Book Title: Visheshavashyak Bhashya Part 01
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 117
________________ त्रयी गतिः । तत्राद्यपक्षद्वयमयुक्तम् , ज्ञानरूपत्वाभावात् , तद्भेदानां चेह विचार्यत्वेन प्रस्तुतत्वात् । तृतीयपक्षोऽप्ययुक्त एव, संख्येयमसंविशे० Bख्येयं वा कालं वासनाया इष्टत्वात् , एतावन्तं च कालं तद्वस्तुविकल्पाऽयोगात् । तदेवमविच्युति-स्मृति-वासनारूपायाखिविधाया अपि धारणाया अघटमानत्वात् त्रिधैव मतिः प्राप्नोति, न चतुर्धा ॥ ॥११५|| अत्रोच्यते-यत् तावद् गृहीतग्राहित्वादविच्युतेरप्रामाण्यमुच्यते, तदयुक्तम् , गृहीतग्राहित्वलक्षणस्य हेतोरसिद्धत्वात् , अन्यकालविशिष्टं हि वस्तु प्रथमप्रवृत्ताऽपायेन गृह्यते, अपरकालविशिष्टं च द्वितीयादिवारा प्रवृत्ताऽपायेन । किश्च, स्पष्ट-स्पष्टतर-स्पष्टतमभिन्नधमकवासनाजनकत्वादप्यविच्युतिप्रवृत्तद्वितीयाद्यपायविषयं बस्तु भिन्नधर्मकमेव, इति कथमविच्युतेगृहीतग्राहिता ? । स्मृतिरपि पूर्वोत्तरदर्शनद्वयानधिगतं वस्त्वेकत्वं गृह्णाना न गृहीतग्राहिणी । न च वक्तव्यं कालादिभेदेन भिन्नत्वाद् वस्तुनो नैकत्वम् , कालादिभिभिन्नत्वेऽपि सत्त्व-प्रमेयत्व-संस्थानरूपादिभिरेकत्वात् । वासनापि स्मृति-विज्ञानावरणकर्मक्षयोपशमरूपा, तद्विज्ञानजननशक्तिरूपा चेष्यते । सा च यद्यपि स्वयं ज्ञानरूपा न भवति, तथापि पूर्वप्रवृत्ताऽविच्युतिलक्षणज्ञानकार्यत्वात् , उत्तरकालभाविस्मृतिरूपज्ञानकारणत्वाच्चोपचारतो ज्ञानरूपाऽभ्युपगम्यते । तद्वस्तुविकल्पपक्षस्त्वनभ्युपगमादेव निरस्तः । तस्मादविच्युति-स्मृति-वासनारूपाया धारणायाः स्थितत्वाद् न मतेस्वैविध्यम् , किन्तु चतुर्धा सेति स्थितम् ।। इति गाथाद्वयार्थः ॥ १८८ ॥ १८९ ।। अर्थतां स्वाभिमतां धारणां व्यवस्थाप्य परं प्रत्याह तं इच्छंतस्स तुहं वत्थूणि य पंच, नेच्छमाणस्य । किं होउ सा अभावो भावो नाणं व तं कयरं ? ॥१९॥ अस्मदभिमतामनन्तरप्रतिष्ठितस्वरूपां तां धारणामिच्छतस्तव पञ्च वस्तूनि- पञ्चाऽऽभिनिवोधिकज्ञानभेदाः प्राप्नुवन्ति, अपायस्यैकस्याऽपि भेदद्वयरूपताभ्युपगमेन भेदचतुष्टयस्य त्वयाऽपि पूरितत्वात् , पश्चमस्य तु मदुक्तस्य धारणालक्षणस्य प्रसङ्गादिति भावः । अथास्मदभ्युपगता धारणा त्वया नेष्यते, तर्हि 'नेच्छमाणस्स किं होउ इत्यादि' तां मदभ्युपगतां धारणामनिच्छतोऽमतिपद्यमानस्य । तव सा मदभ्युपगता धारणा किं भवतु-अभावो- अवस्तु, आहोखिद् भावो- वस्तु ? इति विकल्पद्वयम् । किश्चातः? न तावदभावः,भावत्वेनाऽनुभूयमानत्वात् । न च तथाऽनुभूयमानस्याऽभावत्वमाधातुं शक्यते, अतिप्रसङ्गात्-घटादिष्वपि तथात्वमाप्तेः तेऽपि बनुभववशेनेव भावरूपा व्यवस्थाप्यन्ते । यदि चाऽनुभवोऽप्यप्रमाणम् , तदा घटादिष्वपि भावरूपतायामनाश्वास इति भावः । अथ भावोऽसौ, १ तामिच्छतस्तव वस्तूनि च पञ्च, नेच्छतः । किं भवतु साऽभावो भावो ज्ञानं वा तत् कतरत् ॥ १९ ॥ ११५॥

Loading...

Page Navigation
1 ... 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202