Book Title: Visheshavashyak Bhashya Part 01
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 155
________________ विशेषा० ॥१५३॥ इतिशब्द उपप्रदर्शनार्थः, ततश्चेदमुक्त भवति- यथा 'शाहोऽयं शब्दः' इत्यस्यां बुद्धौ शब्दगतभेदाऽवधारणं सांप्रतमसाध्यम् , मन्द्र-मधुरत्वादितदुत्तरोत्तरभेदबाहुल्यसंभवात् । तथाच सति स्तोकत्वाद् नेयं बुद्धिरपायः, किन्त्वर्थावग्रह इत्येवं सुबहुनाऽपि कालेन बृहदत्तिः । सर्वेणाऽपि पुरुषायुपेण शब्दगतमन्द्र-मधुरत्वाद्युत्तरोत्तरभेदावधारणमसाध्यं तद्देदानामनन्तत्वादशक्यमित्यर्थः, यस्मिन् भेदावधारणे, किम् ?, इत्याह- यस्मिन् अपायो भवेदन्यभेदाकाङ्क्षानिवृत्तेयस्मिन् भेदावधारणज्ञानेऽपायत्वं व्यवस्थाप्येतेति भावः । तस्मात् सर्वोऽपि भेदप्रत्यय उत्तरोत्तरापेक्षया त्वदभिप्रायेण स्तोकत्वादर्थावग्रह एव प्रामोति, नाऽपायः, शब्दज्ञानवत् ।। इति गाथार्थः॥२५६ ॥ किश्च, 'शब्द एवायम्' इति ज्ञानं स्तोकत्वाद् यदर्थावग्रहत्वेन भवताऽभिमतम् । तत् पूर्वमीहामन्तरेण न संभवति, तत्पूर्वकत्वे 21 च तस्यार्थ्यावग्रहत्वासंभव इति दर्शयन्नाह किं सद्दो किमसहोत्तणीहिए सद्द एव किह जुत्तं ? । अह पुबमीहिऊणं सद्दो त्ति मयं, तई पुव्वं ॥२५७॥ 'किं शब्दोऽयम्' आहोवित् 'अशब्दो रूपादिः' इत्येवं पूर्वमनीहिते यत् 'शब्द एव' इति निश्चयज्ञानम्, तदकस्मादेव जायमानं कथं युक्तम् ?, विमर्शपूर्वकत्वमन्तरेण नेदं घटत इत्यर्थः । इदमुक्तं भवति- शब्दगतान्वयधर्मेषु, रूपादिभ्यो व्यावृत्तौ च गृहीतायां 'शब्द एव' इति निश्चयज्ञानं युज्यते, तद्ग्रहणं च विमर्शमन्तरेण नोपपद्यते, विमर्शश्चहा, तस्मादीहामन्तरेणाऽयुक्तमेव 'शब्द एवं' इति निश्चयज्ञानम् । अथ निश्चयकालात पूर्वमीहित्वा भवतोऽपि 'शब्द एवाऽयम्' इति निश्चयज्ञानमभिमतम् । हन्त ! तर्हि निश्चयज्ञानात् पूर्व 'तई' असावीहा भवद्वचनतोऽपि सिद्धा ॥ इति गाथार्थः ।। २५७ ।। यदि नाम निश्चयज्ञानात् पूर्वमीहा सिद्धा, ततः किम् ?, इत्याह किं तं पुव्वं गहियं जमीहओ सह एव विण्णाणं । अह पुव्वं सामण्णं जमीहमाणस्स सद्दो त्ति ॥२५८॥ हन्त ! यदि निश्चयज्ञानमीहापूर्वकं त्वयाऽभ्युपगम्यते, तर्हि प्रष्टव्योऽसि-नन्वीहायाः पूर्व किं तद् वस्तु प्रमात्रा गृहीतम् , यदीहमानस्य तस्य 'शब्द एवाऽयम्' इति निश्चयज्ञानमुपजायते ?, न हि कश्चिद् वस्तुन्यगृहीतेऽकस्मात् प्रथमत एवेहां कुरुत इति भावः । क्षुभितस्य परस्योत्तरपदानासामर्थ्यमालोक्य स्वयमेव तन्मतमाशङ्कते- अथ ब्रूयात् पर:- सामान्य नाम-जात्यादिकल्पनारहितं वस्तुमात्रज. 'पद' । २ क. 'द् यद्यर्था' । ३ क.ग.'ततः पू' । ४ किं शब्दः किमशब्द इत्यनीहिते शब्द एव कथं युक्तम् ? । अथ पूर्वमीहित्वा शब्द इति मतं, सा पूर्वम् ॥२५७॥ ॥१५३॥ ५ किं तत् पूर्व गृहीतं यदीहमानस्य शब्द एवं विज्ञानम् । अथ पूर्व सामान्यं यदीहमानस्य शब्द इति ॥ २५८ ॥ Jan Educonsinmates For Personal and Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202