________________
-पृ. ३०४]
उपासकाध्ययनटोका [पृष्ठ ३०१-३०४] यत्रेति-यत्र रत्नत्रयं नास्ति सम्यग्दर्शनं सम्यग्ज्ञानं सम्यक्चारित्रं च रत्नत्रयम् तत् यस्मिन् नरे न विद्यते स अपात्रम् इति बुधा विद्वांसः विदुः जानन्ति । तत्र उप्तम् दत्तम् आहारादिकं चतुर्विधं दानम् ऊषरायां क्षारमृत्तिकावत्यां क्षिताविव भूम्याम् उप्तं बीजमिव सर्व वृथा विफलं स्यात् ॥७९९।। पात्रे दत्तमिति-गृहमेधिनां गृहिणां गृहे मेघा बुद्धिर्येषां ते गृहासक्ताः श्रावकाः। तेषाम् अन्नं पात्रे दत्तं पुण्याय भवेत् । यथा मेघानां शक्तावेव पतितं जलं मक्ताफलं मौक्तिकं भवेत् जायेत ॥८००॥ मिथ्यास्वेति-मिथ्यात्वेन अतत्त्वश्रद्धानेन कुदेवागमलिङ्गिनां श्रद्धानेन वा ग्रस्तानि चित्तानि मनांसि येषां तेषु नरेषु । कथंभूतेषु चारित्राभासभागिषु चारित्रस्य आभासं भजन्ते इति चारित्राभासभागिनः तेषु यच्चारित्रमिव सम्यग्दर्शनयुक्तं चारित्रम् इव भासते परं तत्तथा नास्ति तत् चारित्रामासम् तद्युक्तेषु दानम् आहारादिकदानम् अहिषु सर्पेषु पयःपानमिव दुग्धपानमिव दोषायैव भवेत् । ततः संसार एव वर्धेत ॥ ८०१ ॥ कारुण्यादिति-कारुण्यात् करुणाया दयाया भावः कारुण्यम् । तस्मात् मनसि अनुकम्पाया उद्भवात् । अथवा औचित्यात् प्रियवाक्सहितं दानम् औचित्यं तस्मात् । तेषां चारित्राभासभागिनां मिथ्यादृशां किंचिद् स्वल्पं अनादिकं दिशन्नपि वितरन्नपि उद्धतम् अन्नम् एव दिशेत्, तदीयपात्रे अन्नं निक्षिपेत् अन्यत्र गत्वा भुज्यतामिति कथयेत । गहे भक्ति न कारयेत मदीये गहे भक्ष्वेति कथयित्वा गहे एव तं न भोजयेत ॥ उद्धृतान्नदाने हेतुमाह-सत्कारादाविति-येषां सत्कारादिषु क्रियमाणेषु, आदरेण स्वीकरणम् । उच्चासनदानम् । पादप्रक्षालनम् । गन्धादिना पूजनम्, इत्यादि सत्कारक्रियाकरणे दर्शनं सच्छ्रद्धानं दूषितं मलिनं भवेत् । तदेव निदर्शनेन दृढयति-यथा विषभाजनसंगमात् विषपात्रसहवासात विशुद्धं निर्दोषमपि अम्बु जलं दूषितं पानकारिणो नरस्य प्राणहरणं कुर्यात् ॥८०३॥ एषां सहवासादिकमपि परिहरेदिति कथयतिशाक्येति-शाक्याः बौद्धाः, नास्तिकाश्चार्वाकाः आत्मा नास्ति, परलोको नास्तीति वादिनः । यागज्ञाः मीमांसका अश्वमेधादियज्ञविधायिनः । जटिलाः जटाधारिणः पारिवाजकाः, आजीवकाः''"आदी येषां ते तैः मिथ्यामतप्रवर्तिभिः लोकः सहावासम् एकस्मिन् स्थाने निवसनम् । सहालापं तैः सह भाषणम्, तत्सेवां च विवर्जयेत् त्यजेत् ॥