________________
५१०
पं० जिनदासविरचिता
[पृ० ३२८
॥९०९।। सगर्वो नरो धर्मघातकः-य इति-यः नरः मदात गर्वात जात्याद्यभिमानवशो भूत्वेति भावः, समयस्थानां जिनधर्मे स्थितानां तत्पराणां नृणां अवह्लादेन अवज्ञया मोदते तुष्यति । स पुरुपः नूनं सत्यं धर्महा जिनधर्मघातकः भवति । यस्मात धर्मः धार्मिकैः विना न भवति । धार्मिकाणाम् अवमाननात् धर्मो नष्टो भवति ॥९१०॥ श्रावकाणां षट्कर्माणि-देवसेवेति-देवस्य जिनेन्द्रस्य सेवा स्नपनं पूजनं स्तोत्रं जपो ध्यानं श्रुतस्तवः इति षड्विधा भवति । गुरूपास्तिः गुरोः निर्ग्रन्थाचार्यस्य उपास्तिः पूजा। स्वाध्यायः श्रुतस्य धर्मशास्त्रस्य पठनम् ज्ञानभावनालस्यत्यागः स्वाध्यायः स च वाचनादिभेदात्पञ्चधा । संयमः व्रतधारणम् तपः अनशनादिकं दानं त्रिविधपात्रेषु आहारोषधशास्त्राभयवितरणम् । इति गृहस्थानां श्रावकाणां षट्कर्माणि दिने दिने प्रतिदिवसम् आचरणीयानि कार्याणि ॥९११।। श्रावकाणां षक्रिया आह-स्नपनम-जिनेन्द्रस्य आह्वानस्थापनसंनिधीकरणपूर्वकं पञ्चामृतैर्यथागमम् अभिषेचनम् । पूजनं जलाद्यष्टद्रव्यः जिनेश्वरस्य यजनम् । स्तोत्रं भगवतो गुणानां गद्यपद्याभ्यां पठनम् । जप: मनसा वाचा वा जिननामावर्तनम् । ध्यानं जिनगुणेषु कस्मिश्चिद्गुणे मनसः एकाग्रचिन्तानिरोधो ध्यानम् । श्रुतस्तवः जिनमुखोद्भूतायाः श्रुतदेवताया गुणवर्णनं श्रुतस्तवः । इति षोढा क्रियाः देवसेवासु गेहिनां गृहिणाम् उदिता उक्ताः ॥९१२॥ कः श्रेयःप्राप्तिकरो गणः इत्याहआचार्योपासनमिति-धर्माराधने प्रयोक्तृणां गुरूणाम् उपासनम् आदरः पूजनम् । श्रद्धा आप्तागमतपोभृतां परमार्थानां रुचिः । शास्त्रार्थस्य विवेचनम जिनागमप्रोक्तानां जीवादितत्त्वानां बालावबोधिन्या सरलया भाषया अविरोधेन स्वरूपप्रतिपादनम् । तत्क्रियाणां देवसेवादीनां पण्णां क्रियाणाम् अनुष्ठानम् आचरणम् । श्रेयःप्राप्तिकरः मुक्तिप्राप्तिकरः गणः ज्ञातव्यः ॥९१३॥ गुरुसंनिधौ कथंभूतः श्रावकोऽधीते इत्याह-शुचिरिति-स्नानशुद्धः। विनयसम्पन्नः प्रश्रयतत्परः । तनु चापलवजित: शरीरचञ्चलत्वेन रहितः गुरुसंनिधौ हस्तपादं न प्रसारयेत्, करेण करताडनम्, गावभञ्जनम् इत्यादिकं चाञ्चल्यं परिहरेत् । अष्टदोपविनिर्मुक्तम् अष्टभिर्दोषः रहितं यथा स्यात्तथा अधीतम् अध्ययनं कर्तव्यम् । अध्ययनस्य केऽष्टविधा दोपा उच्यन्ते ज्ञानाचारस्वरूपवर्णनसमये तस्य अष्टो भेदाः प्रतिपादिता आगमे। तेषां सम्यक पालनं भवति न यदा तदा तावन्तो दोषा जायन्ते । तेषां नामानि-१ अकालपठनम्, २ अविनयः, ३ अवग्रहविशेषं विना पठनम्, ४ अबहुमानः, ५ निह्नवनम् ६ व्यञ्जनाशुद्धिः, ७ अर्थाशुद्धिः ७ उभयाशुद्धिश्व ॥