________________
४६८ पं० जिनदासविरचिता
[पृ० ३००आदिशब्देन अन्येऽपि तत्सदृशा ये जनाः अस्पृश्यादयश्च । तेषु मुनिः देहस्थितिं न कुर्वीत आहारं नैव गृह्णीयात् तथा लिङ्गिलिङ्गोपजीविषु आर्यिका मुनयो वा ये लिङ्गेन उपजीविकां कुर्वन्ति यतीनाम् उपन पिच्छयोगपट्टादिकरणजीविनां गृहे आहारो न कर्तव्यः । एतेषु सर्वेषु मुनिना देहस्थितिर्न क्रियेत । कृतायां प्रायश्चित्तविधि चरेन्म निः ।।७९०॥ दीक्षायोग्यत्वाहारोचितत्वे वर्णयति-दीक्षायोग्या इति-त्रयो वर्णाः ब्राह्मण-क्षत्रिय-वैश्याः एते त्रयो वर्णा दीक्षायोग्याः अहंद्रूपधारणे अर्हा बोदव्याः । चत्वारश्च वर्णाः सच्छूद्रेण सहिताः ब्राह्मण-क्षत्रिय-वैश्या: विधोचिता: आहारोचिताः । विधाशब्देन आहारो गृह्यते सर्वेऽपि जन्तवः मनो. वाक्कायधर्माय मनसा, वाचा, कायेन च धर्माय धर्माचरणाय मता: त्रिभिः करणैः धर्माचरणं कर्तुं योग्याः । यस्य यद् धर्माचरणम् आहारदानादिकं निर्दिष्टं तेन तत्कार्यम् । यस्य तत् न प्रोक्तं तेन तत् न कार्यम् । स्वस्वयोग्यतानुसारेण कृतो धर्मः पुण्याय कल्पते । अन्यथा आगमाज्ञाविलोपः पापहेतुः स्यादिति ॥७९१॥ को धर्मः किं च तस्य कारणम् । पुष्पादिरिति-पुष्प-फल-नैवेद्यादिकानां देवगुरुशास्त्रेभ्योऽर्पणं, पात्रेभ्योऽशनम् आहारदानं वा न स्वयं धर्म एव हि, यथा क्षित्यादिः भूमिजलवातादिक न स्वयं धान्यं किं तु धान्यस्य कारणम् । तथा पुष्पादिः अशनादिः धर्मस्य कारणं यो मनसि भावः शुभः शुद्धश्च स धर्मसंज्ञां धत्ते । अन्यत् तस्य कारणं ज्ञेयम् । पुष्पान्नादिवस्तुभावस्य परिणामनिर्मलतायाः कारणं स्यात् । अतः भावधर्म प्रति कारणत्वात् तस्यापि परम्परया धर्मत्वमनने न हानिः ॥७९२॥ यक्तमिति-नणां नराणां साध मायादिरहितं मनः सकदेव एकदेव श्रद्धया युक्तं सत परां शद्धिम् अतीव निर्मलताम अवाप्नोति लभते । यथा रसः पारदविदम अन्तःप्रविष्टपारदं लोहं परां शुद्धि निर्मलतां धृत्वा सुवर्णतां प्राप्नोति ॥७९३॥ देहिनां प्राणिनां सदपि अकुटिलमपि मनः तपोदानार्चनाहोनम् अनशनादितपोभिः चतुर्विधाहाराभयौषधशास्त्रदानः जिनपूजया च होनं रहितं सत् तप आदिकर्मभ्यः संजातस्य पुण्यस्य प्राप्तये न स्यात् । कुशूलस्थितबीजवत् यथा कुशूले धान्यागारे स्थितं बीजं तत्फलप्राप्तये धान्यरूपफलोत्पादनाय हेतुर्न भवति अतः अकूटिलोऽपि मानवो धर्मरतो भवेच्चेत धर्मफलं लभेत नान्यथा ।। ७९४ ॥ आवेशिकेति-आवेशिक: अतिथिः आगन्तुकः । आश्रितः अनन्यस्वामिकः । ज्ञातिनिजवंशजः । दोनः दुःखितो दरिद्रश्च तेषु यथाक्रम क्रमम् अनतिक्रम्य यथोचित्यं दानप्रियवचनाभ्यां सन्तोषानतिक्रमेण । यथाकालं कालमनतिक्रम्य । यज्ञपञ्चकमाचरेत् । ऋषियज्ञं देवयज्ञं भूतयज्ञं नयज्ञं पितृयज्ञं चेति पञ्चयज्ञान क्रमशः कुर्यात् ॥ ७९५ ॥ पञ्चमकालेऽपि जैनमुनयः विहरन्तीति निगदति-काले इतिअस्मिन्कलो काले दुःषमाख्ये पञ्चमकाले। पले चित्ते मनसि चञ्चले सति । देहे शरीरे च अन्नादिकोटके भन्नम् अत्तीति भक्षयतीति अन्नादो स चासो कोटकः तस्मिन् सति । एतच्चित्रम् आश्चर्य विद्यते यत् अद्यापि जिनरूपधारिणः नराः विद्यन्ते । अयं पञ्चमकालः शुभो नास्ति यतः सर्वे जनाः स्वैराचारपरायणाः पापरता दृश्यन्ते । चित्तमपि चलं धर्माचरणादपेतुमिच्छति । देहोऽपि अन्नाभिलाषरतः तथापि अत्र भारत केचन जना जिनेन्द्र मुद्रां धृत्वा स्वपरहिताय यतन्ते ॥७९६॥ यथेति-यथा लेपादिनिर्मितं काष्ठपाषाणमण्यादिविरचितं जिनेन्द्राणां रूपं जिनप्रतिबिम्बं पूज्यम् । तथा पूर्वमुनिच्छायाः पूर्वे ये मुनयः पूर्वमुनयस्तेषां छाया यत्र तत्सदृशा इत्यर्थः । अष्टाविंशतिमूलगुणवारिणः संयताः संप्रति अस्मिन्काले पूज्याः मान्याः। परं यदि स्वाचारात् भ्रष्टाः गृहस्थवत् असत्यं ब्रुवन्ति, मान्यान् मुनीनपिन मानयन्ति अहमपि न तेभ्यो हीनः इति ये मन्यन्ते । न ते नमस्कारयोग्याः, ये च तान्नमस्यन्ति ते तत्पापम् अनुमन्यमाना ज्ञातव्याः । उक्तं च कुन्दकुन्दाचार्यः षट्प्राभूते"तेसि पि णत्यि बोही पावं अणुमोअमाणाणं-तेषामपि नास्ति बोधिः पापम् अनुमन्यमानानाम् इति । पूर्वमुनिच्छाया इत्यत्र छाया शब्दः अल्पत्वद्योतकः तच्च अल्पत्वं मुनिचारित्रापेक्षया पूर्वे मुनयः तपस्विनः परीषहोपसर्गान् सहमाना आसन् माधुना ते तथा हीनसंहननधारित्वात् । परंतु हीनसंहननेऽपि मूलगुणानां पालनं भवत्येव अतः मूलगुणलोपाकारिणः मुनयः पूर्वमुनिच्छाया ज्ञातव्याः ॥७९७॥ पात्रप्रकारानाहतदुत्तमम् इति-यत्र नरे रत्नत्रयं भवेत् विद्येत तत् उत्तम पात्रं भवेत् । देशव्रती अणुव्रती दर्शनप्रतिमाघेकादशप्रतिमासु यां कामपि प्रतिमाम् सेवमानः श्रावक: मध्यं पात्रं भवेत् । अन्यच्च जघन्यं पात्रं स्यात् । कः यः असंयतः सुदृक् असंयतः उभयसंयमविहीनः केवलं सम्यग्दर्शनं पालयन् ॥७९८॥