Book Title: Visheshavashyak Bhashya Part 01
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
बृहद्वात्तिः।
विशेषा० ॥१३०॥
शरीराद् बहिनिःसरणमुपपद्यत इति स्थितम् ।। इति गाथार्थः ॥ २१६ ॥ अथ द्रव्यमनो विषयदेशं व्रजतीति ब्रूयात् , तत्राऽप्याहदेव्यमणो विण्णाया न होइ गंतुं च किं तओ कुणउ ? । अह करणभावओ तस्स, तेण जीवो वियाणेज्जा॥२१७॥
काययोगसहायजीवगृहीत-चिन्ताप्रवर्तकमनोवर्गणान्तःपातिद्रव्यसमूहात्मकं द्रव्यमनः स्वयं विज्ञातृ न भवत्येव, अचेतनत्वात्, उपलशकलवत् , इत्यतो गत्वाऽपि मेर्वादिविषयदेशं किं तद् वराकं करोतु, तत्र गतादपि तस्मादर्थावगमाभावादिति भावः ।। पराभिप्रायमाशङ्कते- 'अह करणेत्यादि' अब मन्यसे- यद्यपि द्रव्यमनःस्वयं न किश्चिज्जानाति, तथापि करणभावः करणत्वं तस्य द्रव्यमनसः प्रदीपादेरिव वस्तुनि प्रकाशयितव्ये समस्ति । ततो जीवः कर्ता तेन द्रव्यमनसा करणभूतेन विजानीयादवबुध्येत मेर्वादिकं वस्त्विति । अत्र प्रयोगः- बहिर्निर्गतेन द्रव्यमनसा प्राप्य विषयं जानाति जीवः, करणत्वात् , प्रदीप-मणि-चन्द्र सूर्यादिप्रभयेव ॥इति गाथार्थः ॥२१७॥ _ अत्रोत्तरमाह
केरणतणओ तणुसंठिएण जाणिज्ज फरिसणेणं व । एत्तो च्चिय हेऊओ न नीइ बाहिं फरिसणं व ॥२१८॥
को वै न मन्यते, यदुत- अर्थपरिच्छेदे कर्तव्ये आत्मनो द्रव्यमनः करणम् ? । किन्तु करणं द्विधा भवति-शरीरगतमन्तःकरणम् , तद्वहिभूतं वाह्यकरणं च । तत्रेदं द्रव्यमनोऽन्तःकरणमेवात्मनः । ततश्च 'करणत्तणउ त्ति' सूत्रस्य सूचामात्रत्वात् , एकदेशेन समुदायस्य गम्यमानत्वाच्चान्तःकरणत्वादित्यर्थः, तनुसंस्थितेन शरीराद् बहिरनिर्गतेन जीवस्तेन जानीयाद् मेर्वादिविषयम् , स्पर्शनेन्द्रियेणेव कमलनालादिस्पर्शम् । प्रयोगः- यदन्तःकरनं तेन शरीरस्थेनैव विषय जीवो गृह्णाति, यथा स्पर्शनेन, अन्तःकरणं च द्रव्यमनः । मदीप-मणि-चन्द्र-सूर्यप्रभादिकं तु बाह्यकरणमात्मन इति साधनविकलः परोक्तदृष्टान्तः । आह-ननु शरीरस्थमपि तत् पद्मनालतन्तुन्यायेन बहिर्द्रव्यमनः किं न निःसरति ?, इत्याह- 'एत्तो चियेत्यादि' इत एवान्तःकरणत्वलक्षणादेतोबहिर्न निर्गच्छति द्रव्यमनः, स्पर्शनवत् । प्रयोगः- यदन्तःकरणं तच्छरीराद् बहिर्न निर्गच्छति, यथा स्पर्शनम् ॥ इति गाथार्थः ॥ २१८ ॥ तदेवं भावमनसो द्रव्यमनसश्च बहिश्चारिताद्यभावादमाप्यकार्येव मन इत्युक्तम् । सांप्रत 'नाणुग्गहो-बघायाभावाओ लोयणं व'
१ द्रव्यमनो विज्ञातृ न भवति गत्वा च किं ततः करोतु । अथ करणभावतस्तस्य, तेन जीयो विजानीयात् ॥ २१७ ॥ २ करणत्वतस्तनुसंस्थितन जानीयात् स्पर्शनेनेव । इत एव हेतो निर्गच्छति बहिः स्पर्शनमिव ॥ २१ ॥ ३ गाथा २१४ ।
PRESEARCH
॥१३०॥
For som
e
Use Only
Loading... Page Navigation 1 ... 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202