Book Title: Visheshavashyak Bhashya Part 01
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 159
________________ विशेषा ॥१५७॥ तदेवं व्यञ्जनावग्रहे व्यञ्जनसंवन्धपात्रमेव, अर्थावग्रहे त्वव्यक्तशब्दाद्यर्थग्रहणं, न व्यक्तशब्दाद्यर्थसंवेदनम् , इति प्रतिपादितम् ।। सांपतमुपपत्त्यन्तरेणाऽप्यर्थावग्रहे व्यक्तशब्दाद्यर्थसंवेदनं निराचिकीर्षुराह बृहद्वृत्तिः । 'जेणत्थोग्गहकाले गहणे-हा-वायसंभवो नत्थि । तो नत्थि सहबुद्धी, अहत्थि नावग्गहो नाम ॥ २६६ ॥ पूर्व तावदर्थस्य ग्रहणमात्र, ततश्चेहा, तदनन्तरं त्वपायः, इत्येवं मतिज्ञानस्योत्पत्तिक्रमः । न चैतत्रितयं प्रथममेव शब्दार्थेऽवगृहीते समस्तीति । एतदेवाह- येनार्थावग्रहकालेऽर्थग्रहणे हा-पायानां संभवो नास्ति, ततोऽर्थावग्रहे नास्ति 'शब्दः' इतिविशेषबुद्धिः, अर्थग्रहणे-हा-पूर्वकत्वात् तस्याः । अथाऽस्त्यसौ तत्र, तर्हि नाऽयमर्थावग्रहः, किन्त्वपाय एव स्यात् , नैतद् युज्यते, तदभ्युपगमेऽर्थावग्रहे-हयोरभावप्रसङ्गात् ॥ इति गाथार्थः ॥ २६६ ॥ अपि च, अर्थावग्रहे 'शब्दः' इति विशेषबुद्धाविष्यमाणायां दोपान्तरमप्यस्ति । किं तत् ?, इत्याह सामण्ण-तयण्णविसेसेहा-वजण-परिग्गहणओ से । अत्थोग्गहेगसमओवओगबाहुल्लमावण्णं ॥ २६७ ॥ ___ इह येयमर्थावग्रहकसमये 'शब्दः' इति विशेषबुद्धिर्भवताऽभ्युपगम्यते, सा तावद् निश्चयरूपा, निश्चयश्चाकस्मादेव न युज्यते, किन्तु क्रमेण, तथाहि- प्रथमं तावद् रूपादिभ्योऽव्यावृत्तमव्यक्तं शब्दसामान्य ग्रहीतव्यम् , ततस्तद्विशेषविषया, तदपररूपादिविशेषविषया च । एतैरेतैश्च धर्मेः 'किमयं शब्दः, आहोखिद् रूपादिः'इत्येवंरूपेहा, तदनन्तरं च गृहीतशब्दसामान्यविशेषाणां ग्रहणम् , अन्येषां तु रूपादिविशेषाणां तत्राविद्यमानानां परिवर्जनम् , इत्येवंभूतेन क्रमेण निश्चयोत्पत्तिः। तथाच सति श्रोतुरावग्रहकसमयेऽपि सामान्यग्रहणादिभिः प्रकारैरुपयोगबहुत्वमापद्यते, एकस्मिंश्च समये बहव उपयोगाः सिद्धान्ते निषिद्धाः, इति नार्थावग्रहे शब्दादिविशेषबुद्धिः ।। इति गाथाभावार्थः॥ __अक्षरार्थस्तूच्यते- सामान्यमिह श्रूयमाणशब्दसामान्यं गृह्यते, ' तयण्णविसेसेह ति' तच्छब्देनाऽनन्तरोक्तं शब्दसामान्यमनुकृष्यते, अन्यशब्देन तु तत्रा-विद्यमाना रूपादयः परिगृह्यन्ते । ततश्च तच्चाऽन्ये च तदन्ये- शब्दसामान्य, रूपादयश्चेत्यर्थः; तेषां १५७|| , येनार्थावग्रहकाले ग्रहणे हा उपायसंभवो नास्ति । ततो नास्ति शब्दबुद्धिः, अभास्ति नावग्रहो नाम ॥ २६६ ॥ २ ज 'ब्दाद्यर्थे। ३ सामान्य-तदन्यविशेषेहा-वर्जन-परिग्रहणतस्तस्य । अर्थावग्रहकसमयोपयोगबाहुल्यमापन्नम् ॥ २६७ ॥ IODOolaroioमरसन करना 886orolorotoos Juanian For Personal and Private Use Only wMR.Janeitrary.org

Loading...

Page Navigation
1 ... 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202