Book Title: Upasakadhyayan
Author(s): Somdevsuri, Kailashchandra Shastri
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 620
________________ ४६८ पं० जिनदासविरचिता [पृ० ३००आदिशब्देन अन्येऽपि तत्सदृशा ये जनाः अस्पृश्यादयश्च । तेषु मुनिः देहस्थितिं न कुर्वीत आहारं नैव गृह्णीयात् तथा लिङ्गिलिङ्गोपजीविषु आर्यिका मुनयो वा ये लिङ्गेन उपजीविकां कुर्वन्ति यतीनाम् उपन पिच्छयोगपट्टादिकरणजीविनां गृहे आहारो न कर्तव्यः । एतेषु सर्वेषु मुनिना देहस्थितिर्न क्रियेत । कृतायां प्रायश्चित्तविधि चरेन्म निः ।।७९०॥ दीक्षायोग्यत्वाहारोचितत्वे वर्णयति-दीक्षायोग्या इति-त्रयो वर्णाः ब्राह्मण-क्षत्रिय-वैश्याः एते त्रयो वर्णा दीक्षायोग्याः अहंद्रूपधारणे अर्हा बोदव्याः । चत्वारश्च वर्णाः सच्छूद्रेण सहिताः ब्राह्मण-क्षत्रिय-वैश्या: विधोचिता: आहारोचिताः । विधाशब्देन आहारो गृह्यते सर्वेऽपि जन्तवः मनो. वाक्कायधर्माय मनसा, वाचा, कायेन च धर्माय धर्माचरणाय मता: त्रिभिः करणैः धर्माचरणं कर्तुं योग्याः । यस्य यद् धर्माचरणम् आहारदानादिकं निर्दिष्टं तेन तत्कार्यम् । यस्य तत् न प्रोक्तं तेन तत् न कार्यम् । स्वस्वयोग्यतानुसारेण कृतो धर्मः पुण्याय कल्पते । अन्यथा आगमाज्ञाविलोपः पापहेतुः स्यादिति ॥७९१॥ को धर्मः किं च तस्य कारणम् । पुष्पादिरिति-पुष्प-फल-नैवेद्यादिकानां देवगुरुशास्त्रेभ्योऽर्पणं, पात्रेभ्योऽशनम् आहारदानं वा न स्वयं धर्म एव हि, यथा क्षित्यादिः भूमिजलवातादिक न स्वयं धान्यं किं तु धान्यस्य कारणम् । तथा पुष्पादिः अशनादिः धर्मस्य कारणं यो मनसि भावः शुभः शुद्धश्च स धर्मसंज्ञां धत्ते । अन्यत् तस्य कारणं ज्ञेयम् । पुष्पान्नादिवस्तुभावस्य परिणामनिर्मलतायाः कारणं स्यात् । अतः भावधर्म प्रति कारणत्वात् तस्यापि परम्परया धर्मत्वमनने न हानिः ॥७९२॥ यक्तमिति-नणां नराणां साध मायादिरहितं मनः सकदेव एकदेव श्रद्धया युक्तं सत परां शद्धिम् अतीव निर्मलताम अवाप्नोति लभते । यथा रसः पारदविदम अन्तःप्रविष्टपारदं लोहं परां शुद्धि निर्मलतां धृत्वा सुवर्णतां प्राप्नोति ॥७९३॥ देहिनां प्राणिनां सदपि अकुटिलमपि मनः तपोदानार्चनाहोनम् अनशनादितपोभिः चतुर्विधाहाराभयौषधशास्त्रदानः जिनपूजया च होनं रहितं सत् तप आदिकर्मभ्यः संजातस्य पुण्यस्य प्राप्तये न स्यात् । कुशूलस्थितबीजवत् यथा कुशूले धान्यागारे स्थितं बीजं तत्फलप्राप्तये धान्यरूपफलोत्पादनाय हेतुर्न भवति अतः अकूटिलोऽपि मानवो धर्मरतो भवेच्चेत धर्मफलं लभेत नान्यथा ।। ७९४ ॥ आवेशिकेति-आवेशिक: अतिथिः आगन्तुकः । आश्रितः अनन्यस्वामिकः । ज्ञातिनिजवंशजः । दोनः दुःखितो दरिद्रश्च तेषु यथाक्रम क्रमम् अनतिक्रम्य यथोचित्यं दानप्रियवचनाभ्यां सन्तोषानतिक्रमेण । यथाकालं कालमनतिक्रम्य । यज्ञपञ्चकमाचरेत् । ऋषियज्ञं देवयज्ञं भूतयज्ञं नयज्ञं पितृयज्ञं चेति पञ्चयज्ञान क्रमशः कुर्यात् ॥ ७९५ ॥ पञ्चमकालेऽपि जैनमुनयः विहरन्तीति निगदति-काले इतिअस्मिन्कलो काले दुःषमाख्ये पञ्चमकाले। पले चित्ते मनसि चञ्चले सति । देहे शरीरे च अन्नादिकोटके भन्नम् अत्तीति भक्षयतीति अन्नादो स चासो कोटकः तस्मिन् सति । एतच्चित्रम् आश्चर्य विद्यते यत् अद्यापि जिनरूपधारिणः नराः विद्यन्ते । अयं पञ्चमकालः शुभो नास्ति यतः सर्वे जनाः स्वैराचारपरायणाः पापरता दृश्यन्ते । चित्तमपि चलं धर्माचरणादपेतुमिच्छति । देहोऽपि अन्नाभिलाषरतः तथापि अत्र भारत केचन जना जिनेन्द्र मुद्रां धृत्वा स्वपरहिताय यतन्ते ॥७९६॥ यथेति-यथा लेपादिनिर्मितं काष्ठपाषाणमण्यादिविरचितं जिनेन्द्राणां रूपं जिनप्रतिबिम्बं पूज्यम् । तथा पूर्वमुनिच्छायाः पूर्वे ये मुनयः पूर्वमुनयस्तेषां छाया यत्र तत्सदृशा इत्यर्थः । अष्टाविंशतिमूलगुणवारिणः संयताः संप्रति अस्मिन्काले पूज्याः मान्याः। परं यदि स्वाचारात् भ्रष्टाः गृहस्थवत् असत्यं ब्रुवन्ति, मान्यान् मुनीनपिन मानयन्ति अहमपि न तेभ्यो हीनः इति ये मन्यन्ते । न ते नमस्कारयोग्याः, ये च तान्नमस्यन्ति ते तत्पापम् अनुमन्यमाना ज्ञातव्याः । उक्तं च कुन्दकुन्दाचार्यः षट्प्राभूते"तेसि पि णत्यि बोही पावं अणुमोअमाणाणं-तेषामपि नास्ति बोधिः पापम् अनुमन्यमानानाम् इति । पूर्वमुनिच्छाया इत्यत्र छाया शब्दः अल्पत्वद्योतकः तच्च अल्पत्वं मुनिचारित्रापेक्षया पूर्वे मुनयः तपस्विनः परीषहोपसर्गान् सहमाना आसन् माधुना ते तथा हीनसंहननधारित्वात् । परंतु हीनसंहननेऽपि मूलगुणानां पालनं भवत्येव अतः मूलगुणलोपाकारिणः मुनयः पूर्वमुनिच्छाया ज्ञातव्याः ॥७९७॥ पात्रप्रकारानाहतदुत्तमम् इति-यत्र नरे रत्नत्रयं भवेत् विद्येत तत् उत्तम पात्रं भवेत् । देशव्रती अणुव्रती दर्शनप्रतिमाघेकादशप्रतिमासु यां कामपि प्रतिमाम् सेवमानः श्रावक: मध्यं पात्रं भवेत् । अन्यच्च जघन्यं पात्रं स्यात् । कः यः असंयतः सुदृक् असंयतः उभयसंयमविहीनः केवलं सम्यग्दर्शनं पालयन् ॥७९८॥

Loading...

Page Navigation
1 ... 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664