________________
५०४ पं० जिनदासविरचिता
[पृ० ३१७ - ८५३-८५४ । अवधीत्यादि-अवधिव्रतम् आरोहेत् पूर्वपूर्वव्रतस्थितः । पूर्वस्मिन् पूर्वस्मिन् व्रते मूलव्रतादौ स्थितः । अवधिवतं कालमर्यादां कृत्वा उत्तरव्रतं गृहणीयात् । यद्यव्रतं नवीनं गृह्यते तस्य तस्य मर्यादां कृत्वा तत्पालयेत्पूर्ववतैः सह । सर्वत्रापि एकादशसु पदेषु ज्ञानदर्शनभावनाः समाः प्रोक्ताः । यदि एषां पदानां श्रद्धानं ज्ञानं च न स्यात् तहि उत्तरोत्तरपदधारणं नोचितं भवेत् । सर्वेषु एकादशपदेषु क्रमेण रत्नत्रयभावनाः सदृशाः सन्त्येव ॥ ८५५ ॥ षडत्रेति-अत्र आदिषट्पदधारिणः श्रावकाः गृहिणः, ज्ञेयाः, सप्तमाष्टमनवमपदधारिणो ब्रह्मचारिनामानो ज्ञेयाः । दशमैकादशपदधारको द्वौ भिक्षुको इति निर्दिष्टौ । ततः सर्वतः व्रतधारिणः महाव्रतिनो यतिनामधेया ज्ञातव्याः ॥ ८५६ ॥ तत्तदिति-महाव्रतादिषु यस्य गुणस्य प्राधान्यं येषु विद्यते तत्तद्गुणमाश्रित्य यतयो मुनयोऽनेकधा बहुविधाः स्मृताः प्रोक्ताः । तेषां यतीनां निरुक्ति निश्चयेन उक्तिः कथन निरुक्तिस्तां वदतो वर्णयतः मत् मत्सकाशात् निबोधत शृणुध्वम् ।।८५७)। जित्वेति-यः सर्वाणि इन्द्रियाणि स्पर्शनरसनादीनि जित्वा स्वविषयेभ्यः परावृत्य स्वायत्तानि करोति तथा आत्मना स्वयम् आत्मानं स्वं वत्ति जानाति स गृहस्थो भवतु वानप्रस्थो वा भवतु । वानप्रस्थः - अपरिगृहीतजिनरूपो वस्त्रखण्डधारी निरतिशयतपस्युद्यतो भवति । स जितेन्द्रियनामधेयो भवति । इति जितेन्द्रियपदनिरुक्तिः ॥८५८॥ क्षपणश्रमणयोनिरुक्तिमाह-मानेति-मानो गर्वः, माया कपटम्, मदः उन्मत्तता, आमर्षः क्रोधः एषां क्षपणात् क्षयकरणात् यतिः क्षपणः स्मृत उक्तः ॥ यो नेति-यः यतिः भ्रान्तेः न श्रान्तः भ्रान्तः ईर्यासमित्या भ्रमणात् त श्रान्तः न क्लान्तः तं बुधा विद्वांसः श्रमणं विदुः जानन्ति ।।८५९॥ आशाम्बरनग्नयोनिरुक्तमाह-य इत्यादि-यः 'हताशः' हताः प्रशान्ताः आशा अभिलाषा यस्य स 'हताशः' तम् आशाम्बरम् आशादिश एव अम्बरं वस्त्रं यस्य स आशाम्बरः तम् आशाम्बरम् ऊचिरे बभाषिरे । यः सर्वसंगपरित्यक्तः सकलबाह्याभ्यन्तरपरिग्रहमुक्तः स नग्नः परिकीर्तितः कथितः ।।