Book Title: Visheshavashyak Bhashya Part 01
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशे०
NEPARADIOPICADAINIROPADHANDED
MAHARASसनाका
BarooEARISTRIBHATARTSCRIMER
भावसुयं, तेण मई वग्गसमा सुंबसरिसयं तं च । जं चिंतिऊण तया तो सुयपरिवाडिमणुसरइ ॥१६॥
अथोपचारः क्रियते उपचारविधिराधीयते, ततश्वार्थान्तरमपि यद् यस्माद् प्रभवति तत् तन्मयमिति भण्यते, यथा “तदपथ्यमियन्तं विक्रियाविस्तरमुपगतम्" "तदेकं वचनमेतावन्तं विपाकमापन्नम्" इत्यादि । ततश्चाऽजन्मयेऽपि ध्वनौ मतिगता ज्ञानमयतोपचर्यते । तथा च सति वल्क-शुम्बसादृश्येन मति-श्रुतयोरयं भेदः सिद्धो भवति ।।
एवमुक्त आचार्यः सुहृद् भूत्वा परं शिक्षयति- ' तो मइपुव्वमित्यादि ' हन्त ! यापचारवादी भवान् , ततो मतिपूर्व भावश्रुतं यस्मादागमे भणितं, तेन कारणेन मतिर्वरकसमा, तच्च भावश्रुतं शुम्बसदृशम् , इत्येवं दृष्टान्तोपनयं कुरु, येनोपचारमन्तरेणाऽपि सर्वं सुस्थं भवति, यथा हि वल्काः शुम्बकारणं, तथा मतिरपि भावश्रुतस्य, यथा च शुम्बं बल्कानां कार्य तथा भावश्रुतमपि मतेः । कुतः इत्याहयद् यस्मात् कारणात् तया मत्या चिन्तयित्वा ततः श्रुतपरिपाटिमनुसरति-वाच्यवाचकभावेन परोपदेशश्रुतग्रन्थयोजनां वस्तुनि करोति; तस्माद् मतिश्रुतयोबल्कशुम्बयोरिव कार्यकारणभावाद् भेदसिद्धिः, इत्येवं दृष्टान्तोपनयो युक्तिं संसहते, न तु परोक्तप्रकारेण ॥ इति गाथाद्वयार्थः ॥ १६० ॥ १६१ ।।
तदेवं वल्क-शुम्बोदाहरणादप्यभिहितो मति-श्रुतयोर्भेदः, सांप्रतं त्वक्षरा-ऽनक्षरभेदात् तमभिधित्सुः पराभिप्राय तावदुपन्यस्यन्नाह
अन्ने अणक्खर-क्खरविसेसओ मइ-सुयाइं भिंदति । जं मइनाणमणक्खरमक्खरमियरं च सुयनाणं ॥१६॥
अन्ये केचनापि मूरयोऽनक्षरा-ऽक्षरवद्विशेषतो मति-श्रुते भिन्दन्ति, यद् यस्मात् किल मतिज्ञानमनक्षरम् , श्रुतज्ञानं त्वक्षरवद् भवति, इतरचाऽनक्षरवदुच्छसितादीत्यर्थः ।। इति गाथार्थः ।। १६२ ॥
अत्राचार्यो दूषणमाह
जैइ मइरणक्खरच्चिय भवेज नेहादओ निरभिलप्पे । थाणु-पुरिसाइपज्जायविवेगो किह णु होजाहि ?॥१६३॥ यदि हन्त ! मतिरनक्षरैव स्यात्-अक्षराभिलापरहितैव भवताऽभ्युपगम्यते, तर्हि निरभिलाप्येऽप्रतिभासमानाभिलापे स्थावा
१ भावश्रुतं, तेन मतिर्वल्कसमा शुम्बसदशं तच्च । वञ्चिन्तयित्वा तवा ततः श्रुतपरिपाटिमनुसरति ॥ ११ ॥ २ ख. 'मुपेतम् । ३ अन्येऽनक्षरा-ऽक्षरविशेषतो मति-श्रुते भिन्दन्ति । यद् मतिज्ञानमनक्षरमक्षरमितरच श्रुतज्ञानम् ॥ १२ ॥ ४ यदि मतिरनक्षरैच भवेद् नेहादयो निरभिलाष्ये । स्थाणु-पुरुषादिपर्यायविवेकः कथं न भवेत् ॥ १३ ॥
॥९९॥
For Pesonal and Private Use Only
Loading... Page Navigation 1 ... 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202