपि विशेषज्ञानाऽभ्युपगमादपाय इष्यते, तीनवगृहीतेऽनीहिते च तस्मिन्नसौ प्राप्तः । 'वा' इत्यथवा, यदि तृतीयस्थाननिर्दिष्टोऽप्यपायः 'समयम्मि चेव परिचियविसयस्स विण्णाणं' इति वचनात् पटुत्ववैचित्र्येण प्रथममभ्युपगम्यते, तर्हि तस्मादेव पाटववैचित्र्यादवग्रहे-हा-ऽपाय-धारणानां ध्रुवं निश्चितमुत्क्रम-व्यतिक्रमौ स्याताम् । तत्र पश्चानुपूर्वीभवनमुत्क्रमः, अनानुपूर्वीभावस्तु व्यतिक्रमः, तथाहि- यथा शक्तिवैचित्र्यात् कश्चित् प्रथममेवाऽपायो भवताऽभ्युपगम्यते, तथा तत एव कस्यापि प्रथम धारणा स्यात् , ततोऽपायः, ततोऽपीहा, तदनन्तरं त्ववग्रह इत्युत्क्रमः; अन्यस्य कस्यचित्पुनरवग्रहमुल्लध्य प्रथममेवेहा समुपजायेत, अपरस्य तु तामप्यतिक्रम्याऽपायः, अन्यस्य तु तमप्यतिवृत्त्य धारणा स्यात् , इत्यादिव्यतिक्रमः । न चेह वयं युक्तिमापच्छनीयाः, भवदभ्युपगतस्य शक्तिवैचित्र्यस्यैव पुष्टहेतोः सद्भावात् । न चैतावुत्क्रम-व्यतिक्रमी युक्ती "डेग्गहो | ईहा अवायो य धारणा एव होन्ति चत्तारि" इति परममुनिनिर्दिष्टक्रमस्याऽन्यथाकर्तुमशक्यत्वादिति । तथा, यदि यत् प्रथमसमये गृह्यते स | विशेषः, तर्हि 'सामण्णं च विसेसो त्ति' यत् सामान्यं तदपि विशेषः प्राप्तः, प्रथमसमये हि सर्वस्यापि वस्तुनोऽव्यक्तं सामान्यमेव रूपं गृह्यते, ततोऽस्मिन्नप्यर्थावग्रहसमये सामान्यमेव गृह्यत इति परमार्थः। यदिवाऽत्र विशेषबुद्धिर्भवताऽभ्युपगम्यते, तर्हि यदिह वस्तुस्थित्या सामान्य स्थितं तदपि भवदभिप्रायेण विशेषः प्राप्तः । चशब्दो दूषणसमुच्चयार्थः । 'सो वा सामण्णं ति' स वा भवद. भिप्रेतो विशेषो वस्तुस्थितिसमायातं सामान्यं प्राप्नोतीति । 'उभयमुभयं व त्ति' अथवा, सामान्य-विशेषलक्षणमुभयमप्येतत्पत्येकमुभयं प्राप्नोति- एकैकमुभयरूपं स्यादित्यर्थः; तथाहि- अव-ईषत् सामान्यं गृह्णातीत्यवग्रह इतिव्युत्पत्त्या वस्तुस्थितिसमायात यत्सामान्यं तत् स्वरूपेण तावत् सामान्यम् , भवदभ्युपगमेन तु विशेषः, इत्येकस्याऽपि सामान्यस्योभयरूपता; तथा योऽपि भवदभ्यु POOO ॥१६॥ १ गाथा २६७ । २ ईहा उपायौ मुहूर्तान्तस्तु । ३ अवग्रहः, ईहा, अपायश्च । ४ गाथा-२६८ । ५ अवग्रह ईहाऽपायश्च धारणा एव भवन्ति चत्वारि । ६ श्रीभद्रबाहुस्वामिभिः। For Personal and Prevate Une Grey H om.jaineltrary.org

Loading...

Page Navigation
1 ... 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202