८०४।। अज्ञातेति-अज्ञातं तत्त्वानां जीवादीनां चेतः हृदयं स्वरूपं यैस्ते अज्ञाततत्त्वचेतसः। अथवा अज्ञातम् अनवबुद्धं तत्त्वं जीवादीनां स्वरूपं येन तत् अज्ञाततत्त्वं तत् चेतः मनः येषां ते अज्ञाततत्त्वचेतसः तैः शाक्यादिभिः, पुनः कथंभूतः दुराग्रहमलोमसैः दुरभिनिवेशान्मलिनमनोभिः शाक्यादिभिः गोष्ठयां भाषणव्यवहारे कृते तत्त्वविमर्श कृते दण्डादण्डि, दण्डैदण्डैरिदं अन्योन्यं युद्धं प्रवर्तते इति, अन्योन्यं कचान् गृहीत्वेदं युद्धं प्रवर्तत इति कचाकचि । दुराग्रहवशंगतचेतस्त्वात् ते कलहोद्यता भवेयुरिति ॥८०५॥ दर्शनम्लानिकारणान्याह-भयलोभेत्यादि-भयं भीतिः, राजादिजनिता, लोभः वर्तमानकाले अर्थप्राप्तिः । उपरोधः मित्रानुरागः आदिशब्देन आशया भाविनोऽर्थस्य प्राप्त्याकाङ्क्षया। कुलिङ्गिषु शाक्यनास्तिकयागज्ञजटिलादिषु कुगुरुषु निषेवणैः प्रणामविनयादिभिः नीचैः आचरणे हीने आचारे जाते सति दर्शनम् अवश्यं म्लायेत् मलिनं भवेत् उज्ज्वलं न स्यात् ।।८०६॥ बुद्धिपौरुषेत्यादि-बुद्धिः कर्मणि कौशलम् । पौरुषं प्रयत्न उद्यमश्च । नृषु नरेषु-कर्मकुशलेषु प्रयत्नवत्सु सत्स्वपि, देवायत्तविभूतिषु सम्पदः देवाधीनाः संभवन्ति । तत्प्राप्त्यर्थं कुत्सितसेवायां यदि नरा उद्यताश्चेत तत्र दैन्यं दीनता एव दारिद्रयमेव अतिरिच्यते अधिकं कारणं प्रधानं कारणं ज्ञातव्यम् । नरः कश्चित् सम्यग्दृष्टि: कुत्सितजनस्य दारिद्रयाभिभूतत्वात्सेवां करोति चेत् तेनैवं विमर्शः कर्तव्यः अहं सम्यग्दृष्टिः यद्यपि कर्मकुशल: पौरुषयुक्तश्च तथापि विभूतयो देवायत्ताः । अतः मयास्य सेवा क्रियते तथापि मम सदाचारं नाहं त्यजामि, नाहं कुलिङ्गिनो निषेवे। मिथ्यादृष्टिनश्च नाहं प्रशंसामि । एवं विवेकेन प्रवृत्ति कुर्वाणः सम्यक्त्वं न मलिनयेत् ॥८०७॥ समयीत्यादिमनीषिणः विद्वांसः तत्पात्रं पुनः पञ्चधा पञ्चप्रकारम् । आमनन्ति आगममनुसृत्य वदन्ति । किं समयी श्रावकः साधुश्च जिनसमयश्रितः, सूरिः आचार्यः समयदीपकः वादित्वादिना मार्गप्रभावकः ॥८०८॥ समयिकमाह-गृहस्थो वेत्यादि-जैनं समयं जिनप्रतिपादितं समयं मतम् आश्रितः गृहस्थो वा गृहनिरतः गृहविरतो वा। यथाकालं कालम् आहारकालम् अनतिक्रम्य अनुप्राप्तः गृहमागतश्चेत् पूजनीयः सुदृष्टिभिः