________________
-पृ० ३०० ] उपासकाभ्ययनटोका
४६७ कालुष्यकारणोलत्तावर कोपाभावः । शक्तिः-स्वल्पवित्तस्य स्वाढ्याश्चर्यकारिदानप्रवृत्त्यङ्गम् ॥७७८॥ तत्र विज्ञानस्येदं लक्षणम्-विवणमिति-मुनिभ्यः तदन्नं न देयम् । कीदशं तद् यच्च भुक्तं भक्षितं गदावह रोगोत्पादकम् । पुनः कथंभूतम् अन्नं न देयम् । विवर्ण कान्तिरहितम् । विरसं स्वादरहितम् । विद्धं कीटाधुपद्रुतम् । असात्म्यम्-यस्य प्रकृतेः पानाहारादयः विरुद्धा अपि सुखित्वाय कल्प्यन्ते तत्सात्म्यम् । प्रकृतिविरुद्धाहारपानादयः भक्षिताः सन्तः सुखित्वाय नावकल्प्यन्ते तदसात्म्यमित्युक्तम् । प्रमृतम् अतिजीर्ण एतादृक् सदोषमन्नं मुनिभ्यो न देयम् ॥७७९॥ उच्छिष्टमिति-भुक्त्वावशिष्टम् । नीचलोकाईम्-नीचा. श्चाण्डालादयस्तद्योग्यम् । अन्योद्दिष्टम् देवतायाचकपाखण्डाधुद्दिष्टम् । विहितं निन्द्यम् । दुर्जनस्पृष्टम् दुर्जनः चाण्डालादिभिः स्पृष्टं सर्शितम् । देवतायक्षाद्यर्थं कल्पितं निर्मितम् ॥७८०॥ ग्रामान्तरादितिअन्यस्माद् ग्रामात् आनीतम् । मन्त्रानोतम्-पठितसिद्धमन्त्रेण आनीतम् । उपायनम् उपहारीकृतम् अन्नम् । आपणक्रीतम् कान्दविकादिकृतम् अन्नं यत्तस्मात् क्रीत्वानीतम् । विरुद्धं पात्रप्रकृतिविरुद्धम् । अयथर्तुकम् यस्मिन् ऋतौ यदनुकूलम् अन्नं तद्ययतुकम् । तथा यन्न तत् अयथर्तुकम् । ऋत्वननुकूलम् ॥७८१॥ दधिसर्पिषयोरितियद्दध्ना सर्पिषा च रन्धितं तदन्नं भक्ष्यप्रायं पर्युषितं मतम् । यत् गन्धवर्णरसभ्रष्टं अन्यत् सर्वं विनिन्दितम् अन्नं न देयम् ॥७८२॥ मुनीनां वैयावृत्त्यं विदध्यादिति वर्णयति-बालग्लानेति-बालो मुनिः वयसा लघुः । ग्लानः रोगपीडितः । तपःक्षीणः तपसा अनशनादिना क्षीणः कृशः । वृद्धः जरया ग्रस्तः । व्याधिसमन्वितः रोगेण बहकालं कथितः। एतान् मुनीन् नित्यमुपचरेत् आहारोषधादिना सेवेत । यथा ते तपःक्षमाः स्युः तपः अनशनादिकं कर्तुं समर्थाः स्युः ॥७८३॥ भोजनक्षणे परिहार्यान् दोषान् व्याचष्टे-शाठ्यमितिशाठ्यं कपट वक्रताम् । गर्व कुलमदादिकम्, अवज्ञानम् अवमाननम्, निरादरताम्, पारिप्लवं चञ्चलताम् । असंयमम् अजितेन्द्रियताम् । वाक्पारुष्यम-वाच: भाषणस्य पारुष्यं कठोरताम् तव मस्तकं कृणोमि इत्यादिरूपं वचनम् । एतान् दोषान् भोजनक्षणे मुन्याहारवेलायां वर्जयेत् दाता ॥७८४॥
