Book Title: Visheshavashyak Bhashya Part 01
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 113
________________ बृहद्वत्तिः । विशे० ॥११॥ यचित्तं यन्मनोऽनेकार्थालम्बनमनेकार्थप्रतिभासाऽऽन्दोलितम् , अत एव पर्युदसनं पर्युदासो निषेधो न तथाऽपर्युदासोऽनिषेधस्तेन, तथोपलक्षणत्वादविधिना च परिकुण्ठितं जडीभूतं सर्वथाऽवस्तुनिश्चयरूपतामापन्नम् , किंबहुना ? 'सेय इवेत्यादि ' शेत इव स्वपितीव सर्वात्मना न किश्चिच्चेतयते, वस्त्वप्रतिपत्तिरूपत्वात् , तदेवंविधं चित्तं संशय उच्यत इत्यर्थः, तच्चाऽज्ञानम् , वस्त्ववबोधरहितत्वादिति । यत् पुनस्तदेव चेतो वक्ष्यमाणस्वरूपं तदीहेति संबन्धः । कथंभूतं सत् ? इत्याह- "भूया-भूयेत्यादि ' भूतः कचिद् विवक्षितपदेशे स्थाण्यादिरः, अभूतस्तत्राऽविद्यमानः पुरुषादिः, तावेव पदार्थान्तरेभ्यो विशिष्यमाणत्वाद् विशेषी, तयोरादान-त्यागाभिमुखं- भूतार्थविशेषोपादानस्याऽभिमुखम् , अभूतार्थत्यागस्याऽभिमुखमिति यथासंख्येन संबन्धः । यतः कथंभूतम् ? इत्याह- सदर्थहेतूपपत्तिव्यापारतत्परं हेतुद्वारेणेदं विशेषणम्- सदर्थहेतूपपत्तिव्यापारतत्परत्वाद् भूता-ऽभूतविशेषादान-त्यागाभिमुखमिति भावः, तत्र हेतुः साध्यार्थगमकं युक्तिविशेषरूपं साधनम् , उपपत्तिः संभवघटनम्-विवक्षितार्थस्य संभवव्यवस्थापनम् । ततश्च हेतुश्चोपपत्तिश्च हेतूपपत्ती सदर्थस्य विवक्षितपदेशेऽरण्यादौ विद्यमानस्य स्थाण्वादेरर्थस्य हेतू-पपत्ती सदर्थहेतूपपत्ती लद्विषयो व्यापारो घटनं चेष्टनं सदर्थहेतू-पपत्तिव्यापारस्ततस्तत्परं तनिष्ठमिति समासः। अत एवाऽमोघमर्थवलायातत्वेनाऽविफलमामिथ्यास्वरूपम्, तदेवंभूतं चेतः ईहा'इति संबन्धः कृत एव इदमुक्तं भवति- केनचिदरण्यदेशं गतेन सवितुरस्तमयसमये ईषदवकाशमासादयति तमिस्र दूरवर्ती स्थाणुरुपलब्धः, ततोऽस्य विमर्शः समुत्पन्नः-किमयं स्थाणुः, पुरुषो वा ? इति । अयं च संशयत्वादज्ञानम् । ततोऽनेन तस्मिन् स्थाणौ दृष्ट्वा वल्ल्यारोहणम् , पविलोक्य काक-कारण्डव-कादम्ब-कौश्च-कीरशकुन्तकुलनिलयनम् , कृतश्चेतास हेतुब्यापारः, यथा स्थाणुरयम् , वल्ल्युत्सर्पण-काकादिनिलयनोपलम्भात् । तथा संभवपर्यालोचनं च व्यधायि, तद् यथा- अस्ताचलान्तरिते सवितरि, प्रसरति चेपत्तमिस्र महारण्येऽस्मिन् स्थाणुरयं संभाव्यते, न पुरुषः, शिरकण्डूयन-कर-ग्रीवाचलनादेस्तव्यवस्थापकहेतोरभावात् । ईदृशे च प्रदेशेऽस्यां वेलायां प्रायस्तस्याऽसंभवात् । तस्मात् स्थाणुनात्र सद्भूतेन भाव्यम् , न पुरुषेण । तदुक्तम्" अरण्यमेतत् सविताऽस्तमागतो न चाऽधुना संभवतीह मानवः । प्रायस्तदेतेन खगादिभाजा भाव्यं स्मरारातिसमाननाम्ना" ॥ १ ॥ एतच्चेदृशं चित्तं ' ईहा' इत्युच्यते, निश्चयाभिमुखत्वेन संशयादुत्तीर्णत्वात् , सर्वथानिश्चयेऽपायत्वप्रसङ्गेन निश्चयादधोवर्तित्वाच । इति संशये-हयोः प्रतिविशेषः ।। इति गाथाद्वयार्थः ॥ १८३ ॥ १८४ ॥ अथाऽपाय-धारणागतविप्रतिपत्तिनिराचिकीर्षया परमतमुपदर्शयन्नाह १५. छ. ज. 'चित्तं संशयरूपं सं'। ॥११॥

Loading...

Page Navigation
1 ... 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202