________________
४६६ पं० जिनदासविरचिता
[पृ०२१७काराय यत्स्यात् तद्दानमिष्यते ॥७६६॥ दातृपात्रेति-तत् दानम्, दातृविशेषात्, पात्रविशेषात्, विधिविशेषात्, द्रव्यविशेषात् विशिष्यते । यथा घनाघनोद्गीणं तोयं मेघव॒ष्टं जलम् । भूमिसमाश्रयं भूम्याषारं प्राप्य विशिष्यते तथा दानमपि दातृपात्रविध्यादिविशेषेण विशिष्टफलदं भवेत् ॥७६७॥ दात्रादीनां लक्षणान्याह-- दातेति-अनुरागसंपन्नः दाता पात्रगुणानुरक्तो दाता भवति । पात्रं रत्नत्रयगुणविशेषसंबन्धात्, सत्कारो नवधा विधिरुच्यते । द्रव्यम् अन्नादि । तत्तु स्वाध्यायतपःसाधकं भवेत् ॥७६८॥ वित्तव्ययस्य प्रकारान् ब्रूतेकश्चिद्दाता परलोकधिया अनेन वित्तव्ययेन अन्नादित्यागेन मे परलोकः स्वर्गादिर्लम्येत इति मन्यते । कश्चिहाता ऐहिककीर्तिलोकादरादिप्राप्तिम भूयादिति वाञ्छया वित्तव्ययं करोति । क्रश्चिच्च औचित्यमनसा वित्तव्ययं करोति । दानप्रियवचनाभ्याम् अन्यस्य सन्तोषोत्पादनम् औचित्यं तेन युक्तेन मनसा अभिप्रायेण वित्तव्ययं करोति । इति सतां सज्जनानां दातणां वित्तव्ययः घनवितरणं विधा त्रिप्रकारं भवति ॥७६९॥ परलोकैहिकौचित्येष्वस्तीति-येषां धीः बुद्धिः परलोके ऐहिके औचित्ये च समा नास्ति । कदाचित् प्रवर्तते कदाचिन्नेति वैषम्यं येषां धियां वर्तते तेषां धर्मः, ऐहिक सुखादिकं यशश्चेति एतत्त्रयं कुतः स्यात् । एतत्त्रयं तैर्दातृभिन लभ्यते, तेषां वित्तव्ययो विफल एव भवेत् ॥७७०॥ दानचातुर्विध्यमाह--अभयेतिमनीषिभिः विद्वद्भिः। चतुविधं चतुःप्रकारं दानं प्रोक्तम् । अभयेति-अभयदानम्, आहारदानम्, औषधदानम्, श्रुतदानम्-ज्ञानदानमिति । एतत् चतुर्विधं दानं भक्तिशक्तिसमाश्रयं भक्त्याधारम्, शक्त्याधारं च । यदि धनं समीपे न स्यात् तर्हि एतद्दानं दातुकामोऽपि न दातुं शक्नोति । शक्तिरस्ति तथापि भक्त्यभावे न दातुमिच्छति । यस्य समीपे एतवयं वर्तते स चतुर्विधमेतद्दानं पात्रेभ्यो ददातु ॥ ७७१ ॥ चतुर्विधदानानां फलचातुर्विध्यं वदति-सौरूप्यमभयादिति-अभयात् भीतस्य नरस्य अभयदानात् दाता सौरूप्यं सौन्दर्य प्राप्नोति । आहारदानात् भोगवान् भवति दाता। औषधदानात् आरोग्यं दातुर्भवति । श्रुतात् शास्त्रदानात् दाता श्रुतकेवली स्यात् ।।