९१४॥ स्वाध्यायस्वरूपमाह-अनुयोगेति-अनुयोगाश्चत्वारो वक्ष्यमाणाः । गुणस्थानानि 'चतुर्दश । मार्गणाश्चतुर्दश । स्थानानि जीवसमासाश्चतुर्दश । कर्मसु एतेषु विषयेषु पाठः स्वाध्यायः उच्यते । तथा अध्यात्मतत्त्वविद्यायाः अध्यात्मविद्या निश्चयनयेन जीवस्य यत् शुद्धावस्थावर्णनम् तस्याः, तत्त्वविद्यायाः जीवादिसप्ततत्त्वानां च यज्ज्ञानं सा तत्त्वविद्या अनयोविद्ययोः पाठः हितरूपम् अध्ययनं स स्वाध्याय उच्यते ॥९१५॥ प्रथमानुयोगस्वरूपमाह-गृहीति-धर्मधी: धर्मे क्षमादिदशलक्षणे धीः यस्य सः । गही यतः यस्मात् स्वसिद्धान्तं जिनधर्मसिद्धान्तं साधु सम्यक् बुध्येत जानीयात् सः अनुयोगः प्रथमाभिख्यः प्रथमानुयोगः । (प्रश्नोत्तरम् अनुयोगं वदन्ति ) कथंभूतः प्रथमानुयोगः पुराणचरिताश्रयः पुराणं पुराभवम् अष्टाभिधेयं त्रिषष्टिशलाकापुरुषकथाशास्त्रम् । लोकदेशपुरराज्यतीर्थदानैः सह तपोद्वयस्य प्रतिपादकत्वात् अष्टाभिधेयम् । चरितम् एकपुरुषाश्रिता कथा । पुराणचरितानाम् आश्रयः आधारभूतः ॥९१६॥ करणानुयोगमाह-अधोमध्योर्ध्वलोकेविति-अधोलोके रत्नप्रभादयः सप्त पृथिव्यः सन्ति । मध्यलोकः असंख्यातद्वीपसमुद्राश्रयः । ऊर्ध्वलोक: स्वर्गलोकः सिद्धलोकोपेतः । एषु त्रिपु लोकेषु चतुर्गतिविचारणं चतसृणां गतीनां नारकतिर्यग्नरदेवाभिधानानां विचारणं सविस्तरप्रतिपादनम्, करणं शास्त्रम् इत्याहुः करणानुयोगमाहुरित्यर्थः । अनुयोगः परीक्षणं प्रश्नोत्तरपरीक्षणम् ।।९१७॥ चरणानुयोगस्वरूपमाह-ममेदमिति-मम इदम् अनुष्ठानम् अणुव्रतात्मकं महाव्रतात्मकं वा आचरणम् । तस्य अयं रक्षणक्रमः अतिचारादिभ्योऽवनं भावनाभिश्च संवर्धनम् इत्यम् एवंविधम् आत्मा स्वरूपं यस्य स चरित्रार्थ: अनुयोगः चरित्रम् अर्थः प्रयोजनं यस्य स चरणानुयोगः । चरणाश्रितो चारित्राधारो. ऽवबोद्धव्यः ॥९१८॥ द्रव्यानुयोगमाह-जीवाजीवेति-द्रव्यानु योगतः द्रव्यानुयोगशास्त्रात् किं फलं लभ्यते श्रावकणेति आह--जीवाजीवपरिज्ञानं जीवस्य अजीवस्य च धर्माधर्माकाशकालपुद्गलानां च परिज्ञानं बोधो भवति । धर्माधर्मावबोधनं पुण्यापुण्ययोः ज्ञानम् । बन्धमोक्षज्ञता आत्मकर्मणोरन्योन्यसंश्लेषलक्षणो बन्धः । बन्ध