Book Title: Visheshavashyak Bhashya Part 01
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 119
________________ विशे० hou ॥११७॥ तदेवमवग्रहादिभेदचतुष्टयविषया निराकृताः सर्वा अपि परविप्रतिपत्तयः, तन्निराकरणप्रक्रमे चानन्तरमवग्रहो द्विरूपः प्रोक्तः । स च कथं द्विरूपो भवति ? इत्याशङ्कच तद्विरूपताकथनव्याजेन पूर्व यान्याभिनिबोधिकज्ञानस्याऽवग्रहादीनि चत्वारि भेदवस्तून्युक्तानि, तेष्वेव मध्येऽवग्रहं तावद् व्याचिख्यासुराह तेत्थोग्गहो दुरूवो गहणं जं होइ बंजण-त्थाणं । वंजणओ य जमत्थो तेणाईए तयं वोच्छं ॥ १९३ ॥ तत्राऽवग्रहणमवग्रहो द्विरूपो यथा भवति, तथा प्रोच्यते । कथम् ?, इत्याह- यद् यस्माद् ग्रहणं व्यञ्जना-ऽर्थयोरेव भवेत् , अन्यस्य ग्राह्यस्याऽभावात् । ततश्च विषयद्वैविध्यादवग्रहो द्विविध इति भावः। अपरं च, यद्यस्मात् कारणाद् वक्ष्यमाणन्यायेन प्राप्यकारिष्विन्द्रियेषु व्यञ्जनतो- व्यञ्जनावग्रहादनन्तरमेव, अर्थो- अर्थावग्रहो भवति, तेनाऽऽदौ प्रथमतस्तकं व्यञ्जनावग्रहमेव वक्ष्ये ॥ इति गाथार्थः ॥ १९३ ॥ तत्र व्यञ्जनं तावत् किमुच्यते ?, इत्याह जिजइ जेणत्थो घडो व्व दीवेण वंजणं तं च । उवगरणिदियसदाइपरिणयद्दव्वसंबंधो ॥ १९४ ॥ व्यज्यते प्रकटीक्रियतेऽर्थो येन, दीपेनेव घटः, तद् व्यञ्जनम् । किं पुनस्तत् ?, इत्याह- 'तं चेत्यादि' तच्च व्यञ्जनमुपकरणेन्द्रियशब्दादिपरिणतद्रव्यसंबन्धः- इन्द्रियं द्विविधम्- द्रव्येन्द्रियं, भावेन्द्रियं च । तत्र निर्दृत्यु-पकरणे द्रव्येन्द्रियम् , लब्ध्यु-पयोगी भावेन्द्रियम् । निर्वृत्तिश्च द्विधा- अङ्गुलासंख्येयभागादिमानों कदम्बकुसुमगोलक-धान्यमसूर-काहला-क्षुरपाकारमांसगोलकरूपा, शरीराकारा च श्रोत्रादीन्द्रियाणां पञ्चानामपि यथासंख्यमन्तर्नित्तिः, कर्णशष्कुलिकादिरूपा तु बहिनिर्वृत्तिः । तत्र कदम्बकुसुमगोलकाकारमांसखण्डादिरूपाया अन्तनिवृत्तेः शब्दादिविषयपरिच्छेदहेतुर्यः शक्तिविशेषः स उपकरणेन्द्रियम् , शब्दादिश्च श्रोत्रादीन्द्रियाणां विषयः, आदिशब्दाद् रस-गन्ध-स्पर्शपरिग्रहः, तद्भावेन परिणतानि च तानि भाषावर्गणादिसंबन्धीनि द्रव्याणि च शब्दादिपरिणतद्रव्याणि, उपकरणेन्द्रियं च शब्दादिपरिणतद्रव्याणि च, तेषां परस्परं संबन्ध उपकरणेन्द्रिय-शब्दादिपरिणतद्रव्यसंबन्धः एष तावद् व्यञ्जनमुच्यते । अपरं चेन्द्रियेणाऽप्यर्थस्य व्यज्यमानत्वात् तदपि व्यञ्जनमुच्यते । तथा शब्दादिपरिणतद्रव्यनिकुरम्बमपि व्यज्यमानत्वाद् व्यञ्ज Ma||११७॥ १ छ. 'कथं हि द्वि' । २ सन्नाऽवग्रहो द्विरूपो ग्रहणं यद्भवति व्यञ्जना-ऽर्थयोः । व्यञ्जनतश्च यदर्थस्तेनादौ तक वक्ष्ये ॥ १९३ ।। ३ व्यज्यते येनाऽर्थो घट इव दीपेन व्यजनं तच्च । उपकरणेन्द्रियशब्दादिपरिणतन्यसंबन्धः ॥ १९ ॥ ४ ज. 'मानक । Jan Education Internat For Personal and Private Use Only EMHwww.jaineltrary.org

Loading...

Page Navigation
1 ... 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202