________________
-पृ०२७] उपासकाम्ययनटीका
४६५ सुवर्ण शुद्धं जायते ॥७५७॥ हस्ते इति-सुकृतिजन्मनः सुष्टु कृतिः सत्कार्य पुण्यं तेन युतं जन्म यस्य स सुकृतिजन्मा तस्य पुण्यवतो । यस्य नरस्य चित्तं चारित्रः पवित्रं पूतम् । तस्य हस्ते दुःखमेव द्रुमो बृक्षः तस्य दावानल: वनाग्निरिव चिन्तामणिः विद्यते इति ज्ञातव्यम् ॥७५८ ।
इस्यपासकाध्ययने प्रोषधोपवासविधिर्नामेकचत्वारिंशत्तमः कल्पः ॥४१॥
४२. भोगपरिभोगपरिमाणविधिर्नाम द्विचत्वारिंशत्तमः कल्पः । [पृष्ठ २६१-२६२ ] भोगपरिभोगयोर्लक्षणमाह--यः सकृदिति-य: भोजनादिक: भोजनपुष्पगन्धादिक: भावः पदार्थः । सकृत् सेव्यते भुज्यते स भोगः । पौन:पुन्येन वारम्बार सेवनात् भूषादि अलङ्कारस्त्रीवस्त्रादिकं परिभोगः स्याद्भवेत्।।७५९॥ परिमाणं तयोः भोगपरिभोगयोः इयन्तं कालं दिवसपक्षमासादिकालं यावत् अथवा इयत्संख्योपेतयोः परिमाणं कुर्याच्छावकः, किमर्थम् । चित्तेति-चित्तस्य मनसः व्याप्तिरधिकाधिकसंग्रहाशा तस्या निवृत्तये व्यपोहाय । प्राप्ते भोगोपभोगवस्तुनिवहे लब्धे योग्ये च सेवितुमर्हे च सर्वस्मिन् इच्छया इच्छापरिमाणं कृत्वा नियमं भजेत् आश्रयेत् । अद्याहं एतावन्ती एव भोगपरिभोगौ भुजे। इति नियमम् अवलम्बेत ॥७६०॥ यमनियमयोलक्षणमाह-त्याज्ये वस्तुनि इच्छाकृशीकरणाय यमश्च नियमश्च स्मृते निगदिते भवतः । यमो यावज्जीवम आमरणं ज्ञेयः ज्ञातव्यः । सावधिः एकद्वियादिसंख्यापरिच्छिन्नदिवसमासादिसमयः नियम स्मृतः ॥७६१॥ आजन्मत्याज्यान्याह-पला -पलाण्डुः सुकन्दकः, केतकी केतकनामधेया वनस्पतिः निम्बसुमनांसि प्रसिद्धानि निम्बकुसुमानि । सूरणः तन्नामा कन्दविशेष: अर्शोघ्न इत्यपरं तस्य नाम । आदिशब्देन अर्जुनारणिशिग्रुपुष्पमधूकबिल्वफलादिकं त्याज्यम् । तथा बहुघातविषयं गुडुचीमूलकलशुनाशृङ्गबेरादिकं त्याज्यम् । एतानि वस्तूनि तद्रूपधारिबहुप्राणिसमाश्रयाणि विद्यन्ते । अत: आजन्म एषां त्यागः कार्यः ॥७६२॥ भोयोपभोगपरिमाणवतनाशकानां त्यागः करणीय इत्युपदिशति-दुष्पक्कस्येति-दुष्पक्वस्य सान्तस्तण्डुल. भावेन अतिक्लेदनेन वा दुष्टपक्वस्य मन्दपक्वस्य वा अन्नस्य प्राशः भक्षणं तत्क्षतिकारणं भोगपरिभोगपरिमाणव्रतनाशकारणम्। निषिद्धस्य पूर्वश्लोकोक्तपलाण्ड्वादीनाम् आहारस्य प्राशः भक्षणं व्रतविनाशकम् । जन्तुसंबन्धमिश्रयोः जन्तुना संबन्धस्य सचित्तस्य सचेतनबीजादिसहितस्य । संबद्धस्य पक्वफलादेर्भक्षणम् । तेन सचित्तेन सम्मिश्र पथक्क मशक्यम् आद्रकदाडिमबीजमिश्रं तिलमिश्रं च यद्यवधानादिकं तस्य प्राशो भक्षणम एतदव्रतनाशकम् । अवीक्षितस्य अनालोकितफलादेर्भक्षणम् एतद्वतविनाशकरम् ॥७६३।। एतद्वतस्य निरतोचारस्य पालनात्सातिशयफलमाह-इत्थमिति-इत्थम् उक्तप्रकारेण नियतवृत्ति : भोगपरिभोगप्रमाणं कुर्वाणः । अनिच्छोऽपि अभिलाषम् अकुर्वन्नपि । नरः नरेषु देवेषु च श्रियः चक्रवादिविभवस्य आश्रय आवासो भवेत । स च मुक्तिश्रियः समोपे आगमनं यस्य तथाभूतो भवेत् ॥७६४।।
इत्यपासकाध्ययने भोगपरिमोगपरिमाणविधिर्नाम द्विचत्वारिंशत्तमः कल्पः ॥४२॥
४३. दानविधिर्नाम त्रिचत्वारिंशत्तमः कल्पः । [पृष्ठ २९३-२९७ ] अधुना दानविधिविस्तरेण वर्ण्यते-यथाविधीति–प्रतिग्रहादिनवविधिमनतिक्रम्य, यथादेशं जाङ्गलानूपादिदेशमनुसृत्य । यथाद्रव्यं शुद्धान्नजलादिकमनुसृत्य । यथागमम् आगमोक्तदानस्वरूपमनतिक्रम्य । यथापात्रं पात्राण्यनतिक्रम्य । यथाकालं शीतोष्णादिककालमनतिक्रम्य । गृहाश्रमः गृहस्थश्रावकः दानं देयम् ॥ ७६५ ॥ दानलक्षणमाह-आत्मन इति-आत्मनः श्रेयसे दातुः स्वस्य हिताय । अन्येषां रत्नत्रयसमृदये अन्येषां सत्पात्राणां रत्नत्रयस्य वृद्धिर्भवत्विति हेतोः। इत्थं स्वपरानुग्रहाय स्वान्योप