७७२।। अभयदानं प्रथमं देयमिति वर्णयति-अभयम् इति-सुधी: शुभमतिः श्रावकः । सर्वसत्त्वानां प्राणिनां आदी प्रथमं सदा अभयं दद्यात् । तद्धीने अभये अदत्ते सर्वः परलोकोचितः विधिः देवपूजादिकं षट्कर्माचरणं वृथा भवेत् । जीवितरक्षणम् अभयात् भवति तच्चेत् न रक्ष्यते परलोकोचिताः क्रियाः को विदध्यात् ॥७७३॥ अभयदानं सर्वेषाम् उत्तममिति निगदति-दानमिति-अन्यदाहारादिकं दानं भवेन्मा वा भवतु न वैति । नरश्चेद्यदि अभयप्रदः अभयदानं यदि स ददाति तेन ॥७७४॥ तेनेति-यः अभयदानवान्-यः नरः अभयं दत्वा प्राणिनो निर्भयान् करोति, तेन सर्व श्रुतम् अधीतं सकलं द्वादशाङ्गज्ञानं पठितम् । तेन परं तपः तप्तम् उत्तमं तपः सेवितम् । तेन कृत्स्नं दानं कृतम् आहारोषधशास्त्रदानानि दत्तानीति मन्ये ॥७७५॥ दातुर्लक्षणमाह-नवेति-नव च ते उपचाराश्च नवविधयः पात्रस्य नवादरप्रकाराः तः संपन्नः युक्तः । सप्तभिर्गुणैः समेतः सहितः दाता चतुर्विधैः अन्नं पानं खाद्यं लेह्यमिति आहारचातुर्विध्यं तत्र ओदनादिकमन्नम् । जलादिकं पेयम् । अपूपपूरिकामोदकादिकं खाद्यम् । दाडिमादिफलानि झरेय्यादिकं लेह्यमिति । तैः शुद्धः अस्पृश्यजनादूषितैः स्वयं स्नानादिशुद्धेन दात्रा विहितैः अन्नः आहारः साधूनां स्थिति कल्पयेत् भोजनविर्षि कल्पयेत् कुर्यात् ॥७७६॥ नवोपचारानाह-प्रतिग्रहेति-गृहसंश्रितेन गृहनिरतेन श्रावकेण मुनीनां नवोपचाराः यथायोग्य-भुक्त्युपचाराः कार्याः विधेयाः । तान् प्रतिग्रहत्याह-प्रतिग्रहः स्वगृहद्वारे यतिं दृष्ट्वा प्रसादं कुरुतेत्यभ्यर्थ्य नमोऽस्तु तिष्ठत इति विर्भणित्वा स्वीकरणम् । उच्चासनम्स्वगृहान्तः स्वीकृतयति नीत्वा निरवद्यानुपहतस्थाने उच्चासने निवेशनम् । पादपूजा पादयोः क्षालनम्, पूजा च गन्धाक्षतादिभिः। प्रणामः पूजितसंयतस्य पञ्चाङ्गप्रणामकरणम् । वाक्कायमनःप्रसादाः वाण्याः शरीरस्य मनसश्च प्रसन्नता। तत्र परुषकर्कशादिवचोवर्जनं वाक्शुद्धिः, सर्वत्र संवृताचारतया प्रवर्तनं कायशुद्धिः । भातरौद्रवर्जनं मनःशुद्धिः। विधाविशुद्धिः चतुर्दशमलरहितस्य आहारस्य यतन याशोषितस्य हस्तपुटेऽर्पणम् ॥७७७॥ दातुर्गुणानाह-श्रद्धेति-श्रद्धेत्यादि सप्तगुणा यत्र यस्मिन् दातरि सन्ति तं दातारं सूरयः प्रशंसन्ति । के ते सप्तगुणाः । आह-श्रद्धा, तुष्टिः, भक्तिः, विज्ञानम्, अलुब्धता, क्षमा, शक्तिः । श्रद्धा-पात्रगुणानुरागः। विज्ञानम्-द्रव्यक्षेत्रकालादिवेदित्वम् । अलुब्धता-सांसारिकफलानपेक्षा । क्षमा-दुनिवार