________________
५०६
पं० जिनदासविरचिता
[पृ. ३२१
'शिखाछेदिनं' प्राहुः न तु मुण्डितमस्तकम् मुण्डितं मस्तकं येन सः मुण्डितमस्तकः तं न ब्रुवन्ति । केवलं केशलोचं करोति परम् अनाचारेण प्रवर्तते स मुण्डितमस्तकोऽपि न मनिः । मिथ्यात्वाविरतिप्रमादकषायान् यश्छिनत्ति स एवान्वर्थो मुनिः शिखाच्छेदीत्युच्यते ॥८७५॥ मुनि हंसमाह-कर्मत्यादिक्षीरनीरसमानयोः यथा क्षीरनीरयोः संयोगे इदं क्षीरम् इदं दुग्धम् इति विवेक्तुं नान्यो जनः समर्थः हंसं विना । स तु नीरमिश्रितं क्षीरं नीरं मुक्त्वैव पिबति । यदा स हंसः नीरमिश्रिते क्षीरे निजां चञ्चुं प्रवेशयति तदा क्षीरं पीत्वा नीरमेवावशेषयति । तथैव मनिरपि क्षीरनीरसमानयोः कर्मात्मनोः विवेक्ता भवति । आत्मनः सकाशात् कर्माणि पृथक् करोति अत एव स परमहंसो भवति । स परमहंसः अग्निवत्सर्वभक्षकः नास्ति । जैनसाधुः श्रावकगृहे अभक्ष्यवय॑म् आहारं करोति आहारदोषांस्त्यवत्वा । अग्निस्तु सर्व शमशुद्ध वा भक्षयति । न तस्य विवेकोऽस्ति ॥८७६॥ मुनेस्तपस्वित्वं व्यनक्ति-ज्ञानरिति-यस्य ज्ञानमन: नित्यं प्रदीप्तं किट्टकालिकादिदोषरहितं सुवर्णमिव तेजस्वि-निर्मलमभवत् । यस्य वपुः वृत्तः त्रयोदशविधः गप्तिसमितिमहाव्रतरूपैश्चारित्रैः नित्यं प्रदीप्तम् अभवत् । नियमैः नानाविधैः सेव्यपदार्थत्यागः इन्द्रियाणि यस्य नित्यं दीप्तानि स तपस्वोत्युच्यते न वेषवान, केवलं नग्न: पिच्छिकाकमण्डलसहितः तपस्वी नोच्यते । ॥८७७॥ मुनेरतिथित्वं व्यनक्ति–पञ्चेन्द्रियेत्यादि-याः पञ्चेन्द्रियाणां स्पर्शादिविषयेषु प्रवृत्तयः ता एव पञ्च तिथयः नन्दा, भद्रा, रिक्तादयः, ताः संसारे भवे अश्रेयोहेतुत्वात् अकल्याणकारणत्वात् ताभिर्मुक्तो अतिथिर्भवेत् ।।८७८॥ मुनेर्दीक्षितत्वं प्रतिपादयति-अद्रोह इति-सर्वसत्त्वे सकलजीवेषु अद्रोहः अद्वेषः स एव यस्य यज्ञः इज्यते हविरत्र इति यज्ञः स यस्य दिने दिने वर्तते स पुमान् यतिः दीक्षितात्मा न तू अजादियमाशयः दीक्षितो ज्ञेयः अजाश्वादिषु यमाशयः यमवत् आशयो मारणाभिप्रायो यस्य स पुरुषः दीक्षितो न ज्ञेयः । दीक्षा संजाता अस्येति दीक्षितः । स व्रती न सोमपानवति अध्वरे यजमान: सन्दीक्षित उच्यते ॥८७९॥ श्रोत्रियत्वं मुनेः कथयति-दुष्कर्माणि दुष्टानि हिंसासत्यचौर्यादिपापकार्याणि तान्येव दुर्जनाः चाण्डालशबरनाहलादयः तान् न स्पृशतीति दुष्कर्मदुर्जनास्पर्शी। पुनः कथंभूतः । सर्वेति-सर्वेषां सत्त्वानां प्राणिनां हिते कुशले आशयोऽभिप्रायो यस्य स पुमान् श्रोत्रियः वेदाध्येतृब्राह्मणः । न तु यः बाह्यशौचवान् बाह्यं स्नानेन शौचं मन्वानः न स श्रोत्रियः ।।८८०॥ मुने)तृत्वं निर्दिशति-अध्यात्मेति-अध्यात्माग्नौ मात्मनि अधिकृत्य वर्तते इति अध्यात्म स एवाग्निः तत्र दयारूपैर्ह विप्रक्षेपणप्रतिपादनपरमन्त्रः सम्यककर्मसमिच्चयं सम्यक्तया सावधानो भूत्वा कर्माणि ज्ञानाद्यावरणानि एव समिधः होमे समर्पणीयानि पलाशादिकाष्ठतुल्यानि तेषां चयं समूहं यः जुहोति अध्यात्माग्नी प्रक्षिपति, स होता स्यात् होमकर्ता भवेत् । परं यः बाह्याग्निसमेधक: बाह्याग्नी पलाशादिकाष्ठानि निक्षिप्य तस्य प्रवर्धकः भवति स अत्र होता न स्यात् । यः यतिः स्वानुभूत्यग्नो दयामन्त्रानुच्चार्य कर्मसमिच्चयं प्रक्षिपति प्राणिसमूहं होमे न प्रक्षिपति । प्राणिसमूह होमे क्षिपन्न सदयः किं तु निर्दय एव । अत्र स्वानुभूतिरूपे होमे कर्मणां ज्ञानाद्यावरणानां प्रक्षेपणात् आत्मा होता भवति इति ज्ञेयम् ।।८८१॥ मुनेर्यष्तृत्वं वक्ति-भावपुष्पैरिति-भक्तिकुसुमैः देवं यजेत् जिनं पूजयेत्, वा शुद्धचिदानन्दस्वरूपं निजात्मानं पूजयेत् । व्रतपुष्पैर्वपुर्गृहम्-व्रतान्येव पुष्पाणि तैः वपुरेव गृहं यजेत् पूजयेत् । क्षमापुष्पैः मनोवह्नि चित्तानलं पूजयेत् । स यष्टा यजनं कुर्वाणः, सतां सज्जनानां मान्यः पज्यो भवेत् ॥८८२॥ मुनिम् अध्वर्युमाचष्टे-षोडशानामिति-षोडशसंख्यानां भावनत्विजाम् दर्शनविशुद्धिविनयसम्पन्नतादिषोडशभावनानां तीर्थकरत्वप्राप्तिकारणानां पुरोहितानां यः उदारात्मा दातृसदशः महानात्मा मनिः, प्रभः स्वामी स शिवेति-शिवशर्म मोक्षसूखं तदेव अध्वरो यज्ञः तस्य उधरः श्रेष्ठः अध्वर्यः यज्ञसम्पादको बोद्धव्यः ज्ञातव्यः ॥८८३॥ वेदस्य स्वरूपमाह-विवेकमिति-यः शरीरशरीरिणोः शरीरं देहः शरीरी शरीरे निवसन्नात्मा। तयोः उभयोः विवेकं पार्थक्यं भिन्नलक्षणत्वम् उच्चैः नितरां निवेदयेत कथयेत् । सः वेदः विदुषां प्रीत्यै रुचये स्यात् । वेदः अखिलक्षयकारणं सकलप्राणिविनाशहेतुः स प्रोतिहेतुर्न भवति ।।८८४॥ का नाम त्रयोति प्रश्ने तदुत्तरमाह-जातिरिति--जातिर्जन्म, जरा वृद्धत्वम् मृतिः मरणम् एतत्त्रयो पुसां संसृतिकारणं भवहेतुः भवति । एषा त्रयो यतस्त्रय्याः यस्याः त्रय्याः सम्यग्दर्शनज्ञान