Book Title: Visheshavashyak Bhashya Part 01
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 136
________________ वा' इति मया प्रागेवोक्तम् , इत्याशङ्कय स्वप्नेऽपि मनसः प्राप्यकारितामपाकर्तुमाहविशेषाव सिंमिणो न तहारूवो वभिचाराओ अलायचकं व । वभिचारो य सदसणमुवघाया-णुग्गहाभावा ॥२२४॥ ॥१३४॥ इह 'मदीयं मनोऽपुत्र गतम्' इत्यादिरूपो यः सुप्तैरुपलभ्यते स्वमः, स यथोपलभ्यते न तथारूप एव, स्वमोपलब्धमोदकस्तथाविधपरमाचार्यैरिव परैर्न सत्य एव मन्तव्य इत्यर्थः । कुतः ?, इत्याह- व्यभिचारात्- अन्यथात्वदर्शनात् । किंवद्- यथा न सत्यम् ?, इत्याह- अलातचक्रमिव- अलातमुल्मुकं तवृत्ताकारतया आशु भ्रम्यमाणं भ्रान्तिवशादचक्रमपि चक्रतया प्रतिभासमानं यथा न सत्यम् , अचक्ररूपताया एव तत्राऽवितथत्वात् , भ्रमणोपरमे स्वभावस्थस्य तथैव दर्शनात् ; एवं स्वामोऽपि न सत्यः, तदुपलब्धस्य मनोमेरुगमनादिकस्याऽर्थस्याऽसत्यत्वात् । तदसत्यत्वं च प्रबुद्धस्य स्वप्नोपरमे तदभावात् । तदभावश्च तदवस्थायां देहस्थस्यैव मनसोऽनुभूयमानत्वादिति ॥ आह- ननु स्वरमावस्थायां मेर्वादौ गत्वा जाग्रदवस्थायां निवृत्तं तद् भविष्यति, इति 'व्यभिचारात्' इत्यसिद्धो हेतुः, इत्याशङ्कयाह- 'वभिचारो येत्यादि' यो मया व्यभिचारो हेतुत्वेनोक्तः, स चेत्थं सिद्धः । कथम् ?, इत्याह- 'सदसणमिति' विभक्तिव्यत्ययात् स्वदर्शनादित्यर्थः, स्वस्थाऽऽत्मनो मे दिस्थितजिनगृहादिगतस्य दर्शनं स्वदर्शनं तस्मादिति । एतदुक्तं भवति- यथा कदाचिदात्मीयं मनः स्वमे मेादौ गतं कश्चित् पश्यति, तथा कोऽपि शरीरमात्मानमपि नन्दनतरुकुसुमावचयादि कुर्वन्तं तद्गतं पश्यति, न च तत् तथैव, इहस्थितैः सुप्तस्य तस्याऽत्रैव दर्शनात् , द्वयोश्चात्मनोरसंभवात् , कुसुमपरिमलाद्यध्वजनितपरिश्रमायनुग्रहो-पघाताभावाच ॥ इति गाथार्थः ॥ २२४ ॥ एतदेव भावयन्नाह इह पासुत्तो पेच्छइ सदेहमन्नत्थ, न य तओ तत्थ । न य तग्गयोवघाया-णुग्गहरूवं विबुद्धस्स ॥२२५॥ इह जगति प्रसुप्तः कश्चित् स्वदेहमन्यत्र नन्दनवनादौ गतं स्वप्ने पश्यति । न च तकोऽसौ देहस्तत्र नन्दनवनादावुपपद्यते, इहस्थितैरन्यैस्तस्याऽत्रैवोपलम्भात , इत्याद्यनन्तरोक्तयुक्तेः। न च विबुद्धस्य सतस्तद्गतयोरन्यत्र गमनगतयोरन्यत्र गमनविषययोरनुग्रहोपघातयो रूपं कुसुमपरिमल मार्गपरिश्रमादिकं स्वरूपमुपलभ्यते । तस्मात् स्वापावस्थायामपि नाऽन्यत्र मनसो गमनम् , देहगमनदर्शनेन व्यभिचारात् ।। इति गाथार्थः ।। २२५ ॥ १ स्वप्नो न तथारूपो व्यभिचारादलातचकमिव । व्यभिचारश्च स्वदर्शनादुपघाता-ऽनमहाभावात् ॥२२४॥ २५. छ, ज. 'स्वाद'। ३ इह प्रसुप्तः प्रेक्षते वहमन्यत्र न च सकस्तत्र । न च तगतोपघाता-नुमहरूपं विबुदस्य ।। २२५ ॥ ||१३४॥ Edit For Personal and Private Use Only

Loading...

Page Navigation
1 ... 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202