८६०।। ऋषिमन्योनिरुक्तिमाह-रेषणादिति-क्लेशराशीनां संसारे सम्प्राप्तचतुर्गतिदुःखसमूहानां रेषणादुत्पाटनात् विनाशनात् संवरणात् मनीषिणः विद्वांसः ऋषिम् आहुः ब्रुवन्ति । आत्मविद्यानां कर्मक्षयं कृत्वा सकलविमलकेवलज्ञानं लभ्यते तत्केवलज्ञानम् आत्मविद्या तथा च तपश्चरणसामर्थ्यात या कोष्ठबीजबद्ध्यादयो लभ्यन्ते ता अपि आत्मविद्याः प्रोच्यन्ते । आत्मविद्यानां मान्यत्वात् तत्प्राप्तेः पूजां प्राप्तत्वात् महद्धिः मुनिः कीर्त्यते वर्ण्यते ॥८६॥ यत्यनगारयोनिरुक्तिमाहय इति-यः मुनिः पापपाशनाशाय पापान्येव पाशाः जालानि तेषां नाशाय यतते प्रयत्नं करोति स यतिर्भवति । यः मुनिर्देहगेहेऽपि देह एव गेहं शरीरमेव गृहं तत्र यः अनीहः इच्छारहितः स अनगारः सतां सज्जानानां पूज्यः ॥८६२॥ शुचिशब्दस्य निरुक्तिमाह-आत्मेति-आत्माशुद्धिकरः आत्मनः अशुद्धिं कुर्वन्ति इति आत्माशुद्धिकरा ये कर्मदुर्जनाः कर्माण्येव दुर्जनाः चाण्डाला अस्पृश्याः तः यस्य न संगः न स्पर्शः स पुमान् पुरुषः शुचिः पवित्र आख्यातः प्रोक्तः, न अम्बुसम्प्लुतमस्तकः अम्बुना जलेन संप्लुतं सं समन्ततः प्लुतं धोतं मस्तकं यस्य स पुमान् न शुचिराख्यातः ॥८६३॥ निर्ममशब्दस्य निरुक्तिमाह-धर्मकर्मति-यः धर्मकर्मफले धर्मो रत्नत्रयात्मकः तस्य कर्माणि आचरणानि गुप्तिसमितिधर्मानुप्रेक्षापरीषहजयचारित्ररूपाणि । तेभ्यो लब्धे फले स्वर्गादिसुखलक्षणे । अनीहः निःस्पृहः । अधर्मकर्मणः निवृत्तः पापकर्मणो हिंसादेनिवृत्तः दूरीभूतः । तम् इह अस्मिल्लोके केवलात्मपरिच्छदं केवल एकः आत्मा एव परिच्छदः परिवारो यस्य तं निर्ममें निर्नष्टा ममेति बुद्धिर्यस्य स निर्ममः तम् उशन्ति ब्रुवन्ति ॥८६४॥ मुमुक्षुमाह-यः इति- यः यतिः कर्मद्वितयातीतः द्रव्यकर्माणि ज्ञानावरणाद्यानि अष्टौ। भावकर्माणि च अज्ञानरागद्वेषमोहादयो भावाः । कर्मणोद्वितयं कर्मद्वितयं तस्मात् अतीतः रहितः तं 'मुमुक्षु प्रचक्षते ब्रुवते । परं लोहस्य हेम्नो 'वा' पाशर्यो बद्धः स अबद्ध एव । एते लोहादिपाशाः न वस्तुतो बन्धनानि तैत्मिा बध्यते यतः ॥८६५॥/ समधीत्वं प्रतिपादयति-निर्मम इत्यादि-निर्गतो ममभावो यस्य स निर्ममः निर्मूच्र्छः । निरहंकारः अहमस्य स्वामी इति मनःसंकल्पोऽहंकारः स निर्गतो यस्मात् स निरहंकारः निर्गर्वः । निर्माणमदमत्सरः निर्गत: नष्टः मानो मदो मत्सरश्च यस्मात स निर्माणमदमत्सरः । क्षीणाभिमानेन्द्रियगर्वपरगुणासहनभावः । निन्दायां तथ्यस्य अतथ्यस्य वा दोषस्योद्भावनं प्रति इच्छा निन्दा तस्याम् । संस्तवे चैव गुणप्रशंसायां चैव शंसितव्रतः शंसितानि, व्रतानि यस्य सः। निर्दोषव्रतपालनो यः स।