[पृष्ठ २९८-३०० ] कुत्र मुनिन भुजोतेति निगदति-अभक्तानामिति-अभक्तानां ये जनमुनिभक्ताः न सन्ति, ये च कदर्याः कृपणाः तथा ये अवता: व्रतरहिताः सन्ति तेषां सद्मसु गेहेषु न भुञ्जीत न भोजनं कुर्वीत । कः साधः मनिः। तथा दैन्यकारुण्यकारिणां येजनाः निज दैन्यं दर्शयन्ति अथवाऽयं मनिर्दीनो ऽस्य भोजनं दीयताम् इति ये बदन्ति तेषां सपनि न भुञ्जीत । ये च मुनिविषये कारुण्यं दर्शयन्ति तेषां गहेऽपि मुनिः नाहारं गृह्णीयात् ॥७८५।। किमर्थं दैन्यकारिणां गृहे न भुजीरन् मुनयः इति वर्णयति-नाहरन्तीतिमहासत्त्वाः धैर्यशालिनः मुनयः । चित्तेनापि केनापि अनुकम्पिता: 'इमे मुनयः दयापात्रं येषामुपरि दयां विधाय आहारो देय इति' इति मनसाऽपि संकल्पितास्तस्य गृहे ते नाहरन्ति न भुञ्जते । किं तु तेऽदैन्यकारुण्यसंकल्पो. चितवृत्तयः अहम् अदीन: जिनवत् इति संकल्पेन प्रवर्तन्ते । अहं प्राणिषु करुणाक्रान्तचेताः कथमिमे सर्वज्ञप्रतिपादितमोक्षमार्गे प्रवर्तेरन् इति संकल्पार्हस्वभावाः सन्ति ॥ ७८६ ॥ कुत्र प्रतिहस्तं दिशेदिति व्याचष्टेधर्मेष्विति-धर्मेषु स्वाध्यायादिषट्कर्मसु । स्वामिसेवायां प्रभोः सेवायाम् । सुतोत्पत्तौ च पुत्रजननकार्ये च । कः सुधीर्बुद्धिमान् प्रतिहस्तम् अन्यपुरुषं समादिशेत् युङ्ग्यात् । एतानि कार्याणि सुधीः स्वयमेव कुर्यात् अन्यत्र कार्यदैवाभ्यां कार्य प्रेषणम्, देवं यत्किमपि इष्टम् अनिष्टं वा दैवं करोति तत्र स्वहस्तात् किमपि न कतुं शक्नोति अतस्तत्र स्वहस्तनियमो नास्ति ॥७८७॥ आत्मेति-आत्मनः स्वस्य वित्तपरित्यागेन धनव्ययेन परैः अन्यधर्मविधापने धर्मसंपादने । अन्यनरैः दानपूजाभिषेकादिधर्मकार्य करणे निःसंशयं सः स्वस्य वित्तत्यागः विफलो भवति तस्य फलं वित्तत्यागवता न लभ्यते । परभोगाय तत्फलम् अवाप्नोति सः ॥७८८॥ स्वयं धर्मविधायिनः फलं निर्दिशति-भोज्यम् इति-यः स्वयं धर्म करोति तस्य धर्मकृतेः धर्मकार्यात् भोज्यम् इन्द्रियविषयः लभ्यते । तस्य भोजनशक्तिः इन्द्रियविषयभोगसामर्थ्य लभ्यते । वरस्त्रियः वराया रूपादिगुणः उत्तमायाः स्त्रियो युवस्याः रतिशक्तिः संभोगसामर्थ्यम् । विभवः ऐश्वर्यम् दानशक्तिश्च दानसामयं च लभ्यते ॥७८९॥ केषु' मुनिभिराहारग्रहणं वय॑ते-शिल्पिकारुकेत्यादि--शिल्पिनः मालाकारकुम्भकारचित्रकारादयः । कारुकवाचः निर्णेजकादयः । शम्फली परनारों पुंसा योजयित्री कुट्टनोत्यर्थः । पतितादयः मद्यमांससेवनात् जातिच्युतः पतितः।
६३