Book Title: Visheshavashyak Bhashya Part 01
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषाः
Sal
॥१५६॥
e se.comsal
SHRISHAIR
अथ परस्य मतिः स्यात् । केयम् ?, इत्याह- सोऽव्यक्तोऽनिर्देश्यादिस्वरूपः शब्दोऽर्थावग्रहात् पूर्वमेव व्यञ्जनावग्रहे तेन श्रोत्रा गृहीतः, तत् किमित्यर्थावग्रहेऽपि तद्ग्रहणमुख़ुष्यते । कथमिदं पुनर्जायते यदुत-असौ व्यञ्जनावग्रहे गृहीतः, इत्याह-'जमित्यादि' यद् बृहद्वात्तिः । यस्माद् व्यजनावग्रहेऽपि भवद्भिरव्यक्तं विज्ञानमुक्तम् , अव्यक्तविषयग्रहण एव चाव्यक्तत्वं तस्योपपद्यत इतिभावः।।इति गाथार्थः।।२६३॥ | अत्रोत्तरमाहअत्थि तयं अव्वत्तं न उ तं गिण्हइ सयं पि सो भणियं । न उ अग्गहियम्मि जुज्जइ सहोत्ति विसेसणंबुद्धी॥२६॥
अस्ति तदव्यक्तं श्रोतुर्व्यञ्जनावग्रहे ज्ञानम् , न तस्याऽस्माभिरपलापः क्रियते, न पुनरसौ श्रोताऽतिसौक्ष्म्यात् तत् स्वयमपि गृह्णाति संवेदयते । एतच्च प्रागपि भणितम् । 'सुत्त-मत्ताइसुहुमबोहोच' इति वचनात् , तथा, 'सुत्तादओ सयं वि य विनाणं नावबुज्झन्ति" इति वचनाच्च । तस्माद् व्यञ्जनमात्रस्यैव तत्र ग्रहणम् , न शब्दस्य, व्यञ्जनावग्रहत्वान्यथानुपपत्तेरेवेति । न च सामान्यरूपतयाऽव्यक्ते शब्देऽगृहीतेऽकस्मादेव 'शब्दः' इति विशेषणबुद्धियुज्यते, अनुस्वारस्याऽलाक्षणिकत्वाद् विशेषबुद्धिरित्यर्थः । अस्यां च विशेषबुद्धौ प्रथममेवेष्यमाणायामादावेवार्थावग्रहकालेऽप्यपायमसङ्गः, इत्यसकृदेवोक्तम् ।। इति गाथार्थः ॥ २६४ ॥ ननु यदि व्यञ्जनावग्रहेऽप्यव्यक्तशब्दग्रहणं भवेत् तदा को दोषः स्यात् ', इत्याह
त्थो त्ति विसयग्गहणं जइ तम्मिवि सो न वंजणं नाम ।अत्थोग्गहो च्चिय तओअविसेसो संकरो वावि ॥२६५॥
अर्थावग्रहे 'अर्थः' इत्यनेन तावद् विषयग्रहणमभिप्रेतं- रूपादिभेदेनाऽनिर्धारितस्याऽव्यक्तस्य शब्दादेविषयस्य ग्रहणं तत्राऽभिप्रेतमित्यर्थः । यदि च तस्मिन्नपि व्यञ्जनावग्रेहेऽसावव्यक्तशब्दः प्रतिभासत इत्यभ्युपगम्यते, तदा न व्यञ्जनं नाम । व्यञ्जनावग्रहो न प्रामोतीत्यर्थः । ततश्चेदानी निवृत्ता तत्कथा, व्यञ्जनमात्रसंबन्धस्यैव तत्रोक्तत्वात् , भवता च तदतिक्रान्तस्याऽव्यक्ताथग्रहणस्येहाभिधीयमानत्वादिति । तीव्यक्तार्थग्रहणे किमसौ स्यात् ?, इत्याह- अर्थावग्रह एवाऽसौ, अव्यक्तार्थावग्रहणात् , ततश्च नास्ति व्यञ्जनं व्यञ्जनावग्रहः । अथाऽस्याऽपि सूत्रे प्रोक्तत्वादस्तित्वं न परिहियते, तर्हि द्वयोरप्यविशेषः- सोऽप्यर्थावग्रहः, सोऽपि व्यञ्जनावग्रहः प्राप्नोतीति भावः, मेचकमणिप्रभावत् संकरो वा स्यादित्थम् ।। इति गाथार्थः ।। २६५॥
EO ||१५६॥ १ अस्ति तदव्यक्तं न तु तद् गृहाति स्वयमप्यसौ भणितम् । न त्वगृहीते युज्यते शब्द इति विशेषणबुद्धिः ॥ २६४ ॥ २ घ. छ. ज. “य अ'। ३ गाथा १९७॥ ४ अर्थ इति विषयग्रहणं यदि तस्मिन्नप्यसौ न व्यञ्जनं नाम । अर्थावग्रह एव ततोऽविशेषः संकरो वाऽपि ॥ २६५ ॥ ५ घ. छ. ज.हे सोऽव्य'।
For Personal and Private Use Only
Loading... Page Navigation 1 ... 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202