Book Title: Visheshavashyak Bhashya Part 01
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशे० ॥१०॥
Osmaroo
सै-परप्पञ्चायणओ भेओ मूअयराण वाऽभिहिओ। जं मूयं मइनाणं स-परप्पच्चायगं सुत्तं ॥ १७१ ॥
अन्यैस्तु कैश्चिदाचार्यैः स्व-परप्रत्यायनतो मति श्रुतयोर्भेदोऽभिहितः । कयोरिव ? इत्याह- मूके-तरयोरिव- यथा हि मूकः खमात्मानमेव प्रत्याययति प्रतीतिपथं नयति, न तु परम् , तत्प्रत्यायनहेतुवचनाभावात् ; इतरस्त्वमूकः स्वं परं च प्रत्याययति, वचनसद्भावात् । तथा च सति यथा मूक-मुखरयोर्भदः, एवं मति-श्रुतयोरपि, यद् यस्मात् परप्रत्यायनहेतुद्रव्याक्षराभावाद् मूकं मतिज्ञानम् , मुखरं तु श्रुतज्ञानम् , कुतः ?, स्व-परप्रत्यायकत्वात् - द्रव्याक्षरसद्भावेन परप्रत्यायकत्वस्याऽपि तत्र लभ्यमानत्वादिति भावः ॥ इति गाथार्थः ॥ १७१॥ एतदाचार्यो मति-श्रुतयोस्तुल्यताऽऽपादनेन किश्चिद् दूषयितुमाह
सुयकारणं ति सदो सुयमिह सो य परबोहणं कुणइ । मइहेयवो वि हि परं बोहति कराइचिट्ठाओ ॥ १७२ ॥
इह तावद् भवन्तं पृच्छामः- हन्त ! शब्दः श्रुतमुच्यते, उपलक्षणत्वात् पुस्तकादिन्यस्ताऽक्षरविन्यासश्च श्रुतमभिधीयते ' सुयकारणं ति' श्रुतकारणत्वात् - कारणे कार्योपचारादिति भावः । स च शब्दः, पुस्तकादिन्यस्ताक्षरविन्यासश्च परबोधनं परप्रत्यायन करोतीत्येवं परतः श्रुतज्ञानं परप्रत्यायकमुच्यते, न तु स्वतः; इति तावद् भवतोऽभिप्रायः । एतच्च मतिज्ञानेनाऽपि समानम् । कुतः ? इत्याह- हि यस्माद् मतिहेतवोऽपि मतिजनका अपि करादिचेष्टाविशेषाः परं बोधयन्त्येव, तथाहि- अक्षरात्मकत्वात् किल शब्दः, पुस्तकादिन्यस्ताक्षरविन्यासश्च श्रुतस्य कारणम् , कर-शीर्षादिचेष्टास्तु अक्षररहितत्वात् किल मतिज्ञानस्य हेतवः- कर-वक्त्रसंयोगे हि कृते भुजिक्रियाविषया किल मतिरुत्पद्यते, शीर्षे च धृनिते निवृत्ति-प्रवृत्तिविषया सा समुपजायते, इत्येवं मतिहेतवः करादिचेष्टा अपि परमबोधिका एव ।। इति गाथार्थः ॥ १७२ ॥
यदि मतिहेतवोऽपि परं प्रबोधयन्ति, ततः किम् ? इत्याह
न परप्पबोहयाइं जं दो वि सरूवओ मइ-सुयाइं । तकारणाई दोण्ह वि बोहेति तओ न भेओ सिं ॥१७॥
१ स्व-परप्रत्यायनतो भेदो मूक-तरयोरिवाऽभिहितः । यद् मूकं मतिज्ञानं स्व-परप्रत्यायकं श्रुतम् ॥ ११ ॥ २ श्रुतकारणमिति शरदः श्रुतमिह स च परबोधनं करोति । मतिहेतवोऽपि हि परं बोधयन्ति करादिचेष्टाः ॥ १७२ ॥ ३ न परमबोधके यत् दे अपि स्वरूपतो मति-श्रुते । तत्कारणानि द्वषोरपि बोधयन्ति ततो न भेदोऽनयोः ॥ १७ ॥
॥१०४॥
STRETIRece
For Personal and Private Use Only
Loading... Page Navigation 1 ... 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202