Book Title: Visheshavashyak Bhashya Part 01
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
19
विशे० ॥१०५॥
मतिहेतूनामपि परप्रबोधकत्वे सति 'न भेओ सिं' अनयोर्मति-श्रुतयोन भेदः । कुतः? इत्याह- 'तउत्ति' ततस्तस्मात् । कारणात् । कस्मात् ? इत्याह-यद् यस्माद् द्वे अध्येते मति-श्रुते स्वरूपतो विज्ञानाऽऽत्मना न परप्रबोधके, विज्ञानस्य मूकत्वेन परप्रबो- बृहद्वत्तिः । धकत्वायोगात् , अवध्यादिवदिति । अथ श्रुतस्य यत् कारणं शब्दादिकं तत् परप्रबोधकम् , इत्येतावता मतिज्ञानाद् विशिष्यते श्रुतज्ञानम् । नन्वेतद् मतिज्ञानेऽपि समानम् , तत्कारणस्याऽपि करचेष्टादेः परावबोधकत्वादिति । एतदेवाह- तानि च तानि पूर्वोक्तरूपाणि कारणानि च तत्कारणानि द्वयोरपि मति-श्रुतज्ञानयोर्यथासंख्यं शब्दादीनि, करचेष्टादीनि च परं बोधयन्त्येव, इति कोऽनयोर्विशेषः १, न कश्चिदित्यर्थः । इति किमुच्यते- मूके तरभेदाद् भेदः ॥ इति गाथार्थः ॥ १७३ ॥ तदेवं परोक्ते व्यभिचारिते ततो निरुत्तरं विलक्षीभूतं तूष्णीम्भावमापन्नं परमवलोक्य संजातकारुण्यः स्वयमेव मूरिरुत्तरमाह
देव्वसुयमसाहारणकारणओ परविबोहयं होज्जा । रूढं ति व दव्वसुयं सुयं ति रूढा न दव्यमई ॥१७४॥
द्रव्यश्रुतं पुस्तकन्यस्ताक्षरशब्दरूपं श्रुतज्ञानस्यैव कारणम् , न तु मतेः, इति श्रुतज्ञानं प्रत्यसाधारणकारणत्वाद् द्रव्यश्रुतं परप्रबोधकं भवेत् , न तु करादिचेष्टाः, तासां मति-श्रुतोभयकारणत्वेन साधारणकारणत्वादिति भावः इदमुक्तं भवति-पुस्तकादिन्यस्ताक्षररूपं, शब्दात्मकं च द्रव्यश्रुतम्, श्रुतज्ञानस्य मतिपूर्वकत्वाद् यद्यप्यानन्तर्येणाऽवग्रहे-हादीन् जनयति, तथाऽप्यक्षररूपत्वाद् मुख्यतया श्रुतज्ञानस्यैव किलाऽसाधारणं कारणमुच्यते, कारणत्वेनोपचारतः श्रुतज्ञानेऽन्तर्भवति, परप्रबोधकत्वेन च तत् सर्वस्यापि विदितमिति । एवं कारणस्य परप्रबोधकत्वाच्छूतज्ञानं परप्रबोधकं घटते, करादिचेष्टास्तु मतिज्ञानस्याऽसाधारणकारणं न भवन्ति, श्रुतज्ञानहेतुत्वादपि कर-वक्त्रसंयोगादिकायां हि करचेष्टायां दृष्टायां न केवलं तद्विषया अवग्रहादय उत्पद्यन्ते, किन्तु 'भोक्तुमिच्छत्ययम्' इत्यादिश्रुतानुसारिविकल्पात्मकं श्रुतज्ञानमप्युपजायत इति । अतोऽसाधारणकारणत्वाभावात् करादिचेष्टाः परमार्थतो मतिज्ञानस्य कारणमेव न संभवन्ति, ततश्च न तत्रान्तर्भवन्ति; तथा च सति न मतिज्ञानं परप्रबोधकम् । अथवा 'दब्बसुयमसाहारणकारणउ त्ति' द्रव्यश्रुतं पुस्तकादिन्यस्ताऽऽचारादिग्रन्थाक्षररूपम् , गुरुजनोदीरितदेशनाशब्दस्वरूपं च परमबोधकं भवेत् । कुतः ? इत्याहA असाधारणस्य मोक्षं प्रत्यनन्यसाधारणकारणस्य क्षायिकज्ञान-दर्शन-चारित्रलक्षणस्य वस्तुकलापस्य कारणत्वाद् हेतुत्वात् । ततश्च
तवारेण श्रुतज्ञानमपि परप्रबोधकं घटते; करादिचेष्टास्तु यद्यपि मतिज्ञानस्य कारणम् , तथापि यथोक्तो विशिष्टः परप्रबोधस्तासु प्रायो B ॥१०५॥
१ दव्यश्रुतमसाधारणकारणतः परविबोधकं भवेत् । रूढमिति वा द्रव्यश्रुतं श्रुतमिति रूढा न अन्यमतिः ॥ १७ ॥
For som
e
Use Only
Loading... Page Navigation 1 ... 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202