Book Title: Visheshavashyak Bhashya Part 01
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 148
________________ विशेषा० ॥१४६॥ Jain Education Internat विषयस्य ग्राह्यस्य परिमाणमनियतमपरिमितं प्राप्नोति तस्य चक्षुष इति प्रतिज्ञा । हेतुमाह- अप्राप्तविषयमिति कृत्वा । मनस इवेति दृष्टान्तः । प्रयोगः- यदप्राप्तमपि विषयं परिच्छिनत्ति, न तस्य तत्परिमाणं युक्तं यथा मनसः, अप्राप्तं च विषययवगच्छति चक्षुः, तस्माद् न तस्य तत्परिमाणं युक्तमिति । अथेह प्रयोगे दृष्टान्तस्य साध्यवैकल्यं सूरिरुपदर्शयति- मनसो दृष्टान्तीकृतस्याऽयाप्यकारिणो विषयनियमो 'अस्त्येव' इति शेषः । कुतः १, इत्याह- यतः स त्ति' तदपि मनः सर्वेष्वप्यर्थेषु न क्रामति न प्रसरति ।। इति गाथार्थः ॥ २४६ ॥ तथाहि- अत्थाहणे मुज्झइ सन्तेसु वि केवलाइगम्मेसु । तं किंकयमग्गहणं अपत्तकारित्तसामन्ने ? ॥ २४७ ॥ अर्था एव मतेर्दुष्प्रवेशत्वाद् गहनानि अर्थगहनानि तेष्वनन्तेषु सत्स्वपि विद्यमानेष्वपि । कथंभूतेषु ? इत्याह- केवलं केवलज्ञानमादिर्येषामवधिज्ञाना-ऽऽगमादीनां तानि केवलादीनि तैर्गम्यन्ते ज्ञायन्ते केवलादिगम्यानि तेषु । एवंभूतेष्वर्थगहनेषु सत्स्वपि कस्यचिद् मन्दमतेजन्तोर्मनो मुह्यति कुण्ठीभवति तदवगमाय न प्रभवति- तान् गहनभूतान् केवलादिगम्यान् सतोऽप्यर्थान् न गृह्णातीति तात्पर्यम् । तदत्राहमपि भवन्तं पृच्छामि तदेतद् मनसोऽग्रहणमर्थानां किंकृतं किंनिबन्धनम् १, अप्राप्तकारित्वसामान्येऽप्राप्तकारित्वे तुल्येऽपीत्यर्थः । तस्माद् मनसोऽपि विषयपरिमाणसद्भावादनन्तरगाथोक्तः साध्यविकलो दृष्टान्त इति स्थितम् || इति गाथार्थः || २४७॥ तत् किंकृतमग्रहणमर्थानाम् १, इत्यत्र पराभिप्रायमाशङ्कमानः प्राह कैम्मोदयओ व्व सहावओ व्व नणु लोयणे वि तं तुल्लं । तुल्लो व उवालंभो एसो संपत्तविस वि ॥ २४८॥ यत् केषांचिदर्थानां मनसोऽग्रहणं तत् 'तदावरणकर्मोदयाद् वा, स्वभावाद् वा ' इति परो ब्रूयात् । नन्वेतल्लोचनेऽपि तुल्यम्, यतस्तदप्यप्राप्यकारित्वे तुल्येऽपि कर्मोदयात्, तत्स्वाभाव्याद् वा कांश्चिदेवाऽर्थान् गृह्णाति न सर्वानिति । तदेवं नयनस्याप्राप्यकारित्वेऽतिप्रसङ्गलक्षणं प्राप्तकारिवादिना यद् दूषणमुक्तं तत्परिहृतम् । अथवा यो नयन- मनसोः प्राप्यकारित्वमभ्युपगच्छति, तस्याऽप्येतद् दूषणमापतत्येव यश्च द्वयोर्दूषणं न तदेकस्य दातुमुचितम् इत्येतच्चेतसि निधाय प्राह- 'तुल्लो वेत्यादि ' वेत्यथवा, एषोऽतिप्रसङ्गलक्षण उपालम्भस्तुल्यः समानः । क्व १, इत्याह- संप्राप्तविषयत्वेऽपि नयन-मनसोरभ्युपगम्यमाने, तथाहि - अत्रापि शक्यते वक्तुम् - यदि १. ज. 'सोऽपि दृ' २ अर्थगहनेषु मुझति सत्स्वपि केवलादिगम्येषु । तत् किंकृतमग्रहणमप्राप्तकारित्वसामान्ये १ ॥ २४७ ॥ ३ कर्मोदयतो वा स्वभावतो वा लोचनेऽपि ननु तत् तुल्यम् । तुल्यो वोपालम्भ एष संप्राप्तविषयेऽपि ॥ २४८ ॥ For Personal and Private Use Only बृहद्वृत्तिः । ॥१४६॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202