________________
- पृ० ३२१ ]
उपासकाध्ययनटीका
समधीः समा रागद्वेषपरिहीणा बुद्धिर्यस्य स: मुनिः गृहस्थो वा समधीरुच्यते ||८६६ ।। वाचंयमत्वलक्षणमाहयोऽवगम्येति तत्वैकभावनः तत्त्वेषु एका मुख्या भावना चिन्तनं मस्य स तत्वकभावनः । यः मुनिः अनाद्यन्ततत्त्वं न आदिः उत्पत्तिर्जन्म अन्तो विनाशः यस्य तत्तत्त्वं जीवाजीवादिवस्तुस्वरूपम् अवगम्य ज्ञात्वा वाचंयमः वाचो वाक्यात् यच्छति विरमतीति वाचंयमः मौनव्रती विज्ञेयः, न पशुवन्नरः मौनी विज्ञेयः ॥८६७॥ अनूचानत्वं ब्रूते - श्रुते इत्यादि - श्रुते आगमे । व्रते अहिंसादिमहाव्रते । प्रसंख्यानं ध्यानं तस्मिन् । संयमे प्राणिसंरक्षणात्मके इन्द्रियजयरूपे । नियमे परिमितकालावधिरूपे भोगोपभोगत्यागे । यमे आजन्मभोगोपभोगत्यागे यस्य उच्चैश्चेतः उन्नतं चेतः मनो भवति स अनूचानः श्रुतज्ञानविचक्षणः विनीतो वा प्रकीर्तितः ||८६८ || अनाश्वन्मुनेः स्वरूपमाह-य इत्यादि - यः यतिः अक्षस्तेनेषु इन्द्रियचौरेषु अविश्वस्तः विश्वासं न च गच्छति । शाश्वते पथि नित्ये रत्नत्रयमार्गे च स्थितः वर्तते स्म । समस्तसत्त्व विश्वास्यः सकलप्राणिविश्वासार्हः स मुनिरिह अनाश्वान् गीर्यते उच्यते ॥ ८६९ ॥
[ पृष्ठ ३१८ - ३२१] योगिनमाह - तत्वे इत्यादि - तत्त्वे जीवादिपदार्थे पुमान् यस्य आत्मा युक्तो वर्तते । मनः पुंसि यस्य मनः बाह्यान् धनादिपदार्थान् विमुच्य पुंसि ज्ञानदर्शनलक्षण आत्मन्येव युक्तं वर्तते । मनसि एव युक्तं यस्य अक्षकदम्बकं इन्द्रियगणो वर्तते । तदपि स्पर्शादिविषयेषु न प्रवर्तते । स मुनि: योगी भवति । परेच्छादुरोहितः योगी न भवति । परेषु स्त्रीपुत्रधनादिषु या इच्छा मनः संकल्पः तस्यां दुरीहितः दुष्प्रवृत्तः यः स योगी न स्यात् ॥ ८७० || यतेः पञ्चाग्निसाधकत्वं ब्रवीति - कामः क्रोध इत्यादि - यस्य कामः संकल्परमणीयः प्रीतिसंभोगशोभी रुचिरोऽभिलाषः कामः । क्रोधः अमर्षः असहनता । मदो गर्वः । माया कपटम् । लोभः वर्तमानकाले अर्थप्राप्तिगृद्धिः । इत्यग्निपञ्चकम् येन साधितं वशीकृतं सः कृती कृतकृत्यः मुनिः पञ्चाग्निसाधकः स्यात् ॥ ८७१ || मुनेर्ब्रह्मचारित्वमाह - ज्ञानं ब्रह्मेति - आत्मस्वरूपपरिज्ञायकं ज्ञानं ब्रह्मेत्युच्यते आत्मज्ञानेन परपदार्थे आसक्तिरहितावहा । स्वात्मन्येव रतिहितकारिणीति प्रतिपाद्यते । तस्माज्ज्ञानं ब्रह्मेति निर्वचनं योग्यम् । दया ब्रह्म दया प्राण्यनुकम्पनं सर्वे जीवाः सुखमभिलषन्ति न कोऽपि दुःखम् । अतः आत्मना सदृशाः सर्वे प्राणिनः इति ज्ञात्वा दया विधेया । दयेयं ब्रह्मज्ञानकारणत्वाद् ब्रह्मेति परिगीयते । कामविनिग्रहः कामाकुलितो मनुष्यः रामाभिलाषी भवति । निजात्मनि शुद्धे तस्य रतिर्न भवति अतः आत्मस्वरूपरतिच्युतः सोऽजितेन्द्रियो भवति तस्य ब्रह्मप्राप्तिः कुतः । कामविनिग्रहे कृते निजात्मनि ब्रह्मणि रतिर्जायते अतः कामविनिग्रहस्य ब्रह्मेत्यभिधानम् । अत्र ज्ञानब्रह्मणि, दयाब्रह्मणि कामविनिग्रहाख्ये ब्रह्मणि च सम्यग्वसन्नरः ब्रह्मचारी आत्मा भवेत् ||८७२ ॥ मुनेगृहस्थत्वं कथयति — क्षान्तियोषितीत्यादि - - यः मुनिः क्षान्तियोषिति क्षमास्त्रियां सक्तः रति करोति । यः सम्यग्ज्ञानम् एव अतिथिः सप्रियो यस्य यथा गृहस्थः ज्ञानादिसिद्ध्यर्थम् आहाराय यत्नेन श्रावकगृहम् । अतन्तं गच्छन्तम् अतिथि पूजयति तथा सम्यग्ज्ञानरूपम् अतिथिम् आराधयति स मुनिः नूनं गृहस्थो भवेत् । गृहस्थः दैवतं साधयति आराधयति तथायं मुनिर्मन एव दैवतं तत्साधयति । मनो वशीकृत्य तत् आत्मनि एकाग्रं करोति तत आत्मानुभूत्याख्यं सुखं लभते ||८७३ || मुनेर्वानप्रस्थत्वं व्यनक्ति-प्राम्यमिति - ग्राम्यम् अर्थ ग्राम इन्द्रियगणः तस्य विषयः स्पर्शरसादिः ग्राम्योऽर्थ उच्यते । तं स्पर्शादिविषयं स्त्रीस्रक्चन्दनादिकं परित्यज्य मुक्त्वा । अन्तः यः अर्थः रागद्वेषादिः तमपि परित्यज्य यः संयमी यतिः प्रवर्तते स वानप्रस्थः विज्ञेयः । न वनस्थः कुटुम्बवान् वने तिष्ठन् पोष्यवर्गसहितः वानप्रस्थो नोच्यते । वानप्रस्थोऽयं गृहस्थभेदेऽपि शब्दो वर्तते । वानप्रस्थो गृही तृतीयाश्रमी उच्यते तस्यापि स्वरूपं जैनागमे एवं प्रतिपादितम् - " वानप्रस्था अपरिगृहीतजिनरूपा वस्त्रखण्डधारिणः निरतिशयतपस्युद्यता भवन्ति ।" वैदिकधर्मे वानप्रस्थो दाराभिः सह वने तिष्ठति इत्युक्तं तथा वानप्रस्थस्य गृहिणः स्वरूपं जैनागमे नास्ति । ग्राम्यमर्थमिति श्लोके मुनेर्वानप्रस्थेति नामापि कथं भवेदिति विशदीकृतम् । परं मुनिर्वानप्रस्थाभिधो गृही नेत्यत्र ज्ञेयम् ||८७४ || मुनेः शिखाछेदित्वं कथयति - संसारेत्यादि - - संसार एवाग्निः । चतुर्गतिभ्रमणं संसार: स एवाग्निः तस्य शिखाः मिथ्यात्वाविरतिप्रमादकषा। तासां छेदो विनाशः कर्तनं वा येन ज्ञानासिना । आत्मज्ञानमेव असिः खड्गः तेन कृतः तं मुनि
६४
५०५