Book Title: Upasakadhyayan
Author(s): Somdevsuri, Kailashchandra Shastri
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 619
________________ -पृ० ३०० ] उपासकाभ्ययनटोका ४६७ कालुष्यकारणोलत्तावर कोपाभावः । शक्तिः-स्वल्पवित्तस्य स्वाढ्याश्चर्यकारिदानप्रवृत्त्यङ्गम् ॥७७८॥ तत्र विज्ञानस्येदं लक्षणम्-विवणमिति-मुनिभ्यः तदन्नं न देयम् । कीदशं तद् यच्च भुक्तं भक्षितं गदावह रोगोत्पादकम् । पुनः कथंभूतम् अन्नं न देयम् । विवर्ण कान्तिरहितम् । विरसं स्वादरहितम् । विद्धं कीटाधुपद्रुतम् । असात्म्यम्-यस्य प्रकृतेः पानाहारादयः विरुद्धा अपि सुखित्वाय कल्प्यन्ते तत्सात्म्यम् । प्रकृतिविरुद्धाहारपानादयः भक्षिताः सन्तः सुखित्वाय नावकल्प्यन्ते तदसात्म्यमित्युक्तम् । प्रमृतम् अतिजीर्ण एतादृक् सदोषमन्नं मुनिभ्यो न देयम् ॥७७९॥ उच्छिष्टमिति-भुक्त्वावशिष्टम् । नीचलोकाईम्-नीचा. श्चाण्डालादयस्तद्योग्यम् । अन्योद्दिष्टम् देवतायाचकपाखण्डाधुद्दिष्टम् । विहितं निन्द्यम् । दुर्जनस्पृष्टम् दुर्जनः चाण्डालादिभिः स्पृष्टं सर्शितम् । देवतायक्षाद्यर्थं कल्पितं निर्मितम् ॥७८०॥ ग्रामान्तरादितिअन्यस्माद् ग्रामात् आनीतम् । मन्त्रानोतम्-पठितसिद्धमन्त्रेण आनीतम् । उपायनम् उपहारीकृतम् अन्नम् । आपणक्रीतम् कान्दविकादिकृतम् अन्नं यत्तस्मात् क्रीत्वानीतम् । विरुद्धं पात्रप्रकृतिविरुद्धम् । अयथर्तुकम् यस्मिन् ऋतौ यदनुकूलम् अन्नं तद्ययतुकम् । तथा यन्न तत् अयथर्तुकम् । ऋत्वननुकूलम् ॥७८१॥ दधिसर्पिषयोरितियद्दध्ना सर्पिषा च रन्धितं तदन्नं भक्ष्यप्रायं पर्युषितं मतम् । यत् गन्धवर्णरसभ्रष्टं अन्यत् सर्वं विनिन्दितम् अन्नं न देयम् ॥७८२॥ मुनीनां वैयावृत्त्यं विदध्यादिति वर्णयति-बालग्लानेति-बालो मुनिः वयसा लघुः । ग्लानः रोगपीडितः । तपःक्षीणः तपसा अनशनादिना क्षीणः कृशः । वृद्धः जरया ग्रस्तः । व्याधिसमन्वितः रोगेण बहकालं कथितः। एतान् मुनीन् नित्यमुपचरेत् आहारोषधादिना सेवेत । यथा ते तपःक्षमाः स्युः तपः अनशनादिकं कर्तुं समर्थाः स्युः ॥७८३॥ भोजनक्षणे परिहार्यान् दोषान् व्याचष्टे-शाठ्यमितिशाठ्यं कपट वक्रताम् । गर्व कुलमदादिकम्, अवज्ञानम् अवमाननम्, निरादरताम्, पारिप्लवं चञ्चलताम् । असंयमम् अजितेन्द्रियताम् । वाक्पारुष्यम-वाच: भाषणस्य पारुष्यं कठोरताम् तव मस्तकं कृणोमि इत्यादिरूपं वचनम् । एतान् दोषान् भोजनक्षणे मुन्याहारवेलायां वर्जयेत् दाता ॥७८४॥ [पृष्ठ २९८-३०० ] कुत्र मुनिन भुजोतेति निगदति-अभक्तानामिति-अभक्तानां ये जनमुनिभक्ताः न सन्ति, ये च कदर्याः कृपणाः तथा ये अवता: व्रतरहिताः सन्ति तेषां सद्मसु गेहेषु न भुञ्जीत न भोजनं कुर्वीत । कः साधः मनिः। तथा दैन्यकारुण्यकारिणां येजनाः निज दैन्यं दर्शयन्ति अथवाऽयं मनिर्दीनो ऽस्य भोजनं दीयताम् इति ये बदन्ति तेषां सपनि न भुञ्जीत । ये च मुनिविषये कारुण्यं दर्शयन्ति तेषां गहेऽपि मुनिः नाहारं गृह्णीयात् ॥७८५।। किमर्थं दैन्यकारिणां गृहे न भुजीरन् मुनयः इति वर्णयति-नाहरन्तीतिमहासत्त्वाः धैर्यशालिनः मुनयः । चित्तेनापि केनापि अनुकम्पिता: 'इमे मुनयः दयापात्रं येषामुपरि दयां विधाय आहारो देय इति' इति मनसाऽपि संकल्पितास्तस्य गृहे ते नाहरन्ति न भुञ्जते । किं तु तेऽदैन्यकारुण्यसंकल्पो. चितवृत्तयः अहम् अदीन: जिनवत् इति संकल्पेन प्रवर्तन्ते । अहं प्राणिषु करुणाक्रान्तचेताः कथमिमे सर्वज्ञप्रतिपादितमोक्षमार्गे प्रवर्तेरन् इति संकल्पार्हस्वभावाः सन्ति ॥ ७८६ ॥ कुत्र प्रतिहस्तं दिशेदिति व्याचष्टेधर्मेष्विति-धर्मेषु स्वाध्यायादिषट्कर्मसु । स्वामिसेवायां प्रभोः सेवायाम् । सुतोत्पत्तौ च पुत्रजननकार्ये च । कः सुधीर्बुद्धिमान् प्रतिहस्तम् अन्यपुरुषं समादिशेत् युङ्ग्यात् । एतानि कार्याणि सुधीः स्वयमेव कुर्यात् अन्यत्र कार्यदैवाभ्यां कार्य प्रेषणम्, देवं यत्किमपि इष्टम् अनिष्टं वा दैवं करोति तत्र स्वहस्तात् किमपि न कतुं शक्नोति अतस्तत्र स्वहस्तनियमो नास्ति ॥७८७॥ आत्मेति-आत्मनः स्वस्य वित्तपरित्यागेन धनव्ययेन परैः अन्यधर्मविधापने धर्मसंपादने । अन्यनरैः दानपूजाभिषेकादिधर्मकार्य करणे निःसंशयं सः स्वस्य वित्तत्यागः विफलो भवति तस्य फलं वित्तत्यागवता न लभ्यते । परभोगाय तत्फलम् अवाप्नोति सः ॥७८८॥ स्वयं धर्मविधायिनः फलं निर्दिशति-भोज्यम् इति-यः स्वयं धर्म करोति तस्य धर्मकृतेः धर्मकार्यात् भोज्यम् इन्द्रियविषयः लभ्यते । तस्य भोजनशक्तिः इन्द्रियविषयभोगसामर्थ्य लभ्यते । वरस्त्रियः वराया रूपादिगुणः उत्तमायाः स्त्रियो युवस्याः रतिशक्तिः संभोगसामर्थ्यम् । विभवः ऐश्वर्यम् दानशक्तिश्च दानसामयं च लभ्यते ॥७८९॥ केषु' मुनिभिराहारग्रहणं वय॑ते-शिल्पिकारुकेत्यादि--शिल्पिनः मालाकारकुम्भकारचित्रकारादयः । कारुकवाचः निर्णेजकादयः । शम्फली परनारों पुंसा योजयित्री कुट्टनोत्यर्थः । पतितादयः मद्यमांससेवनात् जातिच्युतः पतितः। ६३

Loading...

Page Navigation
1 ... 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664