Book Title: Visheshavashyak Bhashya Part 01
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 78
________________ विशे० बृहद्वत्तिः । ॥७६ ॥ धारणे तु स्याद्वादाश्रयणात् सम्यग्दृष्टित्वप्राप्तेः । तस्मात् सद-सताविशेषाभावादुन्मत्तकस्येव मिथ्यादृष्टोधोऽज्ञानम् । तथा विपर्यस्तत्वादेव भवहेतुत्वात् तद्बोधोऽज्ञानम् । तथा पशुवधहेतुत्वात् तद्बोधोऽज्ञानम् । तथा पशुवध-तिलादिदहन-जलाधवगाहनादिषु संसारहेतुषु मोक्षहेतुत्वबुद्धेः, दया-प्रशम-ब्रह्मचर्या-ऽऽकिञ्चन्यादिषु तु मोक्षकारणेषु भवहेतुत्वाध्यवसायतो यदृच्छोपलम्भात् तस्याऽज्ञानम् । तथा विरत्यभावेन ज्ञानफलाभावाद् मिथ्यादृष्टेरज्ञानम् ॥ इति गाथार्थः ॥ ११५॥ तदेवं समसङ्गः प्रतिपादितो हेतु-फलभावादपि मति-श्रुतयोर्भेदः, सांप्रतं भेदभेदात् तयोस्तमभिधातुमाह 'भेयकयं च विसेसणमट्ठावीसइविहंगभेयाइ । इंदियविभागओ वा मइ-सुयभेयो जओऽभिहियं ॥११६॥ भेदा अवग्रहादयः, अङ्गा-ऽनङ्ग्यविष्टत्वादयश्च, तत्कृतं वा मति-श्रुतयोर्विशेषणं भेदः, यतोऽवग्रहादिभेदादष्टाविंशत्यादिविध मतिज्ञानं वक्ष्यते' इति शेषः, श्रुतज्ञानं त्वङ्गाऽनङ्गप्रविष्टत्वादिभेदमभिधास्यते । अथवा इन्द्रियविभागाद् मति-श्रुतयोर्भेदः, यतोऽन्यत्र पूर्वगतेऽभिहितम् ॥ इति गाथार्थः ॥११६ ॥ किमभिहितम् ?, इत्याह__ सौइंदिओवलद्धी होइ सुयं सेसयं तु मइनाणं । मोत्तूणं दव्वसुयं अक्खरलंभो य सेसेसु ॥ ११७ ॥ इन्द्रो जीवस्तस्येदमिन्द्रियम् , श्रूयतेऽनेनेति श्रोत्रम् , तच्च तदिन्द्रियं चेति श्रोत्रेन्द्रियम् , उपलम्भनमुपलब्धिानम् , श्रोत्रेन्द्रियेणोपलब्धिः श्रोत्रेन्द्रियोपलब्धिरिति तृतीयासमासः, श्रोत्रेन्द्रियस्य वोपलब्धिः श्रोत्रेन्द्रियोपलब्धिरिति षष्ठीसमासः, श्रोत्रेन्द्रियद्वारकं ज्ञानमित्यर्थः, श्रोत्रेन्द्रियेणोपलब्धिर्यस्येति बहुव्रीहिणाऽन्यपदार्थे शब्दोऽप्यधिक्रियते । ततश्चाद्यसमासद्वये श्रोत्रेन्द्रियद्वारकमाभिलापप्लावितोपलब्धिलक्षणं भावश्रुतमुक्तं द्रष्टव्यम् , बहुव्रीहिणा तु तस्यां भावश्रुतोपलब्धावनुपयुक्तस्य वदतो द्रव्यश्रुतम् , तदुपयुक्तस्य तु बदत उभयश्रुतमाभिहितं वेदितव्यम् । इह च व्यवच्छेदफलत्वात् सर्वे वाक्यं सावधारणं भवति, इष्टश्वाऽवधारणविधिः प्रवर्तते; ततः 'चैत्रो धनुर्धर एव' इत्यादिष्विवेहाऽयोगव्यवच्छेदेनाऽवधारणं द्रष्टव्यम् , तद्यथा- श्रुतं श्रोत्रेन्द्रियोपलब्धिरेच, न तु श्रोत्रेन्द्रियोपलब्धिः श्रुतमेवेति श्रोत्रेन्द्रियोपलब्धिस्तु श्रुतं मतिर्वा भवति, यथा धनुर्धरश्चैत्रोऽन्यो वेति, श्रोत्रेन्द्रियोपलब्धेरवग्रहे-हादिरूपाया मतित्वात् , E १ भेदकृतं च विशेषणमष्टाविंशतिविधानभेदादि । इन्द्रियविभागतो वा मति-श्रुतभेदो यतोऽभिहितम् ॥ १६॥ २ श्रोनेन्द्रियोपलब्धिर्भवति पुतं शेषकं तु मतिज्ञानम् । मुक्त्वा गच्यभुतमक्षरलाभश्च शोषेषु ॥10॥ OPPPS || ७६ ॥ For Personal and Use Oy

Loading...

Page Navigation
1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202