________________
५०२
पं० जिनदासविरचिता
[ पृ० ३०६
व्रतस्य रक्षणार्थम् । आगमस्य विनयार्थम् जिनेश्वराः भोजनादिविधानेषु मौनम् ऊचुः उक्तवन्तः ||८३४॥ लौल्यत्यागादिति – लौल्यं जिह्वालम्पटता तस्य त्यागात् इच्छाया निरोधात् । तपोवृद्धिः भवति । अभिमानस्य च रक्षणम् अयाचकव्रतस्य पालनं स्यात् । ततश्च तस्माद्व्रतरक्षणात् लौल्यत्यागाच्च जगत्त्रयविषये मनःसिद्धिः स्याद् भवेत् । यया सर्वज्ञता स्यात् ॥ ८३५॥
[ पृष्ठ ३०-३१३ ] श्रुतस्येति – मौनेन श्रुतस्य प्रश्रयो विनयी भवेत् । ततश्च श्रेयः समृद्धेः समाश्रयः स्यात् । मुक्तिसम्पदः आश्रयः भवेत् । ततः मौनात् मनुजलोकस्य सरस्वती प्रसीदति त्रिजगदनुग्रहसमर्थो दिव्यध्वनिप्रसादो भवति ॥ ८३६ || संयमिनां व्याध्यादिप्रतीकारः करणीयः इति कथयति — शारीरेति - शारीरा व्याधयः दोषधातुमलविकृतिजनिताः । मानसा व्याधयः दौर्मनस्यदुःस्वप्नसाध्वसादिसम्पादिताः । आगन्तुव्याधयः शीतवाताभिघातादिकृताः । एतैः व्याधिभिः सम्बाधसंभवे पीड़ासंभवे । केषां संयमिनां तपस्विनाम् । गृहाश्रितैः गृहनिरतश्रावकैः । साधु सम्यक्तया । शारीरमानसागन्तुकानां रोगाणां प्रतीकारः विनिवृत्त्युपायः । कार्यः करणीयः ॥ ८३७॥ व्याधिपीडितमुन्युपेक्षायां सर्वं श्रुतं नश्येदिति निवेदयतिमुनीनामिति - उपासकैः देवशास्त्रगुरूणाम् उपासनां कुर्वद्भिः श्रावकैः । व्याधियुक्तानां रोगपीडितानां ज्ञानवतां मुनीनाम् उपेक्षायाम् औदासीन्यकरणे । असमाधिः रत्नत्रयविराधना तेषां मुनीनां भवेत् । स्वस्य औषधादिसाहाय्यम् अविहरतः अधर्मकर्मता च प्रकटीभवेत् । अत: जैनागमस्य व्याख्यानं विदधानेषु विद्वत्सु । तदागमस्य पठनं कुर्वत्सु छात्रमुन्यादिषु । सदा सौमनस्यं शुभं हर्षादिकम्। आचार्यं करणीयम् । कंः उपायः इत्याह आवासेति - आवासः वसतिका । पुस्तकं शास्त्रम् । आहारः मुत्युपयोगि प्रकृत्यनुकूलम् अन्नदानम् । सौकर्यादिविधानकैः अन्यश्रुतसाधनानां सोलभ्यकारणैः । श्रुतस्कन्धेति — श्रुतस्कन्धधरात्यये श्रुतस्कन्धस्य अङ्गपूर्वज्ञानस्य धरणे समर्थानां मुनीनाम् अत्यये विनाशे । निर्मूलतः सर्वम् अङ्गपूर्वप्रकीर्णोक्तम् - अङ्गेषु एकादशसु पूर्वेषु चतुर्दशसु च यदुक्तं श्रुतज्ञानं तन्नश्येत् । तथा सूक्तम् - सुष्ठु उक्तं निर्दोषं प्रतिपादितं केवलिभाषितं जिनेश्वरप्रोक्तं सर्वं नश्येत् । अतः गृहाश्रितैः संयमिनां व्याधेः प्रतीकारः कार्यः । प्रश्रयोत्साहतेति - प्रश्रयो विनयः । उत्साहः उद्यमः । सतत प्रयत्ने साहाय्यदानम् । आनन्दवर्धनम् । स्वाध्यायोचितवस्तुभिः श्रुतवृद्धान् मुनीन् जनयन् श्रावकः श्रुतपारगः सकलश्रुतधारकः जायते । ८३८-८४१ ॥ श्रुताच्छ्र ताभावाच्च किं स्यादिति निवेदयति-श्रुतात् श्रुतरक्षणात् तत्त्वज्ञानं जीवादितत्त्वबोधः जायते । श्रुतात् श्रुतपालनात् समयवर्धनं स्वमतप्रभावना भवति । श्रेयोऽथिनां मुक्त्यभिलाषिणां श्रुताभावे एतत्सर्वं जीवादितस्त्रज्ञानं स्वमतप्रभावना च विनश्यति सर्वं तमस्यते अन्धकारकल्पं भवति ॥८४२॥ अवधारणवदिति- - यथा अस्त्रधारणं सुलभं तथा नराः बाह्ये क्लेशे सुलभाः । परं तथा शौण्डीराः पराक्रमिणो वीराः दुर्लभाः तथा यथागमज्ञानवन्तो नरा: यथार्थज्ञानसंपन्नाः दुर्लभाः || ८४३ || ज्ञानभावनयेति - ज्ञानभावनयोर्हीने ज्ञानाभ्यासाय सततं प्रयत्नम् अकुर्वति कायक्लेशिनि शरीरक्लेशान् सहमाने नरो केवलं वाहीकवत् भारं वहन्नर इव किंचिद्भारो हीयते, अन्यः वर्धते । तथा कायक्लेशं कुर्वाणे नरि नूतनं कर्मागच्छतिपुरातनं किंचिद् गलति || ८४४ || मोहशमनाय ज्ञानमेव कारणम् - सृणिवदिति - सृणिवत् अंकुशो यथा दन्तिनः करिणः वशाय दमनाय हेतुर्भवति तथा आशयदन्तिनः मोहकरिणो दमनाय ज्ञानम् अंकुशवत् भवति । तदृते ज्ञानादृते । बहिः कायक्लेशाख्यं तपः क्लेश एव पीडैव परम् अतिशयेन भवेत् ||८४५ || ज्ञानभावना श्रेष्ठेतिबहिरिति - ज्ञानं भावयतः आत्मनि आगमाश्रयेण ज्ञानं चिन्तयतः नरस्य संनिधौ बहिः अनशनादितपः स्वयम् अभ्येति तं प्राप्नोति । यत् यतः अत्र ज्ञानभावनायां क्षेत्रज्ञे आत्मनि निमग्ने एकाग्रचिन्तापरिणते जाते सति । कुतः अपराः क्रियाः रागवर्धकाः स्युः वीतरागविज्ञानरूपायां परिणतो जातायां जीवे कर्मागमनं न भवति । संवरः च जायते ||८४६ || यदज्ञानीति - अज्ञानी आत्मज्ञानशून्यः केवलं बाह्यं कायक्लेशं कुर्वाणो जीवः । बहुभिः युगैः कर्म क्षपयेत् विनाशयेन्न वा । परं योगसंपन्नः एकाग्रचित्तः ज्ञानी । ध्रुवं निश्चयेन | क्षणतः मुहूर्तादेव । कर्म क्षपयेत् दहेत् । मिथ्याज्ञानी कर्मक्षयं न करोति, सम्यग्ज्ञानी क्षणात्कर्मराशि भस्मभावं नयति ॥ ८४७ ॥ ज्ञानीति - अखिले बहिव्रते अनशनादी । क्लेष्टुः क्लेशं सहमानात् यतेः । ज्ञानी मुनिः पटुः