Book Title: Visheshavashyak Bhashya Part 01
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 153
________________ विशेषा० मानहायक तदेतत् कथमावरोधेन नीयते ?- युष्मद्वयाख्यानेन सह विरुध्यते एवंदमित्यर्थः, तथाहि- अस्मिन्नन्दिसूत्रेध्यमर्थः प्रतीयते- यथा तेन प्रतिपत्राऽर्थावग्रहेण शब्दोऽवगृहीत इति । भवन्तस्तु शब्दाद्युल्लेखरहितं सर्वथाऽमुं प्रतिपादयन्ति, ततः कथं न विरोधः ?, इति भावः । बृहदत्तिः। इति गाथार्थः ॥ २५२॥ ____ अत्रोत्तरमाह सद्दे त्ति भणइ वत्ता तम्मत्तं वा न सहबुद्दीए । जइ होइ सहबुद्धी तोऽवाओ चेव सो होजा ॥ २५३ ॥ शब्दस्तेनावगृहीत इति यदुक्तं, तत्र 'शब्दः' इति वक्ता प्रज्ञापकः, सूत्रकारो वा भणति प्रतिपादयति, अथवा तन्मात्र शब्दमात्रं रूप-रसादिविशेषव्यावृत्या-ऽनवधारितत्वाच्छन्दतयाऽनिश्चितं गृह्णातीति । एतावतांशेन शब्दस्तेनावगृहीत इत्युच्यते, न पुनः शब्दबुद्धया-'शब्दोऽयं' इत्यध्यवसायेन तच्छन्दवस्तु तेनाऽवगृहीतम् , शब्दोल्लेखस्याऽऽन्तर्मुहूर्तिकत्वात् , अर्थावग्रहस्य त्वेकसामयिकत्वादसंभव एवाध्यमिति भावः। यदि पुनस्तत्र शब्दबुद्धिः स्यात् , तर्हि को दोषः स्यात् ?, इत्याशङ्कय सूत्रकारः स्वयमेवं दूषणान्तरमाह'जईत्यादि' यदि पुनरर्थावग्रहे शब्दबुद्धिः शब्दनिश्चयः स्यात् , तदाऽपाय एवाऽसौ स्यात् , न त्वर्थावग्रहः, निश्चयस्याऽपायरूपत्वात् । ततश्चार्थावग्रहे-हाभाव एव स्यात् , न चैतद् दृष्टम् , इष्टं च ।। इति गाथार्थः ॥ २५३ ।। अत्राह पर:- ननु प्रथमसमय एव रूपादिव्यपोहेन 'शब्दोऽयम्' इति प्रत्ययोऽर्थावग्रहत्वेनाऽभ्युपगम्यताम् , शब्दमात्रत्वेन सामान्यत्वात् ; उत्तरकालं तु पायो माधुर्यादयः शङ्खशब्दधर्मा इह घटन्ते, न तु शार्ङ्गधर्माः खर-कर्कशत्वादय इति विमर्शवुद्धिराहा, तस्माच्छाल एवाऽयं शब्द इति तद्विशेषस्त्वपायोऽस्तु । तथा च सति “तेणं सद्दे ति उग्गाहिए" इदं यथाश्रुतमेव व्याख्यायते। "नो चेव णं जाणइ केवेस सद्दाइ, तओ ईहं पविसई" इत्याद्यपि सर्वमविरोधेन गच्छतीति । तदेतत् परोक्तं मूरिः प्रत्यनुभाष्य दूषयति, तद्यथा जैइ सद्दबुद्धिमत्तयमवग्गहो तबिसेसणमवाओ। नणु सदो नासदो न य रूवाइ विसेसोऽयं ॥ २५४ ॥ भोः पर ! यदि शब्दबुद्धिमात्र 'शब्दोऽयम्' इति निश्चयज्ञानमपि भवताऽर्थावग्रहोऽभ्युपगम्यते, तद्विशेषणं तु तस्य शब्दस्य | विशेषणं विशेषः 'शाल एवाऽयं शब्दः' इत्यादिविशेषज्ञानमित्यर्थः, अपायो मतिज्ञानतृतीयो भेदोऽङ्गीक्रियते । हन्त ! तर्हि अवग्रहल १ शब्द इति भणति वक्ता तन्मानं वा, न शब्दबुझ्वा । यदि भवति शब्दबुद्धिस्ततोऽपाय एव स भवेत् ।। २५३ ।। २ तेन शब्द इत्यवगृहीतः। ३ नो चेव जानाति क एष शब्दादिः, तत ईहां प्रविशति । ॥१५॥ ४ यदि शब्दबुद्धिमानमवप्रहस्तद्विशेषणमवायः । ननु शब्दो नाऽशब्दो न च रूपादि विशेषोऽयम् ॥ २५४ ॥ REPOPC Ja Educacions intem For Personal and Private Use Only www.jaineltrary.ary

Loading...

Page Navigation
1 ... 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202