________________
५०० पं० जिनदासविरचिता
[पृ०३०५सम्यग्दर्शनधारिभिः ॥८०९॥ साधकमाह-ज्योतिर्मन्त्रेत्यादि-ज्योति: ग्रहनक्षत्रादिकं तद्गत्यादिकं च, तज्जानातीति ज्योतिः । मन्त्रज्ञः मन्त्रं तत्स्वरूपम् इष्टानिष्टं तत्फलम्, तदाराधनादिकं जानातीति मन्त्रज्ञः । निमित्तम् अष्टधा अन्तरिक्ष-भौम-अङ्ग-स्वर-व्यजन-लक्षण-छिन्न-स्वप्नाः। तद जानातीति निमित्तज्ञः, यः ज्योति:पु, मन्त्रेषु, निमित्तेषु च कुशलः । यः कार्यकर्मसु प्रतिष्ठाषोडशसंस्कारविधानव्रतोद्यापनादिषु कर्मसु सुप्रज्ञः सुबुद्धिः सम्यक्तया परोक्षार्याः ग्रहगतयः, तदिष्टानिष्ट फलानि च तेषु समर्था धीर्यस्य सः समयिभिः गृहस्थैः मुनिभिश्च मान्यः आदरणीयः । अथवा कायकर्मसु सुप्रज्ञः वैद्यः स च व्याधि परोक्षार्थं जानाति अतः सोऽपि समयिभिः मान्यः ॥८१०॥ साधकमाह-दीक्षायात्रेति-दीक्षा द्विविधा अणुव्रतदीक्षा महाव्रतदीक्षा च यात्रा ग्रामान्तरगमनं तीर्थयात्राकरणं वा। प्रतिष्ठा जिनयज्ञविधानम् । आद्यशब्देन व्रतोद्यापनं विवाहादिसंस्काराश्च । एता: क्रियाः तद्विरहे ज्योतिर्मन्त्रनिमित्तज्ञाद्यभावे कुत: भवेयुः । तदर्थम् एतत्कार्यविधानाय परपृच्छायां वैदिकादि-ज्योतिविद्वद्यादि-विद्वज्जनपच्छायां निजसमयोन्नतिः कथं स्यात् ॥८११॥ नैष्ठिकमाह-मूलोत्तरगुणेति-मूलगुणाः अहिंसादयः अष्टाविंशतिः । उत्तरगुणाः चतुरशीतिलक्षाः । एतैर्गुणः श्लाघ्यानि यानि तपांसि अनशनादीनि द्वादश तैः निष्ठिता दृढा स्थितिः मुनिधर्मे अवस्थानं यस्य सः, साधुः मुनिः सम्यक्तया मनोवाक्कायः पूज्यः मान्यः स्यात् । कैः पुण्योपाजनपण्डितः पुण्यसंचये निपुण: श्रावकैः ॥८१२॥ गणाधिपमाह-ज्ञानकाण्डे इति-न्याय-धर्म-व्याकरण-साहित्यादिकशास्त्राणि ज्ञानकाण्डम् । क्रियाकाण्डे अणुव्रतमहाव्रताद्याचाराः क्रियाकाण्डम्, एतत् काण्डद्वये चातुर्वर्ण्यपुरःसरः मुन्यषियत्यनगाराणां पुरःसरः अग्रणीः सूरिः संसाराब्धितरण्डकः भववाधिपोतः । देव इव अर्हन्निव आराध्यः पूज्यः ॥८१३॥ समयद्योतकम् आह-लोकवित्वादि-लोकवित्त्वं लोकव्यवहारवेदित्वम्, कवित्वं बुधजनमनोहरणकुशलकाव्यरचनाचातुर्यम् आद्यं येषु तैः वादवाग्मित्वकोशल:, विजिगीषुकथानैपुण्यं वादः ! वाग्मित्वं वक्तृत्वं तयोः कोशल: चातुर्यः मार्गप्रभावनोद्युक्ताः रत्नत्रयमार्गप्रभावने उद्द्योतने उद्युक्ताः तत्पराः सन्तः साधवः गृहस्थाश्च विशेषतः दानसम्मानादिना पूज्याः मान्याः ॥