Book Title: Visheshavashyak Bhashya Part 01
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
काका
EA तथा च सत्येषा परमार्थतो मतेः कारणमेव न भवति, अतः कारणद्वारेणापि न परप्रत्यायकं मतिज्ञानम् , श्रुतं तु तवारेण पराविशे० बबोधकम् । इति युक्तो मूके-तरभेदाद् मति-श्रुतयोर्भेदः ।। इति गाथार्थः ॥ १७५ ॥
बृहद्वृत्तिः । ॥मति-श्रुतयोर्भेदचिन्ताधिकारः समाप्तः॥ ॥१०७॥
____ तदेवं स्वामि-काल-कारणादिभिरभेदेऽपि लक्षण-भेद-हेतुफलभावादिभिर्मति-श्रुतयोविस्तरतो भेदमभिधायोपसंहरबाह
मेइ-सुयनाणविसेसो भणिओ तल्लक्खणाइभेएणं । पुव्वं आभिणिबोहियमुद्दिटुं तं परूवेस्सं ॥ १७६ ॥
मति-श्रुतज्ञानयोर्विशेषो भेदो भणितः । केन ? इत्याह- तयोर्लक्षणादिभिर्भेदः, अथवा स चासौ अनन्तरोक्तो लक्षणादिभेदश्च । तल्लक्षणादिभेदस्तेन । सांप्रतं त्वाभिनिवोधिकज्ञानं प्ररूपयिष्ये विस्तरतो व्याख्यास्यामि । शेषश्रुतादिपरिहारेण किमित्याभिनियोधिकं प्रथम मरूप्यते ? इत्याह-- यस्माज्ज्ञानपञ्चके पूर्वमादौ तदुद्दिष्टमुपन्यस्तम् , तस्माद् " यथोदेशं निर्देशः" इति कृत्वा तत् प्रथम व्याख्यास्यामि ॥ इति गाथार्थः ॥ १७६ ॥
तत्त्व-भेद-पर्यायैश्च व्याख्या, तत्र तत्त्वं लक्षणम् , तच्च प्रागेवोक्तम् । अथ तद्भेदनिरूपणार्थमाह
इन्दिय-मणोनिमित्तं तं सुयनिस्सियमहेयरं च पुणो । तत्थेक्केकं चउभेयमुग्गहो-प्पत्तियाईयं ॥ १७७ ॥
इन्द्रिय-मनोनिमित्तं यत् प्रागुक्तमाभिनिबोधिकज्ञानम् , तद् विभेदं भवति-श्रुतनिश्रितम् , इतरचाऽश्रुतनिश्रितम् । अथशब्दो वाक्यालङ्कारार्थः । तत्र श्रुतं संकेतकालभावी परोपदेशः, श्रुतग्रन्थश्च, पूर्व तेन परिकर्मितमतेर्व्यवहारकाले तदनपेक्षमेव यदुत्पद्यते तत् श्रुतनिश्रितम् । यत्तु श्रुतापरिकर्मितमतेः सहजमुपजायते तदश्रुतनिश्रितम् । तत्र तयोः श्रुतनिश्रिता-ऽथुतनिश्रितयोर्मध्ये एकैकं चतुआंदम् । कथम् ? इत्याह- यथासंख्यमवग्रहादिकम् , औत्पत्तिक्यादिकं च- अवग्रहे-हा-ऽपाय-धारणाभेदात् श्रुतनिश्रितं चतुर्विधम् ,
औत्पत्तिकी-बैनायिकी-कर्मजा-पारिणामिकीलक्षणबुद्धिभेदात्त्वश्रुतनिश्रितं चतुर्भेदमित्यर्थः । यद्यप्यौत्पत्तिक्यादिबुद्धिचतुष्टयेऽप्यवग्रहादयो विद्यन्ते, तथापि 'पुव्यमदिहमसुयमवेइ य तक्खणविसुद्धगहियत्था' इत्यादिवक्ष्यमाणवचनात् परोपदेशाधनपेक्षत्वात् ते श्रुतनिश्रिता न भवन्ति, शेषास्त्ववग्रहादयः पूर्व श्रुतपरिकर्मणाऽनन्तरेण न संभवन्ति, ईहादिगताभिलापस्य परोपदेशाद्यन्तरेणापत्तेः, इति ते श्रुत
||१०७॥ , मति-वतज्ञानविशेषो भणितस्तलक्षणादिभेदेन । पूर्वमाभिनिवाधिकमुद्दिष्ट तत् प्ररूपयिष्ये ॥ १७६ ॥ २ इन्द्रिय-मनोनिमितं तच्छूतनिश्चितमयेतरच पुनः । तत्रैक चतुर्भदमवग्रही-त्पत्तिक्यादिकम् ॥ १७७ ॥३ पूर्वमदृष्टमश्रुतमवैति च तत्क्षणविधवगृहीतार्था । |
For Des
s ert
Loading... Page Navigation 1 ... 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202