Book Title: Visheshavashyak Bhashya Part 01
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशे०
बृहद्वत्तिः ।
॥१२३॥
बालकहर
न्तीति प्राप्तकारीणि प्राप्यकारीणि स्पृष्टार्थग्राहिणीत्यर्थः । कुतः पुनरेतान्येव प्राप्यकारीणि ?, इत्याह- उपघातश्चानुग्रहश्चोपघाताऽनुग्रही तयोर्दर्शनात्- कर्कशकम्बलादिस्पर्शने, त्रिकटुकाद्यास्वादने, अशुच्यादिपुद्गलाऽऽघाणे, भेर्यादिशब्दश्रवणे, त्वक्षणनाापघातदर्शनात् चन्दना-ङ्गना-हंसतूलादिस्पर्शने, क्षीर-शर्कराधास्वादने,कर्पूरपुद्गलाद्याघाणे, मृदु-मन्द्रशब्दाद्याकर्णने तु शैत्याद्यनुग्रहदर्शनादित्यर्थः। नयनस्य तु निशितकरपत्र-सेल्लु-भल्लादिवीक्षणेऽपि पाटनायुपघातानवलोकनात्, चन्दना-गुरु-कर्पूराद्यवलोकनेऽपि शैत्याद्यनुग्रहाननुभवात्ः मनसस्तु बयादिचिन्तनेऽपि दाहायुपघाताऽदर्शनात्, जल-चन्दनादिचिन्तायामपि च पिपासोपशमाद्यनुग्रहासंभवाच्च ।। इति गाथार्थः ॥२०॥
अत्र परः प्राहजुज्जइ पत्तविसयया फरिसण-रसणे न सोत्त-घाणेसु । गिण्हंति सविसयमिओ जं ताइं भिन्नदेसं पि ॥२०५॥
प्राप्तः स्पृष्टो विषयो ग्राह्यवस्तुरूपो ययोस्ते प्राप्तविषये तयोर्भावः प्राप्तविषयता सा युज्यते घटते । कस्मिन्?, इत्याह- स्पर्शनं च रसनं चेति समाहारद्वन्द्वस्तस्मिन् , स्पर्शन-रसनेन्द्रियद्वय इत्यर्थः। अनभिमतप्रतिषेधमाह-न श्रोत्र-घ्राणयोः प्राप्तविषयता युज्यते, यद् यस्मात् कारणादितो विवक्षितात् स्वदेशाद् भिन्नदेशमपि स्वविषयमेते गृहीतः, अस्याऽर्थस्याऽनुभवसिद्धत्वात् , न हि शब्दः कश्चिच्छ्रोप्रेन्द्रिये प्रविशन्नुपलभ्यते, नापि श्रोत्रेन्द्रियं शब्ददेशे गच्छत् समीक्ष्यते । न चाभ्यामन्येनाऽपि प्रकारेण विषयस्पर्शनं घटते, 'दूर एष कस्याऽपि शब्दः श्रूयते' इत्यादिजनोक्तिश्च श्रूयते । कर्पूर-कुसुम-कुङ्कुमादीनां तु दूरस्थानामपि गन्धो निर्विवादमनुभूयते, दृश्यते च । तस्माच्छ्ोत्र-घ्राणयोः प्राप्तविषयता न युज्यत एव ॥ इति गाथार्थः ॥२०५॥
अत्रोच्यतेपावंति सद्द-गन्धा ताई गंतुं सयं न गिण्हन्ति । जं ते पोग्गलमइया सक्किरिया वाउवहणाओ ॥२०६॥
धूमो व्व, संहरणओ दाराणुविहाणओ विसेसेणं । तोयं व नियंबाइसु पडिघायाओ य वाउ व्व ॥२०७॥
व्याख्या- 'पावंति सद्द-गन्धा ताई ति' शब्द-गन्धौ कर्तृभूतौ, ते श्रोत्र-घाणेन्द्रिये कर्मतापन्ने, अन्यत आगत्य प्राप्नुतः स्पृशत १ युज्यते प्राप्तविषयता स्पर्शन-रसने न श्रोत्र-प्राणयोः । गृहीतः स्वविषयमितो यत् ते मिनदेशमपि ॥२०५॥ २ घ. छ. ज. 'सोय-या '1३ क. ग. 'कुम-कुसुमादी' ।
४ प्राप्नुतः शब्द-गन्धी ते गत्वा स्वयं न गृह्णीतः। यत् तौ पुद्गलमयी सक्रियो वायुवानात् ॥ २०६॥ धूम इव, संहरणतो द्वारानुविधानतो विशेषेण । तोयमिव नितम्बादिषु प्रतिघाताच वायुरिव ॥ २० ॥
॥१२३॥
Educan
For Personal
Private Use Only
www.jaineitrary.org
Loading... Page Navigation 1 ... 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202