८१४।। कीदृशं ज्ञानं तपश्च पूज्यं स्यादित्याहमान्यमित्यादि-तपोहीनं लोकविस्मयकारकतपोरहितं ज्ञानं दीक्षायात्राप्रतिष्ठाद्युपयोगि मान्यं भवेत् तादृक् ज्ञानम् अनशनादितपोनिमित्तं भवेत् । ज्ञानहीनं तपः नैष्ठिकस्थम् अहितं पूज्यं स्यात् । ज्ञानातिशयहेतुत्वात् । द्वयं ज्ञानतपोयुगलं गणाधिपस्थम् । यत्र स देवः स्यात् अर्हन्निव स्यात् । द्विहीनः गणपूरणः गणं संख्यां पूरयति इति गणपूरणः भवेत् ॥८१५।। मुन्यादीनां विनयक्रियामाह-अहंद्रूपे इति-अर्हतः रूपं यस्य सः अहंद्रूपः तस्मिन् जिनमुद्राधारके नग्नमुनो नमोऽस्तु स्यात् । नमोऽस्तु इति विरुक्त्वा मुनि पञ्चाङ्गनमेत । विरतिः आयिका तस्यां विनयक्रिया वन्दे इति । च अन्योऽन्यं क्षुल्लके च अहं यथायोग्यप्रतिपत्त्या इच्छाकारक्वः इच्छामीत्यादिप्रसिद्धविनयकर्म सदा स्यात् । श्रावकाः अन्योन्यं दृष्ट्वा इच्छामीत्युक्त्वा विनयक्रियां कुर्युः ॥८१६॥
[पृष्ठ ३०५-३०८] अनुवीचीत्यादि-पूज्यादिसंनिधौ पूज्या मान्या ये आचार्यादयः ते आदी येषां ते पूज्यादयः आर्यिकाक्षुल्लकादयः । तेषां संनिधौ समीपे अनुवोचिवचः विचार्य भणनम्, निरवद्यवचनं सदा भाष्यम् अनिशं वाच्यम् । गुरुसंनिधौ यथेष्टं हसनालापान् असत्यभाषणं, नमहास्यम्, अभ्याख्यानं मिथ्याविवाद: वर्जयेत् त्यजेत् ॥८१७।। भुक्तिमात्रेत्यादि-भुक्तिः आहार एव भुक्तिमात्रं तस्य प्रदानं वितरणं तस्मिन् तपस्विनां का परीक्षा को विमर्शः करणीयः अयम् आगमोक्तमाचारं यतीनाम् आचरति न वेति विमर्शो न करणीयः । ते सन्तः सन्मुनयो भवन्तु असन्मुनयो वा यतः गृहो गृहस्थः दानेन शुद्धयति पुण्यं लभते ।।८१८।। सर्वेति-सर्वे च ते आरम्भाः सर्वारम्भाः अनेकानि कार्याणि तत्र च गृहस्थानां बहुषा बहुभिः प्रकारः लज्जाभयपक्षपातादिभिः धनव्ययः भवति । ततोऽत्यर्थम् अतिशयेन विचारणा परीक्षा न कर्तव्या ||८१९॥ यथा यथेति-यथा यथा मुनयः तपांसि, ज्ञानम्, महावतानि, समितयः आदिभिर्गुणः विशिष्यन्ते विशिष्टा जायन्ते भवन्ति । तथा तथा ते गृहमेषिभिः गृहस्थः पूज्या माझ्या भवन्ति ॥८२०॥ देवादिति-धन्यैः पुण्यवद्भिः गृहस्थैः देवाल्लब्धं प्राप्तं धनं समयाश्रिते समयो जिनधर्मः तम् आश्रिते मुन्यादी