Book Title: Upasakadhyayan
Author(s): Somdevsuri, Kailashchandra Shastri
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 469
________________ - पृ० २५ ] उपासकाध्ययनटीका ३४७ पि न परतः प्राप्तं यतोऽनवस्था स्यात् । ते तु ज्ञानत्रयेणैव सह जन्म लभन्त । एतदेव व्यनक्ति-तत्त्व - भावनयेति-य -यस्य जिनस्य जन्मान्तरसमुत्थया । प्राक् तृतीयजन्मनः समुत्था यस्याः सा एवंरूपया तत्त्वभावनया, जीवादितत्त्वभावनया दर्शनविशुद्धयादिषोडशभावनान्तर्गतया अभीक्ष्णज्ञानोपयोगाख्यया तत्त्वभावनया उद्भूतं परं ज्ञानत्रयम् अन्यजनसुदुर्लभं हिताहितविवेकाय भवति । तेन हिते रत्नत्रयरूपे मोक्षमार्गे प्रवृत्तिभवति । अहिताच्च भववर्धनकारणान्मिथ्यात्वादेनिवृत्तिर्भवति ।। ७९ ।। जिने ज्ञानत्रयसद्भावात् न तस्य परापेक्षतेति निगदति । दृष्टादृष्टमिति - असौ जिन: दृष्टम् अदृष्टम् अर्थ पदार्थम् अवैति ज्ञानत्रयेण मत्या, श्रुतेन अवधिना च जानाति । अवधेः अवधिज्ञानमालम्ब्य जिन: रूपवन्तम् अर्थम् एव जानाति । अथ देशावधिज्ञानावरणक्षयोपशमप्रकर्षात् जिनो रूपवन्तं द्रव्यक्षेत्रकालभावमर्यादीभूतम् अतीन्द्रियं पदार्थनिवहं जानाति । श्रुतज्ञानावरणक्षयोपशमप्रकर्षात् श्रुतेः आचाराङ्गादिद्वादशाङ्गज्ञानं यत् श्रुतिसमाश्रेयं श्रुतिः आगमस्तया समाश्रेयम् अवलम्बनीयम् । एवंरूपं तस्य जिनस्य ज्ञानं भवति ततः क्वासौ परम् अपेक्षतां क्व कस्मिन्विषये । असौ जिनः अन्यं ज्ञानिनम् अवलम्बते ॥ ८० ॥ न चैतदसार्वत्रिकम् - एतज्ज्ञानं सर्वत्र नोपलभ्यते इति न, अन्यथा कथमेतद्वचो वक्ष्यमाणं संगच्छेत । वाराणस्यां स्वत एव संजातषट्पदार्थावसायप्रसरे कणचरे संजातः षट्पदार्थानां द्रव्यगुणकर्मसामान्यसमवायविशेषाणाम् अवसायप्रसरः ज्ञानसमूहो यस्य एवंरूपे कणचरमहर्षी कंणादऋषी अक्षपादे उलूकसायुज्यसरस्य महेश्वरस्य उलूकावतारेण सायुज्यम् ऐक्यं सरतीति सरः तस्य सरस्य गच्छतः उलूकावतारवतः महेश्वरस्य इदं वचनं स्तुतिवचनं कथं संगच्छेत् युक्तियुक्तं भवेत् । किं तद्वचनम् । उच्यते । ब्रह्मेति -- महेश्वरः कणचरषिमेवमुवाच - हे विद्वन्, त्वयि दिवौकसां दिवं स्वर्ग आकाशो वा ओको गृहं येषां ते दिवौकसः तेषां स्वगिणां देवानामित्यर्थः । दिव्यं नरपश्वादिदुर्लभम् अत एव अद्भुतं विस्मयजनकं ब्रह्मतुला नामेदं जगतोलने परिज्ञाने तुलाप्रायं ज्ञानं त्वयि प्रादुर्भूतम् इह वाराणस्याम् । तत् तस्मात् कारणात् हे वत्स, तत् ज्ञानं विप्रेभ्यः द्विजेभ्यः विधत्स्व देहि । उपाये इति — उपाये सनि उपेयस्य लब्धव्यस्य पदार्थस्य प्राप्तेः का प्रतिबन्धिता प्राप्तिप्रतिरोधः कथं स्यात् । यन्त्रात् यन्त्र साहाय्यात् । पातालस्थं जलं करस्थं क्रियते, हस्तेन ग्रहीतुं शक्यते यतः ॥ ८१ ॥ अश्मेति- - अश्मा पाषाणः । हेम सुवर्ण भवति । तद्धेतुप्राप्तेः सुवर्णभवनकारणप्राप्तेः । एवं मुक्तावह्निमणिवनियोज्यम् । तद्यथा— जलं मुक्ता मौक्तिकं संजायते तादृक्कारणलब्धेः । स्वात्यां शुक्तिपुटे पतितं मेबजलं मौक्तिकं संपद्यते इति विदितमेव । द्रुमो वृक्षो वह्निर्भवति शाखानां घर्षणात् अग्नेरुद्भूतिरवलोक्यते । क्षितिभूमिर्मणिः रत्नं जायते । तत्तद्धेतुतया तत्तत्कारणतालब्धेः । भावा: पदार्थाः । अद्भुतसंपदः विस्मयजन कसंपद्युक्ताः भवन्तीति भावः । इति पद्यद्वयेन मनुष्योऽपि तत्त्वभावनया सर्वज्ञ : आप्तो भवत्येवेति ज्ञातव्यम् ॥ ८२ ॥ सर्गेति — सर्ग उत्पत्तिः । अवस्थितिः अवस्थानं ध्रुवत्वम् । संहारः प्रलयः । उत्पादव्ययधीव्यमित्यर्थः । तथा ग्रीष्म उष्णकाल: । वर्षा पर्जन्यकालः । तुषारो हिमकालः । एतेषां षण्णां यथा अनाद्यन्तभात्रः आदिभावः अन्तभावश्च नास्ति । अनादिकालम् एतेषां प्रवृत्तिरस्ति । यंत्र आश्रुतसमाश्रयः अनाद्यन्तभावः श्रुतसमाश्रयात् आप्तो जायते । आप्तश्च श्रुतम् उत्पादयति । एत्रम् आप्तश्रुतयोर्जन्यजनकभावोऽनादिनिधनोऽस्ति । अतः आप्तः न परम् आश्रयित्वा ज्ञानं लभते येनानवस्थादूषणं स्यात् ।। ८३ || आप्तानां बहुत्वं न दोषायेति प्रतिपादयति - नियतमिति - बहुत्वम्, चतुर्विंशतिः जिनेश्वराः इति जिनसंख्याया बहुत्वं नियतं नियमितं न चेत् एते पञ्चदश तिथयः, नव ग्रहाः, चतुरुदधयः, षट् कुलाचलाः इत्यादयः पदार्थाः बह्वोऽपि नियतसंख्याः कथम् ॥ ८४ ॥ [पृष्ठ २४-२५] अनयैवेति-अनयैव दिशा उपर्युक्तप्रकारेणैव सांख्यशाक्यादिशासनं कपिलसोगत - चार्वाकादिदर्शनं चिन्त्यम् विचारणीयम् । तेषां तत्वागमानाम् आप्तानां च नानात्वस्य बहुत्वस्य अविशेषस्वात् ।।८५।। जैनेति – एक जैनमतं मुक्त्वा सर्वाभ्युपगमागमाः द्वैताद्वैतसमाश्रयी मार्गों समाश्रिताः इत्यन्वयः । सांख्यशाक्यादिदर्शनेषु कानिचिद् द्वैतं कानिचिद् अद्वैतम् अवलम्बन्ते । तथा तेषु दर्शनेषु कानिचित्तत्त्वानि सर्वलोकाभिमतानि सन्ति । अतः सर्वे सर्वाभ्युपगमागमाः इति उक्तम् ॥ ८६ ॥ वामेति - शंभो: आगमः शैवागमः । शाक्यस्य सुगतस्य आगमः सिद्धान्तः । द्विजस्य याज्ञिकस्य वेदान्तिनश्च आगम: द्विजागमः । एतेषां त्रयाणाम् आगमा: वामदक्षिणमार्गयोः तिष्ठन्ति । वाममार्गः मन्त्रतन्त्रप्रधानः । तथा क्रियाकाण्डप्रतिपादकश्च । न तथा

Loading...

Page Navigation
1 ... 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664