________________
-पृ०३२८
उपासकाध्ययनटीका त्यजामीति संगरेण समाधिमरणं करोति ॥९०१॥ सूराविति-सूरी निर्यापकाचार्ये । प्रवचनकुशले आराधना-शास्त्रनिपुणे व्याख्यानकुशले च। साधुजने परिचारकमुनिगणे यत्नकर्मणि वैयावृत्त्यकरणदक्षे निरलसे च सति । चित्ते च सल्लेखनाराधकस्य मनसि समाधिरते रत्नत्रये धर्मध्याने चतुराराधनरते च स्थिते सति । यतेः किमिहासाध्यम् इह लोके असाध्यं दुष्करं किमस्ति ॥९०२॥ सल्लेखनातिचारान् वक्तिजीवितेति-जीविताशंसा, जीविताभिलाषा प्रत्याख्यातचविधाहारस्यापि मे जीवितमेव श्रेयः यत एवं विधा मदुद्दे शेनेयं विभूतिर्वर्तते इत्याकाक्षेति यावत । मरणाशंसा रोगोपद्रवाकूलतया प्राप्तजीवनसंक्लेशस्य मरणं प्रति चित्तप्रणिधानम् । अथवा यदा न कश्चित्तं प्रतिपन्नानशनं प्रति सपर्यया आद्रियते । न च कश्चिच्छ्लाघते, तदा तस्य यदि शीघ्रं म्रियेय तदा भद्रकं भवेत् इत्येवं विविधपरिणामोत्पत्तिर्वा । सुहृदनुराग: बाल्ये सहपांसुक्रीडनादि, व्यसने सहायत्वम, उत्सवे संभ्रमः इत्येवमादेश्च मित्रसूकृतस्यानुस्मरणम्, बाल्याद्यवस्थासहक्रोडितमित्रानुस्मरणं वा । सुखानुबन्धविधिः एवं मया भुक्तम्, एवं मया शयितम्, एवं मया क्रीडितमित्येवमादिप्रीतिविशेष प्रति स्मृतिसमन्वाहारः। एते सनिदानाः अस्मात्तपसो दुश्चरात् जन्मान्तरे इन्द्रश्चक्रवर्ती धरणेन्द्रो वा स्यामहमित्येवमाद्यनागताभ्युदयाकांक्षा । एते पञ्च सल्लेखनाहानये स्युः सल्लेखनायाः हीनत्वाय भवेयुः ॥९०३॥ सल्लेखनाराधनायाः फलमाह-आराध्येति--इत्थं रत्नत्रयम् आराध्य भावयित्वा । गणिने निर्यापकाचार्याय । समपितात्मा समर्पितः दत्तः आत्मा येन सः तदधीनो भूत्वा तदाज्ञामनुसत्य प्रवर्तमान: । अर्थी सल्लेखनाकामः यथावत् समाधिभावेन विधिमनुसृत्य धर्मध्यानपरिणत्या कृतात्मकार्यः कृतम् आत्मकार्य सल्लेखनाख्यं येन सः कृती पुण्यवान् धन्यः जगन्मान्य पदप्रभु : स्यात् । जगतां मान्यं पूज्यं यत्पदं स्थानं तीर्थकरत्वं तस्य प्रभुः स्यात् भवेत् ॥९०४॥
इत्युपासकाध्ययने सल्लेखनाविधिर्नाम पञ्चचत्वारिंशः कल्पः ॥४५॥
४६. प्रकीर्णकविधिर्नाम पट्चत्वारिंशत्तमः कल्पः । [पृष्ठ ३२५-३२८ ] विप्रकीर्णति-विशेपेण प्रकीर्णानाम् इतस्ततः विस्तृतानां वाक्यानाम् अथवा अवशिष्टानाम् अनुक्तानाम् अर्थवाक्यानां प्रयोजन भूतवाक्यानाम् उक्तिः प्रतिपादनं प्रकीर्णकम् उक्तम् । कैः प्रकीर्णकं उक्तम् इति प्रश्न आह-उवतेति-उता: कथिताः अनुक्ताः अकथिताः उपदिष्टानुपदिष्टा इति । ये अमृतस्यन्दबिन्दवः अमतवत आनन्दजनकत्वात उक्तानक्तार्थवाक्यानि अमतमेव तस्य गलतां बि आस्वादे कोविदः प्रकीर्णकस्य लक्षणम् उक्तम् ॥९०५।। कीदग्गुणो नरः धर्मकथापरो भवतीत्याह-- अदुजेनत्वमिति-दुर्दुष्टो जनः दुर्जनः तस्य भावः दुर्जनत्वं कृतघ्नत्वम् न दुर्जनत्वम् अदुर्जनत्वं कृतोपकारस्मरणाख्यो गुणः अदुर्जनत्वम् । विनयः गुणिजनेषु आदरः । विवेक: हिताहितविमर्शशक्तिः । परीक्षणं पूर्वापरालोचनम। तत्त्वविनिश्चयश्च जीवादितत्त्वानां यथागमं स्वरूपनिर्णयः । एते पञ्चगणा: यस्य भवन्ति स मात्मवान् विकारावशः पुरुषः धर्मकथापरः धर्मोपदेशने तत्परो भवेत् ॥९०६॥ के दोषास्तत्त्वावबोधे प्रतिबन्धकाः आह-असूयकत्वमिति-गुणेषु मत्सरोऽसूयकत्वम् । शठता पुरः प्रियं भाषणं पश्चात् विप्रियोत्पादनम् । अविवारः अविवेकः, दुराग्रहः दुष्टाभिप्रायः, सूक्तविमानना सूक्तस्य सतां भाषितस्य विमानना अवहेलना अवज्ञा, अमी पञ्चदोषाः तत्त्वावबोधप्रतिबन्धनाय भवन्ति । यथार्थवस्तुस्वरूपज्ञानबाधाहेतवे भवन्ति ॥९०७॥ संशयितमूढयोः प्रवृत्तेः असाफल्यं दर्शयति । पुंस इति-यथा संशयिताशयस्य चलितप्रतिपत्तिमतः पुंसो नरस्य काचित् प्रवृत्तिः किमपि कार्य सफलं न भवेत् । तथा धर्मस्वरूपेऽपि विमूढबुद्धेः विमूढा बुद्धिर्यस्य सः विमढबुद्धिः तस्य धर्मस्वरूपानभिज्ञस्य जडमतेरित्यर्थः तथाभूतस्य पुरुषस्य काचित् प्रवृत्तिः सफला न भवेत् विपरीतकार्यकरणात् ॥९०८।। अष्टमदानाह-जातिपूजेति-जाति: मातृकुलम् । पूजा लोकादरः । कुलं पितृवंशः । ज्ञानं शास्त्रावबोधः । रूपं सौन्दर्यम् । संपत ऐश्वर्यम् । तपः व्रताद्याचरणम्, बलं शरीरपराक्रमः । एतस्मिन्वस्तुनि अहंयुतोद्रेकम् अभिमानस्य उत्कटतां मदं गवं वदन्ति । के अस्मयमानसाः गवरहितचेतसः