Book Title: Visheshavashyak Bhashya Part 01
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 151
________________ SBSee समयप्रविष्टाः पुद्गलाः शब्दद्रव्यविशेषा ग्रहणमागच्छन्ति- अर्थावग्रहज्ञानहेतवो भवन्तीति भावः । इह च चरमसमयप्रविष्टा एव विज्ञानजनकत्वेन विशेषा. | ग्रहणमागच्छन्ति, तदन्ये त्विन्द्रियक्षयोपशमोपकारिण इति सर्वेषां सामान्येन ग्रहणमुक्तम् । सेयं प्रतिबोधकदृष्टान्तेन — व्यञ्जनावग्रहप्ररूपणा ' इति बृहद्वत्तिः । वाक्यशेषः ॥ अथ केयं मल्लकदृष्टान्तेन प्ररूपणा !। तद्यथा नाम कश्चित् पुरुष आपाकशिरसो मल्लकं शरावं गृहीत्वा, रूक्षमिदं भवतीत्यस्य ग्रहणम् । ४ ॥१४९॥ तत्र मल्लके एकमुदकबिन्दं प्रक्षिपेत् स नष्टः, तत्रैव तद्भावपरिणतिमापन्न इत्यर्थः । शेष सुबोधं यावद 'जेणं तं मल्लगं'। 'रावेहिति' आर्द्रतां नेष्यति । शेष सुबांधम् । नवरं 'पवाहहिति ' प्लावयिष्यतीति । एवामेवेत्यादि । अतिबहुत्वात् प्रतिसमयमनन्तैः शब्दपुद्गलैर्यदा तद् व्यञ्जनं पूरितं स भवति, तदा 'हु' इति करोति तमर्थ गृह्णातीत्युक्तं भवति । किंविशिष्टं !, नाम-जात्यादिकल्पनारहितम् । अत एवाऽऽह- 'नो चेव णं जाणइ के वेस सद्दाइ त्ति' न पुनरेवं जानाति क एष शब्दादिः ! इत्यर्थः । एवं च सति सामयिकत्वादविग्रहस्य, अर्थावग्रहात् पूर्व सर्वो व्यञ्जनावग्रहः " ॥ । तदेवमस्य व्यञ्जनावग्रहस्वरूपपातपादकस्य नन्दिसूत्रस्य शेषं प्रायः सुगममिति मन्यमानो भाष्यकारः “जाहे तं वंजणं पूरियं होइ" ।। E- इत्येतद् व्याचिख्यासुराह तोएण मल्लगं पिव वंजणमापूरियं ति जं भणियं । तं दव्वमिंदियं वा तस्संजोगो व न विरुद्धं ॥ २५०॥ 'जं भणिय' यदुक्तं नन्दिसूत्रकारेण । किं तत् ?, इत्याह- व्यञ्जनमापूरितमिति । केन किंवत् ?, इत्याह- तोयेन जलेन मल्लकं । शरावं तद्वदिति । तस्मिन् सूत्रकारभणिते व्यञ्जनं द्रव्यं गृह्यते, इन्द्रियं वा, तयोवी द्रव्ये-न्द्रिययोः संयोगः संबन्धः, इति सर्वथाऽप्यवि| रोधः । इदमुक्तं भवति-व्यञ्जनशब्देन शब्दादिविषयपरिणतपुद्गलसमूहरूपं द्रव्यं, श्रोत्रादीन्द्रियं वा, द्रव्ये-न्द्रिययोः संबन्धो वा गृह्यते, न कश्चिद् विरोधः, व्यज्यते प्रकटीक्रियते विवक्षितोऽर्थोऽनेनेति व्यञ्जनमित्यस्या व्युत्पत्तेः सर्वत्र घटनात् ।। इति गाथार्थः ।। २५० ॥ केवलं द्रव्यादिषु त्रिष्वपि व्यञ्जनशब्दवाच्येषु प्रत्यकमापूरितत्वे विशेषो द्रष्टव्यः । कः पुनरसौ ?, इत्याह देव्वं माणं पूरियमिदियमापूरियं तहा दोण्हं । अवरोप्परसंसग्गो जया तया गिण्हइ तमत्थं ॥ २५१ ॥ 'दव्वं ति' यदा द्रव्यं व्यञ्जनमधिक्रियते तदा "जाहे तं वंजणं पूरियं होई" इति कोऽर्थः? इत्याह-'माणं पूरियं ति' मानं तस्य शब्दादिद्रव्यस्य प्रमाण प्रतिसमयप्रवेशेन प्रभूतीकृतत्वात् स्वप्रमाणमानीतं प्रकर्षमुपनीतं खग्राहकज्ञानजनने समर्थीकृतमिति यावत् । यदा 5॥१४९॥ , यदा तयजनं पूरितं भवति । र तोयेन मल्लकमिव व्यञ्जनमापूरितमिति यद् भणितम् । तद् व्यमिन्द्रियं वा तत्संयोगो वा न विरुवम् ॥२५०॥ ३ ज. 'कदाचिद्'। ४ दण्यं मानं पूरितमिन्द्रियमापूरितं तथा द्वयोः । परस्परसंसर्गो यदा तदा गृहाति तमर्थम् ॥ २५ ॥ For Dod ony M arw.jaineltrary.org

Loading...

Page Navigation
1 ... 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202