________________
-पृ० ३१७ ] उपासकाध्ययनटोका
५०३ कर्मक्षपणचतुरो गीयते । ज्ञानलवे ज्ञातुः यतेः युगैरपि बहुभिः यस्मात् न पटुत्वं कर्मक्षपणकुशलत्वं न भवति । संपूर्ण चारित्रे सति पटुः परिपूर्णज्ञानी भवेत् । न तु ज्ञानलवमात्रेण केवली स्यादिति भावः ।।८४८॥ शब्दैति]रिति-यस्य शब्दैतिह्यः शब्दागमैः व्याकरण: यस्य गोः वाणी शुद्धा न । यस्य च धीः बुद्धिर्नयैः नैगमादिनयः शुदा कुशला न । सः परप्रत्ययात् अन्यस्मात् कुत्सितगुर्वादेः प्रत्ययात् ज्ञानात् क्लिश्यन् क्लेशं प्राप्नुवन् पुमान् अन्धसमः अन्धतुल्यः भवेत् ।।८४९।। शब्दाद्यागमानां द्वैविध्यम् आह-स्वरूपमिति-स्वरूपम् । रचना । शुद्धिः । भूषा । अर्थः । समासत: संक्षेगत् । आगमस्य शास्त्रस्य । प्रत्येकम् एतद्वैविध्यं भेदद्वयं प्रतिपद्यते स्वीकरोति । तद्यथा-शब्दागमः, न्यायागमः, धर्मागमः इति बहव आगमाः सन्ति । तेषां प्रत्येक स्वरूपादे: द्वैविध्यं भवति । तद्यथा-स्वरूपं द्विविधम् अक्षरम् अनक्षरं च । अस्फुटार्थसूचनार्थम् यथा तडत्तडित । पटपटायति । रचना द्विविधा गद्यं पद्यं च । प्रत्येकमागमः गद्य रूपेण पद्यरूपेण वा स्वाभिप्रायं निवेदयति । शुद्धिद्विविधा-प्रमादप्रयोगविरहः प्रमादात् अनवधानात् यः अशुद्धः प्रयोगः अशुद्धा वाक्यरचना तस्याः विरहः अभावः । अर्थव्यजनविकलतापरिहारश्च । अर्थ: शब्देन प्रतिपाद्याशयः । व्यञ्जनम् शब्द: तयोः विकलतायाः परिहारः त्यागः । भूषा द्विविधा वागलंकारः शब्दालंकारः अर्थालंकारश्च उपमारूपकादयः । अर्थो द्विविधः चेतनः अचेतनश्च । चेतनोऽर्थः देवमानवादिः । अचेतनः पथिव्यादिः जाति: व्यक्तिश्चेति वा।।८५०॥ दानविधेः अतिचारानाह-सार्धमिति–सचित्तनिक्षिप्तम्-सचित्ते पद्मपत्रादौ अन्नस्य निक्षिप्तम् अन्ननिक्षेपः। सचित्तवृतं सचित्तेन कमलपत्रादिना वृतमन्नस्योपरि आवरणम् । अन्योपदेशः परस्य दातुरेतद्गुडखण्डादिकमस्तीति पात्रस्य निवेदनम्। मात्सर्यम् अन्यदातगुणासहिष्णुत्वं मात्सर्यम् । कालातिक्रमणक्रिया साधूनाम् उचितस्य भिक्षासमयस्य लङ्घनम् । एते पञ्चातिचाराः दानहानये दानवतस्य विनाशाय भवन्ति ॥८५१॥ यतिभक्त्यादिकरणादात्रा कि कि लभ्यते इत्याह-नतेरित्यादि-यतेनतेः मुनिनमस्कारात् गोत्रम् उच्च कुलं दाता अवाप्नोति । दानात् आहारादिदानात श्रियः संपदः अवाप्नोति । उपास्तेः यतिपजनात सर्वसेव्यतां सकलजनमान्यतां लभते । भक्तेः यतिगुणानुरागात् कीर्तिमवाप्नोति, यशो लभते । कः दाता कथंभूतः स्वयं यतीन् भजन स्वयं मुनीन् आश्रयन् उपासमानः ॥८५२॥
इत्युपासकाध्ययने दानविधिर्नाम त्रिचत्वारिंशत्तमः कल्पः ॥१३॥
४४. यतिनामनिर्वचनश्चतुश्चत्वारिंशत्तमः कल्पः । [पृष्ठ ३१४-३१७ ] गृहिणामेकादशपदान्याह-मूलव्रतमिति-मूलएतं मद्यमांसमधुभिः सह पञ्चोदुम्बरत्यागो मूलव्रतम् । पञ्चाणुव्रतानि, गुणवतत्रयम् शिक्षाबतचतुष्टयम् एतेषां द्वादशानां पालनम् प्रतपदं द्वितीयम् । अर्चा आप्तसेवा समयो वा तस्याः करणं तृतीयं पदम् सामायिकास्यम् । पर्वकर्म प्रोषधोपवासः चतुर्थं पदम् । अकृषिक्रिया क्षेत्रे सस्यादिवापनम्, हलेन भूमिकर्षणम् एतत्कार्यम् अस्मिन्पञ्चमे पदे निषिद्धम् अतः अकृषिक्रियास्यं पदमेतत्पञ्चमम् । दिवा दिने स्वस्त्रीसंभोगत्यागः षष्ठं पदम् । नवविध ब्रह्म-मनसा वचस कायेन संभोगत्यागः स्वयम, अन्येन त्याजनम, त्यजतो अनुमोदनम् । एतत्सप्तमं पदम । श्रावकस्य सचित्तस्य आमस्य मलफलशाकशाखादेस्त्यागः अष्टमं श्रावकपदम् । परिग्रहपरित्यागः बाह्यदशविधपरिग्रहाणां क्षेत्रवास्त्वादीनां त्यागो वर्जनं नवमं श्रावकपदम् । भुक्तिमात्रानुमान्यता-भुक्तिराहारः अन्नपानखाद्यलेह्यानां चतुर्णाम आहाराणाम् अनुमान्यता अनुमतिदानम्, दात्रा पुत्रादिना श्रावकेण क आहारोऽद्य ग्राह्य इति पृष्टे अमुक आहारो ममेष्ट इति कथनम् । भुक्तिमात्रानुमान्यता दशमं पदम् । तदानी च तस्या अनुमतेर्हानिस्त्यागः एकादेशपदम् ।
१. भुक्त्यनुमति मुक्त्वा अन्यत्र आरम्भे, परिग्रहे, ऐहिकेषु विवाहादिकर्मसु अनुमतेरपि त्यागः ज्ञातव्यः । २. दात्रा पुत्रादिना श्रावकेण क: माहारोऽद्य भवेद्भवत इष्टः इति पृष्टेऽपि तद्विषये अनुमतेरपि अदा
नम् एकादशं पदम् ।