________________
-पृ०३०८] उपासकाध्ययनटीका
५०१ जने वप्तव्यं दातव्यम् । ययागमम् आगममनुसृत्य एकः मुनिः लभ्यः प्राप्येत न वा लभ्यः न प्राप्येत ।।८२१॥ अयं जिनधर्मः कोदकपुरुषः सेव्यते इति प्रश्न उत्तरमाह-उच्चावचेति-अयं जिनेशिनां समय: धर्मः उच्चावचजनप्रायः उदक् च अवाक् च उच्चावचः अनेकप्रकारः स च जनः तेन प्रायः भतः अस्ति । यथा आलयः गहम् एकस्तम्भे न तिष्ठेत् तथा एकस्मिन् पुरुषे अयं जिनेशिनां समयः न तिष्ठेत् ॥८२२॥ जिनेशिनां समये कतिविधा मुनयो भवन्तीति व्याचष्टे-ते नामेति-नामन्यासेन, स्थापनान्यासेन, द्रव्यन्यासेन, भावन्यासेन च मनयः चतुर्विधाः भवन्ति । ते सर्वेऽपि दानादरक्रियासू योग्या भवन्ति ॥८२३ ॥ उत्तरोत्तरेतिउत्तरोत्तरभावेन नामादिन्यस्तेषु मुनिषु उत्तरोत्तरन्यासेन न्यस्ते मुनी विधिः दानमानादिक्रियया आदरो विशिष्यते । नाममुनेः स्थापनामुनिः श्रेयान् । ततः द्रव्यमनिः श्रेयस्तरः। ततोऽपि भावमुनिः श्रेयोऽधिकः । यथा पुण्यार्जने पुण्यसंचये गृहस्थानां जिनप्रतिकृतिपु जिनबिम्बेषु नामादिन्यासेन उत्तरोत्तरभावेन आदरविधिः विशिष्यते । यथा नामजिनतः स्थापनाजिनः पूज्यः । स्थापनाजिनात द्रव्यजिनः भाविजिनः अधिकं पूज्यस्ततोऽपि भावजिनो विशेपेण पूज्यः ॥८२४॥ नामनिक्षेपमाह-अतद्गुणेष्विति-न विद्यन्ते शब्दप्रवृत्तिनिमित्तानि जगत्प्रसिद्धानि जातिगुणक्रियाद्रव्यलक्षणगुणविशेषणानि येपु तेषु भावेषु व्यवहारप्रसिद्धये नरेच्छावशवर्तनात् पुरुषाभिप्रायमवलम्व्य यत्संज्ञाकर्म नामविधानम्, तन्नाम ज्ञातव्यम् ॥८२५।। स्थापनानिक्षेपमाह-साकारे इति-यत्प्रतिनिधिभूतं वस्तु सादृश्यमावहति तत्साकारम् । ततोऽन्यथाप्रतिनिधिभूतत्वेन कल्प्यते तन्निराकारम् । एतादशे काष्ठादी काष्ठपस्तचित्रकर्माक्षनिक्षेपादिष सोऽयमित्यभिप्रायण
स्यमाना स्थापना निगद्यते अभिधीयते ॥८२६।। द्रव्यनिक्षेपं ब्रवीति-आगामीति-आगामिनि भाविकाले गुणलाभमपेक्ष्य योऽर्थो यद्वस्तु प्रकल्प्यते सः द्रव्यन्यासस्य द्रव्यनिक्षेपस्य गोचरः विषयः । भावनिक्षेप वदति-तत्कालेति-तत्कालपर्य याक्रान्तं वर्तमानदशास्थितं वस्तु भावो भाष्यते ।।८२७।। राजसं दानमाहयदात्मेति-यत् दानम् आत्मवर्णनप्रायम् स्वस्तुतिबहुलम् । क्षणिकाहार्यविभ्रमम् क्षणपर्यन्तं संजातविलासम् । कदाचित ददाति, प्रतिदिनं न ददाति । अतः क्षणिकविभ्रमम् । आपातमनोहरम् । परप्रत्ययसंभूतम् अन्योपदेशसंभूतम् । अन्येन जनेन दापितं वा । स्वचित्ते दानस्य विश्वासो नास्ति । परं कस्यचिदानस्य फलं दृष्ट्वा अनेन ईदशं प्राप्तं फलमिति ज्ञात्वा पश्चात ददाति । आहार्यम-यदा कश्चित्प्रवर्तयेत् तदा दानं ददाति । तद् दानं राजसं मतं कथितम् ॥८२८॥ तामसदानमाह-पात्रापात्रेत्यादि-पात्रं च अपात्रं च उभयमपि समं समानरूपम् अवेक्ष्यं वीक्ष्यते यत्र तत् । असत्कारं पात्रस्य सत्कारो यत्र न क्रियते तथाभूतम् । असंस्तुतम् - लज्जादिना दत्तम् । दासभत्यकृतोद्योगं क्रोतजनेन, वैतनिकभत्येन वा कृतः उद्योगः पाचनादिकार्यं वा यत्र तहानं तामसम् ऊचिरे बभाषिरे ॥८२९॥ सात्त्विक दानमाह-आतिथेयमितियत्र स्वयम् आतिथेयम् अतिथे: पात्रस्य स्वागतीकरणम् । यत्र पात्रनिरीक्षणम् आगतस्य अतिथेः पात्रापात्रत्वं विमश्य तद्योग्यतामनुसृत्य प्रवर्तनम् । यत्र दाने श्रद्धादयो गुणाः सन्ति तदानं सात्त्विकं विदुः जानन्ति ।।८३०॥ दानानाम् उत्तमादिकत्वमाह-उत्तममिति-सात्त्विक दानम् उत्तमम् । मध्यमं राजसं भवेत् । सर्वेषां दानानां निर्धारणे पष्ठो । सर्वेषु दोनभेदेषु सर्वेषु पुनः जघन्यं तामसं ज्ञेयम् । सर्वेषामेव दानानाम् इति सात्त्विकराजसयोरपि योजनीयम् ।।८३१॥ दानफलम् इहापि लभ्यत इत्याह-यदत्तम् इति-यत् दानम् अभयादिकं दत्तं तत्-अमुत्र अमुष्मिल्लोके परलोके स्यात् फलवद् भवेत् इति वचः भाषणम् असत्यपरं स्यात् । यतः तोयतणाशनाः जलतृणभक्षिण्यः गावो धेनवः। कि पयः न प्रयच्छन्ति न ददति अपि तु ददत्येव । गाव: यस्मिन् दिने जलयवसं भक्षयन्ति तद्दिन एव दुग्धं ददति । तथा. दानफलं दात्रा अस्मिन्नेव लोके फलं मनःप्रसादरूपं लभ्यते । अथवा यत अस्माभिः रूक्षं स्निग्धं वा अन्नं कदम्नं वा दत्तं तदेवान्यजन्मनि अस्माभिः प्राप्यते इति मिथ्यावचः। यतः गौः तोयं तणं चाश्नाति परं मधुरं पयो ददाति । अत्र यद्दीयते तदेव लभ्यते इति वचो मिथ्या ॥८३२॥ मुनिभ्य इति-मुनिभ्यः शाकपिण्डोऽपि शाकस्य पत्रशाकस्य पिण्ड: पुजः श्राणः पत्रशाकोऽपि । काले आहारवेलायाम् भक्त्या प्रकल्पितः दत्तः अगण्यपुण्याथं भवेत् । यतः भक्तिः चिन्तामणिः चिन्तामणिरिव ॥८३३॥ मौनविधिः किमर्थमित्याह-अभिमानस्येति-अभिमानस्य अयाचक