________________
- पृ० ३२५] उपासकाध्ययनटीका
५०७ चारित्ररूपायास्त्रय्याः क्षीयते सा त्रयी बुद्धिमतां मता प्रशस्या। रत्नत्रयम् एव त्रयीनामधेयं तदेव जन्मजरामतित्रयों विनाशयेत् न ऋक्सामयजुषां त्रयो संसारक्षयकारणम् ॥८८५॥ मुने ह्मणत्वमाह--अहिंस इति--अहिंसः न हिनस्तीति अहिंसः प्राणिघातदूरो दयालुः । सद्वतः सन्ति व्रतानि यस्य सः सन्ति सम्यग्दर्शनवन्ति, अथ च सन्ति निरतिचाराणि व्रतानि यस्य सः। ज्ञानी सम्यग्ज्ञानी चतुर्णा प्रथमाद्यनुयोगानां ज्ञाता। निरीहः निस्पृहः । निष्परिग्रहः निर्ममत्वरतः। स सत्यं ब्राह्मणः स्यात् भवेत् न तु जातिमदान्धलः अहं जात्या श्रेष्ठः इति गर्वेण मदोद्धरः ब्राह्मणो न भवेत् ॥८८६।। का जातिरिति प्रश्न उत्तरमाह-सेति--यस्याः सद्धर्मसंभवः यस्या जातेः सकाशात् परलोकाय पर उत्तमः लोकः स्वर्गादिः तस्मै परलोकाय उत्तमस्वर्गादिलाभाय सद्धर्मसंभवः समीचीनरत्नत्रयधर्मस्य संभवः उत्पत्तिः स्यात् सा जातिः उत्तमेत्यर्थः । शद्धा भूः यदि बीजवजिता स्यात् तहि सा न हि सस्याय जायेत धान्योत्पत्त्यै न भवेत् । केचन जना उत्तमजातो जन्म लब्ध्वापि धर्मविहीना एव कालं यापयन्ति, केचन च होनजाती समुत्पन्ना अपि तज्जात्युचितं धर्म पालयित्वा स्वहितं साध्नुवन्ति अतः धर्मपरिपालनं भवेत् सा जातिः उत्तमा ज्ञेया। हीनजाती जनित्वापि तज्जातियोग्यं धर्म पालयन् यो नरो म्रियते सोऽन्यभवे उच्चां जाति सद्धर्मवती लभते ।।८८७॥ के शवबौद्धादयः इति प्रश्न उत्तरं दीयते--स शैव इति-यः शिवज्ञात्मा शिवं मुक्त्युपायं सद्दष्टिज्ञानवृत्तानि जानाति तथाभूत आत्मा शैवः । यः अन्तरात्मभुत् सः बौद्धः अन्तरात्मानं बुध्यतीति अन्तरात्मभुत् । किमन्तरात्मनः स्वरूपम् । उच्यते चित्तदोषात्मविभ्रान्तिरन्तरात्मा चित्तं च विकल्पः दोषाश्च रागादयः आत्मा च शुद्धं चेतनाद्रव्यम्, तेषु विगता विनष्टा भ्रान्तिर्यस्य स चित्तं चित्तत्वेन बुध्यते । दोषांश्च दोषत्वेन । आत्मानम् आत्मत्वेनेत्यर्थः । एतादृशं निजस्वरूपं यः बुध्यते जानाति स बौद्धः भवति । कस्तहि सांख्यः यः प्रसंख्यावान् स सांख्यः, प्रकर्षेण संशयविपर्ययानध्यवसायरहितं यथा स्यात्तथा द्रव्यगुणपर्यायान् संख्याति वर्णयति इति प्रसंख्यावान् सांख्यो भवेत् । स द्विजः यो न जन्मवान् यः पुनः जन्मवान् न भवति स द्विजः । यः कुलीनाया मातुरुत्पद्य कृतोपनयो गुरुणा तत्त्वज्ञानं लम्भितः प्राप्तः द्वितीयजन्मा-लब्धसंस्कारजन्मा दीक्षित्वा कर्मक्षयं करोति तृतीयं जन्म न लभते स द्विज इत्युच्यते ॥८८८॥ दानायोग्यत्वमाह-ज्ञानहीनेति-ज्ञानेन सम्यग्ज्ञानेन हीनःज्ञानहीनः । दुराचारः दुष्टः आगमविरुद्धा:आचाराः कार्याणि यस्य सः, स्वच्छन्दं प्रवृत्तः। निर्दयः दयारहितः । लोलुपाशयः पाञ्चेन्द्रियविषयेषु लम्पटः । तथा अक्षेति-अक्षाणि इन्द्रियाणि तानि अनुमता अनुसता क्रियाः गमनभोजनादिक्रिया यस्य एतादृशो यः मुनिः स्यात् स दानयोग्यः कथं स्यात् । स मुनिनानहः इति विज्ञेयः ।।८८९॥ भिक्षाचातुर्विध्यमाहअनुमान्या, समुद्देश्या, त्रिशुद्धा तथा भ्रामरी इति भिक्षा चतुर्विधा चतुःप्रकारा ज्ञेया। कयोरियं चतुविधा भिक्षेत्याह-यतिद्वयसमाश्रया देशयतिविषयिणी महाअतिविषयिणी च अनुमान्या भिक्षा दशप्रतिमापर्यन्ता । समुद्देश्या आमन्त्रणपूर्विका षट्प्रतिमापर्यन्ता। एकादशप्रतिमाधारकस्य भिक्षा 'त्रिशुद्धेति नाम लभते । मुनिभिक्षाया नाम भ्रामरीति ज्ञेयम् । दातृजनबाधया विना कुशलो मुनिभ्रंमरवदाहरतीति तस्य भिक्षा भ्रामरीति नामाश्नुते ॥८९०॥
इत्युपासकाध्ययने यतिनामनिर्वचनश्चतुश्चत्वारिंशः कल्पः ॥४४॥
४५. सल्लेखनाविधिर्नाम पञ्चचत्वारिंशः कल्पः। [ पृष्ठ ३२२-३२५ ] अन्त्यविधि-सल्लेखनाविधिमाह-तरुदलेति-कदा सल्लेखना विधेयेति प्रश्ने व्याचष्टे-परिपक्वं तरुदलमिव जीर्णावस्थां प्राप्तं शिथिलवृन्तं वृक्षपर्णमिव । स्नेहविहीनं स्नेहेन तैलेन विहोनं रहितं दीपमिव । स्वयमेव विनाशोन्मुखं पतनावस्थां प्रति अनुसरन्तं देहं शरीरम् अवबुध्य ज्ञात्वा । अन्त्यं विधि सल्लेखनाख्यं करोतु ।।८९१॥ गहनेति-शरीरस्य देहस्य विसर्जनं त्यागः गहनं कठिनं नहि । किंतु