Book Title: Visheshavashyak Bhashya Part 01
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 152
________________ S सन विशेषा. ॥१५०॥ त्विन्द्रियमितीन्द्रियं व्यञ्जनमधिक्रियते तदा" जाहे तं वंजणं पूरियं होई" इति किमुक्तं भवति? , इत्याह-'आपूरियं ति' आपूरितं शि व्याप्तं भृतं वासितमित्यर्थः । तथा, 'दोण्हं ति' द्वयोः श्रोत्रादीन्द्रिय-शब्दादिपरिणतद्रव्ययोः संबन्धो यदि व्यञ्जनमधिक्रियते तदा "जाहे बृह तं बंजणं परियं होई', इति किमुक्तं भवति?, इत्याह-'अवरोप्परसंसग्गो त्ति' सम्यक् सर्गो योगः संसर्गः सम्यक् संबन्ध इत्यर्थः, इदमत्र हृदयम्-अस्मिन् पक्षे यदा तयोरिन्द्रिय-द्रव्ययोः परस्परमतीव संयुक्तताऽनुषक्तताऽङ्गाङ्गिभावेन परिणामो भवति, तदा प्रस्तुतसंबन्धलक्षण व्यञ्जनमापूरितं भवतीत्युच्यत इति । 'जया तया गिण्डइ तमत्थं ति एवं यदा त्रिविधमपि व्यञ्जनं प्रकारत्रयेणाऽऽपूरितं भवति, तदा तं विवक्षितं शब्दादिकमर्थमव्यक्तं नाम-जात्यादिकल्पनारहितं गृह्णाति । एतच्च "ताहे हुँ ति करेइ" इत्यस्य व्याख्यानम् । अर्थावग्रहश्चाऽयमेकसामयिको विज्ञेयः, इतरस्तु पूर्वमन्तर्मुहूर्त द्रव्यप्रवेशादिरूपो व्यञ्जनावग्रहोऽवसेयः ॥ इति गाथार्थः॥ २५१ ॥ किंविशिष्टं पुनस्तमर्थं गृह्णाति ?, इत्याशङ्कय स्वत एव भाष्यकारस्तत्स्वरूपमाह सामन्नमणिदेसं सरूव-नामाइकप्पणारहियं । जइ एवं जं तेणं गहिए सद्दे त्ति तं किह णु ? ॥ २५२ ॥ ग्राह्यवस्तुनः सामान्य-विशेषात्मकत्वे सत्यप्यर्थावग्रहेण सामान्यरूपमेवाऽर्थ गृह्णाति, न विशेषरूपम् , अर्थावग्रहस्यैकसामयिकत्वात् , समयेन च विशेषग्रहणायोगादिति । सामान्यार्थश्च कश्चिद् ग्राम-नगर-वन-सेनादिशब्देन निर्देश्योऽपि भवति, तद्व्यवच्छेदार्थमाहअनिर्देश्य केनापि शब्देनाऽनभिलप्यम् । कुतः पुनरेतत् ?, इत्याह- यतः स्वरूप-नामादिकल्पनारहितम् , आदिशब्दाज्जाति-क्रिया-गुणद्रव्यपरिग्रहः । तत्र रूप-रसाद्यर्थानां य आत्मीयचक्षुरादीन्द्रियगम्यः प्रतिनियतः स्वभावस्तत् स्वरूपम् । रूप-रसादिकस्तु तदभिधायको ध्वनिर्नाम, रूपत्व-रसत्वादिका तु जातिः । प्रीतिकरमिदं रूपं, पुष्टिकारोऽयं रस इत्यादिकस्तु शब्दः क्रियाप्रधानत्वात् क्रिया। कृष्णनीलादिकस्तु गुणः । पृथिव्यादिकं पुनद्रव्यम् । एषां स्वरूप-नाम-जात्यादीनां कल्पना अन्तर्जल्पारूषितज्ञानरूपा तया रहितमेवार्थमविग्रहेण गृह्णाति यतो जीवः, तस्मादनिर्देश्योऽयमर्थः प्रोक्तः, तत्कल्पनारहितत्वेन स्वरूप-नाम-जात्यादिप्रकारेण केनापि निर्देष्टुमशक्यत्वादिति । एवमुक्ते सति परः प्राह- 'जइ एवमित्यादि' यदि स्वरूप-नामादिकल्पनारहितोऽर्थोऽवग्रहस्य विषय इत्येवं व्याख्या यते भवद्भिः, तर्हि 'जति' यनन्यध्ययनमूत्रे प्रोक्तं। किम् ?, इत्याह- "तेणं गहिए संदे ति" उपलक्षणत्वादित्थं संपूर्ण द्रष्टव्यम्H" से जहा नामए केइ पुरिसे अव्वत्तं सई सुणेजा, तेणं सद्दे ति उग्गहिए, न उण जाणइ के वेस सद्दाइ ति । ' तं किह णु त्ति' १ यदा तब्यय अनं पूरितं भवति । २ तदा ‘हुँ' इति करोति । ३ सामान्यमनिर्देश्यं स्वरूप-नामादिकल्पनारहितम् । यद्येवं यत् 'तेन गृहीतः शब्दः' इति तत् कथं नु? ॥ २५२ ॥ ४ क.ग. 'सहि त्ति' । HOM॥१५०॥ ५ तथानामा कश्चित् पुरुषोऽव्यक्तं शब्दं शृणुयात् । तेन शब्द इत्यवगृहीतः, न पुनर्जानाति क एप पान्द इति । Jain Education inte For Personal e Use Only

Loading...

Page Navigation
1 ... 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202