________________
पं० जिनदासविरचिता
[पृ० ३२५
इह वृत्तं चारित्रं चारियपालनं गहनं कठिनं वर्तते । तत् तस्मात्कारणात् स्थास्नु चिरकालं स्थातुं योग्यं शरीरमिदं न विनाश्यं नाशयितुं न योग्यम् । यदा तु शरीरम् धर्मसाधनायालं समर्थ न भवति तदा सल्लेखनां विधाय देहत्याग उचितः । अन्यथा सल्लेखनाकरणम् आत्मघात समं स्यात् । यदा तु तच्छरीरं नश्वरम् पतनाभिमुखं भवति तदा न शोच्यम् । धैर्येण धर्मरक्षणार्थ सल्लेखना विधेया। अतः उक्तं चरितं गहनं न शरीरहानमिति ॥८९२॥ प्रतिदिवसमिति-दिवसं दिवसं प्रति प्रतिदिवसम्, अनुदिनम् । प्रत्यहम् । वपुः विजहबलं बलं सामर्थ्य विजहाति त्यजति यत् तत् शरीरं विजहबलम्। विनश्यत्सामर्थ्यम् इति भावः। उज्झद्भक्तिं उज्झति त्यजति भुक्तं भोजनं यत् तच्छरीरम् अगलदाहारम् । त्यजत्प्रतीकारं परिहरदक्षणोपायम् । एतदवस्थं वपुः शरीरं नृणां मनुजानां श्रावकाणां मुनीनां वा, चरमचरियोदयं चरमम् अन्त्यं चरित्रोदयं सल्लेखनोत्पत्तिरूपं समय कालं निगदति कथयति । एतदवस्थं यदा शरीरं भवति तदा सल्लेखना कार्येक्ति व्यक्तीकृतं सूरिणा ॥८९३॥ पापकृतेः सविधेव पापकार्यस्य संनिकटेव, पापकार्यस्य समीपमागतेव, जरा वृद्धावस्था। कोदशीसा जनिताखिलेति-जनित: उत्पादितः अखिलस्य सर्वस्य कायस्य देहस्य कम्पनातङ्कः वेपथुरोगो यया सा जरा यदि यमदूतीव यमस्य वार्ताहरेव समागता आगता तहि जीवितेषु प्राणेषु क: तर्पः का तृष्णा कोऽभिलाषः । तदा गृहस्थेन मुनिना निरभिलापेण भाव्यम् ॥८९४॥ कान्तेति-यदि चेत् जरया वृद्धावस्थया कर्णान्ते श्रवणयुगस्य समीपे केशपाशस्य ग्रहणस्य विधिः बोधितोऽपि प्रकटीकृतोऽपि ज्ञापितोऽपि मानवः, स्वस्य हितैषी न भवति निजहितेच्छां न कुरुते तहि मृत्युः तं कि न असते। न भक्षयति किम् अपि तु भक्षयत्येव ॥८९५।। उपवासादिभिरिति-उपवास: आहारकर्शनेन, स्निग्धपानपरिहापनेन, खरपानेन, तस्यापि हापनेन इत्यादिभिः अन्नहापनप्रकारः अङ्गे कृतसल्लेखनकर्मा शरीरे कृतं सल्सेखनकर्म येन सः सम्यक् शान्तेन मनसा लेखनम् उपवासादिभिः शरीरकर्शनं कायसल्लेखना, तत् सल्लेखनकर्म येन कृतं स कृतसल्लेखनकर्मा। कषायदोपे च क्रोधादिककपायदोपे च कृतसल्लेखनकर्मा सम्यककृशीकृतकपायकर्मा गणमध्ये चतुःसंघमध्ये प्रायाय यतेत । अनशनाय उपवासाय यतेत प्रयत्नं कुर्यात् आमरणं सावधिकं वा उपवासं कुर्यादिति ॥८९६।। यमनियमति-यम: आमरणं भोगोपभोगादित्यागः । नियमः परिमितकालं तयोस्त्यागः । स्वाध्यायः वाचना. पच्छनादिपञ्चविधः । तपांसि अनशनादिकं बाह्यं षडविधं तपः । प्रायश्चित्तादिकं षडविधम आभ्यन्तरं तपः । देवार्चनाविधिः देवस्य जिनप्रभोः पूजाभिषेकादिकम् । दानं विविधपात्रेभ्य आहारादिदानम् । एतत्सर्वं निष्फलं भवेत् । कदा चेत अवसाने मनः मलिनं स्यात् । मतिसमये चित्तम् आर्तरौद्रादिध्यानेन मलिनं कलुषितं स्यात् ॥८९७।। द्वादशेति-नृपः द्वादशवर्षाणि यावत् शस्त्राभ्यासं कृत्वा यदि रणेषु समरेपु स मुह्येत् प्रमाद्येत्। तर्हि तस्यास्त्रविधेः तस्य अस्त्रशिक्षणस्य किं स्यात् किं फलं भवेत् । तत्सर्वं विफलं भवेत् । तथा यते: पुराचरितं यमनियमस्वाध्यायादिकं सर्वं प्रागाचरितम् आचरणं विफलं भवेत् । अतोऽवसाने परिणामेषु नर्मल्येन भाव्यम् ।।८९८।। स्नेहं विहायेति-बन्धुपु ज्ञातिबान्धवेपु स्नेहं विहाय त्यक्त्वा । मोहं विभवेषु संपत्सु त्यक्त्वा अहिते कलुषतां द्वेषं विहाय त्यक्त्वा । गणिनि निर्यापकाचार्ये निखिलं सकलं दुरीहितं दुश्चेष्टितं निवेद्य कथयिस्वा । तदनु तदनन्तरम् उचितं विधि निर्यापकाचार्येण कथितम् उचितं योग्यं विधि सल्लेखनाचारविशेष भजतु आश्रयतु ॥८९९॥ सल्लेखनाचारविशेपं निगदति-अशनमिति-क्रमेण अशनम् अन्नं हेयं वर्जनीयम्। तदनन्तरं स्निग्धं पानं दुग्धादिकं विवयं तदपि हेयम् । ततः खरं पानं काञ्जिकादिकं शुद्धपानीयरूपं वा विवऱ्या तदपि हेयम् । तदनु सर्वनिवृत्ति सकलत्यागं चतुविधाहारत्यागम् उपवासम् अपि कुर्यात्, कथंभूतः सन् गरुपञ्चकस्मतो निरतः अर्हत्सिद्धाचार्योपाध्यायसाधनां पञ्चपरमेष्ठिनां नामस्मरणे निरतः तत्परः सन् ॥९००॥ कदलीघातवदिति-यथा परश्वादिना कदलीतहरेकप्रहारेणैवोन्मूल्यते तथा दुनिवाररोगशस्त्र प्रहारादिना सकुदेव अक्रमेण आयुषि जीविते विरतिम उपयाति विनाशोन्मुखतां गच्छति सति, केषां कृतिनां पुण्यवताम् । तत्र अकस्मात् आयुविरमणकाले एष सल्लेखनाविधिर्नास्ति 'आहारं त्यक्त्वा स्निग्धं विवर्धयेत, तदपि त्यक्त्वा खरपानं पूरयेत्' इत्यादिरूपः क्रमेणान्नादित्यागविधिर्नास्ति । तदेव ग्रन्थकृदेवमाह-यत् देवे प्रयत्नासाध्ये क्रमविधिः सल्लेखनाविषयोक्तः नास्ति । न भवति कदलीघातमरणे अहं चतुर्विधाहारं