Book Title: Visheshavashyak Bhashya Part 01
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशे०
॥ ९४ ॥
Jain Educationa Internatio
अथ यथोक्तव्याख्यानलब्धमति श्रुतभेदोपदर्शनपूर्वकमुपसंहरन्नाह-
ऐवं धणिपरिणामं सुयनाणं उभयहा मइन्नाणं । जं भिन्नसहावाई ताई तो भिन्नरूवा ॥ १५० ॥
एवं प्रागुक्तप्रकारेण केवलाऽभिलाप्यार्थविषयत्वात् सर्वमपि श्रुतज्ञानं ध्वनिपरिणाममेव ध्वनेः शब्दस्य परिणमनं विपरिवर्तनं परिणामो यत्र तद् ध्वनिपरिणामं भवत्येव, श्रुतानुसारित्वेनोत्पन्नमेव ह्येतदिष्यते श्रुतं च संकेतकालभाविपरोपदेशरूपः श्रुतग्रन्थरूपश्च द्विविधः शब्दोऽधिकृतः, तदनुसारेण चोत्पन्ने ज्ञाने ध्वनिपरिणामो भवत्येवेति । मतिज्ञानं तूभयथाऽपि भवति - शब्दपरिणामम्, अशब्दपरिणामं च, अभिलाप्यानभिलाप्यपदार्थविषयं ह्येतत् । ततश्च श्रुतानपेक्षस्वमत्यैव विकल्प्यमानेष्वभिलाप्येषु ध्वनिपरिणामोऽस्मिन्नपि प्राप्यते । अनभिलाप्यविषयतायां तु नासौ तत्र लभ्यते, अनभिलाप्यपदार्था हि स्वयमेव बुध्यमाना अपि वाचकध्वनेरभावाद् विकल्पयितुं, परस्मै प्रतिपादयितुं वा न शक्यन्ते, यथा नालिकेरद्वीपाऽज्यातस्य वहयादयः क्षीरे-क्षु-गुड-शर्करादिमाधुर्यतारतम्यादयो वा ; इति कुतस्तद्विषयतायां ध्वनिपरिणामः ? । अभिलाप्य पदार्थेभ्योऽनन्तगुणाश्चाऽनभिलाप्याः सन्ति । ततोऽभिलाप्या ऽनभिलाप्यवस्तुविषयत्वाच्छब्दा-शब्दपरिणामं मतिज्ञानमिति स्थितम् । अथोपसंहरति--'तो ति' तस्मात् ते मतिश्रुते स्वामि- कालादिभिरविशेषेऽपि भिन्नरूपे भेदवती मन्तव्ये । कुतः ? इत्याह- यद् यस्मात् कारणाद् द्वे अपि भिन्नस्वभावे- उक्तन्यायेनैकस्य ध्वनिपरिणामित्वात्, अपरस्य तूभयस्वभावत्वात् ॥ इति गाथार्थः ।। १५० ।।
तदेवं मूलगाथायां 'बुद्धिद्दि अत्थे जे भासइ तं सुयं मईसहियं' इत्येतत् पूर्वार्ध 'सामण्णा वा बुद्धी' इत्यादिना व्याख्यातम् । अथ 'ईयरत्थ वि होज्ज सुयं उवलद्धिसमं जइ भणेज्जा' इत्येतदुत्तरार्धं व्याचिख्यासुराह
रति मन्नाणं तओ वि जइ होइ सहपरिणामो । तो तम्मि वि किं न सुयं भासइ जं नोवलद्धिसमं ? ॥ १५१ ॥
' ईयरत्थ वि होज्ज सुर्य' इति मूलगाथोत्तरार्धे इतरशब्दस्य किं वाच्यम् ?, इत्याह- इतरदिति मतिज्ञानं तत्राऽभिसंबध्यते, इत्याचार्येणोक्ते परः प्राह- 'तओ वि जइ होइ सदपरिणामो तो तमिवि किं न सुयं ति' तत इति सप्तम्यन्तात् तस्प्रत्ययः, ततश्च
१ ख. घ. छ 'हारमाह' २ एवं ध्वनिपरिणामं श्रुतज्ञानमुभयथा मतिज्ञानम् । यद् भिन्नस्वभावे ते ततो भिन्नरूपे ॥ १५० ॥
३ क. ग. 'षयित्वात्' । ४ घ. छ. 'णामं श्रुता' ५ गाथा १२८ । ६ गाथा १४७१
७ इतरदिति मतिज्ञानं ततोऽपि यदि भवति शब्दपरिणामः । ततस्तस्मिन्नपि किं न श्रुतं भाषते यद् नोपलब्धिसमम् ? ॥ १५१ ॥
For Personal and Private Use Only
बृहद्वृत्तिः ।
॥ ९४ ॥
www.jainelibrary.org
Loading... Page Navigation 1 ... 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202