Book Title: Visheshavashyak Bhashya Part 01
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशे
दृ
परिनिव्वुयमुणिदेहं भव्यजइजनं सुवन्नमलाई । दट्टण भावमङ्गलपरिणामो होइ पाएण ॥ ५८ ॥
यथेत्युदाहरणोपदर्शनार्थः, तद्यथेत्यर्थः । मङ्गलमितिशब्दरूपमभिधानम् , तथा 'सिद्धं' सिद्धाभिधानम् ; विजयाभिधा
नम् : जिनेन्द्रादिनाम च केनचिदुचरितं श्रुत्वा कस्यचित् मायेण सम्यग्दर्शनादिको भावमङ्गलपरिणामो भवति, इति नाम्नो भाव॥४०॥ मङ्गलकारणत्वे उदाहरणम् । तथा प्रेक्ष्य चावलोक्य जिनप्रतिमालक्षणादीनि जिनप्रतिमा-स्वस्तिकादीनीत्यर्थः, आदिशब्दादनगारपदा
दिपरिग्रहः, भावमङ्गलपरिणामो भवतीत्यत्रापि संबध्यते । एतत्तु स्थापनाया भावमङ्गलकारणत्वे उदाहरणम् । अथ द्रव्यस्य तत्कारणत्वे दृष्टान्तमाह- परिनिर्वृतो मुक्तिं गतो योऽसौ मुनिस्तदेहम् , तथा भव्ययतिर्भविष्यद्यतिपर्यायो योऽसौ जनस्तम् , तथा सुवर्णमाल्यादि च दृष्ट्वा प्रायेण सम्यग्दर्शनादिभावमङ्गलपरिणामो भवतीति । अतस्तत्कारणत्वाद् नामादीन्यपि भावमङ्गलानि, इति स्थितम् ।। इति गाथाद्वयार्थः ॥ ५७ ॥ ५८ ॥
ननु नामादीन्यपि यदि भावमङ्गलानि, तर्हि किं तान्यपि तीर्थकरादिवत् पूज्यानि ?, इत्याशक्याह
कि पुण तमणेगंतियमच्चन्तं च न जओऽभिहाणाई । तबिवरीअं भावे तेण विसेसेण तं पुजं ॥ ५९॥
नामादीन्यप्युक्तयुक्त्या भावमङ्गलानि । किं पुनः ?, यो विशेषः स उच्यते- तदभिधानादित्रयमनैकान्तिकम् , समीहितफलसाधने निश्चयाभावात् , तथाऽऽत्यन्तिकं च यतो न भवति, आत्यन्तिकप्रकर्षप्राप्ततथाविधविशिष्टफलसाधकत्वाभावात् । भावे भावविषयं तु मङ्गलमुक्तविपरीतस्वरूपम् , तेन विशेषतो यथा तत् पूज्यम् , नैवमितराणि ॥ इति गाथार्थः ॥ ५९॥ | तदेवं भिन्नवस्तुषु विशेषतश्चिन्त्यमानानां नामादीनां प्रधानेतरभावो दर्शितः, सामान्यतः पुनर्विचिन्त्यमानानां सर्ववस्तुपु प्रत्येक A चतुर्णामप्यमीपां सद्भावः प्राप्यत एव, इति दर्शयन्नाह
अहवा बत्थूभिहाणं नाम, ठवणा य जो तदागारो । कारणया से दव्वं, कज्जावन्नं तयं भावो॥ ६॥ अथवा सर्वस्यापि घट-पटादिवस्तुनो यदात्मीयमभिधानं तद् नाम; यथोर्ध्वकुण्डलेष्वायतवृत्तग्रीवो घटः, आतानक्तिानीभू
२ परिनितमुनिदेहं भव्ययतिजनं सुवर्णमाल्यादि । दृष्ट्वा भावमालपरिणामो भवति प्रायेण ॥ ५ ॥ २किं पुनस्तदनकान्तिकमत्यन्तं च न यतोऽभिधानादि । तद्विपरीतं भावे तेन विशेषेण तत् पूज्यम् ॥ ५९ ॥ । अथवा वस्त्वभिधानं नाम, स्थापना च यस्तदाकारः । कारणता तस्य दृष्य, कार्यापनं तद् भावः ॥ ५॥
RONSTROE
॥४०॥
For Personal and Private Use Only
Loading... Page Navigation 1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202