Book Title: Upasakadhyayan
Author(s): Somdevsuri, Kailashchandra Shastri
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 628
________________ ५०६ पं० जिनदासविरचिता [पृ. ३२१ 'शिखाछेदिनं' प्राहुः न तु मुण्डितमस्तकम् मुण्डितं मस्तकं येन सः मुण्डितमस्तकः तं न ब्रुवन्ति । केवलं केशलोचं करोति परम् अनाचारेण प्रवर्तते स मुण्डितमस्तकोऽपि न मनिः । मिथ्यात्वाविरतिप्रमादकषायान् यश्छिनत्ति स एवान्वर्थो मुनिः शिखाच्छेदीत्युच्यते ॥८७५॥ मुनि हंसमाह-कर्मत्यादिक्षीरनीरसमानयोः यथा क्षीरनीरयोः संयोगे इदं क्षीरम् इदं दुग्धम् इति विवेक्तुं नान्यो जनः समर्थः हंसं विना । स तु नीरमिश्रितं क्षीरं नीरं मुक्त्वैव पिबति । यदा स हंसः नीरमिश्रिते क्षीरे निजां चञ्चुं प्रवेशयति तदा क्षीरं पीत्वा नीरमेवावशेषयति । तथैव मनिरपि क्षीरनीरसमानयोः कर्मात्मनोः विवेक्ता भवति । आत्मनः सकाशात् कर्माणि पृथक् करोति अत एव स परमहंसो भवति । स परमहंसः अग्निवत्सर्वभक्षकः नास्ति । जैनसाधुः श्रावकगृहे अभक्ष्यवय॑म् आहारं करोति आहारदोषांस्त्यवत्वा । अग्निस्तु सर्व शमशुद्ध वा भक्षयति । न तस्य विवेकोऽस्ति ॥८७६॥ मुनेस्तपस्वित्वं व्यनक्ति-ज्ञानरिति-यस्य ज्ञानमन: नित्यं प्रदीप्तं किट्टकालिकादिदोषरहितं सुवर्णमिव तेजस्वि-निर्मलमभवत् । यस्य वपुः वृत्तः त्रयोदशविधः गप्तिसमितिमहाव्रतरूपैश्चारित्रैः नित्यं प्रदीप्तम् अभवत् । नियमैः नानाविधैः सेव्यपदार्थत्यागः इन्द्रियाणि यस्य नित्यं दीप्तानि स तपस्वोत्युच्यते न वेषवान, केवलं नग्न: पिच्छिकाकमण्डलसहितः तपस्वी नोच्यते । ॥८७७॥ मुनेरतिथित्वं व्यनक्ति–पञ्चेन्द्रियेत्यादि-याः पञ्चेन्द्रियाणां स्पर्शादिविषयेषु प्रवृत्तयः ता एव पञ्च तिथयः नन्दा, भद्रा, रिक्तादयः, ताः संसारे भवे अश्रेयोहेतुत्वात् अकल्याणकारणत्वात् ताभिर्मुक्तो अतिथिर्भवेत् ।।८७८॥ मुनेर्दीक्षितत्वं प्रतिपादयति-अद्रोह इति-सर्वसत्त्वे सकलजीवेषु अद्रोहः अद्वेषः स एव यस्य यज्ञः इज्यते हविरत्र इति यज्ञः स यस्य दिने दिने वर्तते स पुमान् यतिः दीक्षितात्मा न तू अजादियमाशयः दीक्षितो ज्ञेयः अजाश्वादिषु यमाशयः यमवत् आशयो मारणाभिप्रायो यस्य स पुरुषः दीक्षितो न ज्ञेयः । दीक्षा संजाता अस्येति दीक्षितः । स व्रती न सोमपानवति अध्वरे यजमान: सन्दीक्षित उच्यते ॥८७९॥ श्रोत्रियत्वं मुनेः कथयति-दुष्कर्माणि दुष्टानि हिंसासत्यचौर्यादिपापकार्याणि तान्येव दुर्जनाः चाण्डालशबरनाहलादयः तान् न स्पृशतीति दुष्कर्मदुर्जनास्पर्शी। पुनः कथंभूतः । सर्वेति-सर्वेषां सत्त्वानां प्राणिनां हिते कुशले आशयोऽभिप्रायो यस्य स पुमान् श्रोत्रियः वेदाध्येतृब्राह्मणः । न तु यः बाह्यशौचवान् बाह्यं स्नानेन शौचं मन्वानः न स श्रोत्रियः ।।८८०॥ मुने)तृत्वं निर्दिशति-अध्यात्मेति-अध्यात्माग्नौ मात्मनि अधिकृत्य वर्तते इति अध्यात्म स एवाग्निः तत्र दयारूपैर्ह विप्रक्षेपणप्रतिपादनपरमन्त्रः सम्यककर्मसमिच्चयं सम्यक्तया सावधानो भूत्वा कर्माणि ज्ञानाद्यावरणानि एव समिधः होमे समर्पणीयानि पलाशादिकाष्ठतुल्यानि तेषां चयं समूहं यः जुहोति अध्यात्माग्नी प्रक्षिपति, स होता स्यात् होमकर्ता भवेत् । परं यः बाह्याग्निसमेधक: बाह्याग्नी पलाशादिकाष्ठानि निक्षिप्य तस्य प्रवर्धकः भवति स अत्र होता न स्यात् । यः यतिः स्वानुभूत्यग्नो दयामन्त्रानुच्चार्य कर्मसमिच्चयं प्रक्षिपति प्राणिसमूहं होमे न प्रक्षिपति । प्राणिसमूह होमे क्षिपन्न सदयः किं तु निर्दय एव । अत्र स्वानुभूतिरूपे होमे कर्मणां ज्ञानाद्यावरणानां प्रक्षेपणात् आत्मा होता भवति इति ज्ञेयम् ।।८८१॥ मुनेर्यष्तृत्वं वक्ति-भावपुष्पैरिति-भक्तिकुसुमैः देवं यजेत् जिनं पूजयेत्, वा शुद्धचिदानन्दस्वरूपं निजात्मानं पूजयेत् । व्रतपुष्पैर्वपुर्गृहम्-व्रतान्येव पुष्पाणि तैः वपुरेव गृहं यजेत् पूजयेत् । क्षमापुष्पैः मनोवह्नि चित्तानलं पूजयेत् । स यष्टा यजनं कुर्वाणः, सतां सज्जनानां मान्यः पज्यो भवेत् ॥८८२॥ मुनिम् अध्वर्युमाचष्टे-षोडशानामिति-षोडशसंख्यानां भावनत्विजाम् दर्शनविशुद्धिविनयसम्पन्नतादिषोडशभावनानां तीर्थकरत्वप्राप्तिकारणानां पुरोहितानां यः उदारात्मा दातृसदशः महानात्मा मनिः, प्रभः स्वामी स शिवेति-शिवशर्म मोक्षसूखं तदेव अध्वरो यज्ञः तस्य उधरः श्रेष्ठः अध्वर्यः यज्ञसम्पादको बोद्धव्यः ज्ञातव्यः ॥८८३॥ वेदस्य स्वरूपमाह-विवेकमिति-यः शरीरशरीरिणोः शरीरं देहः शरीरी शरीरे निवसन्नात्मा। तयोः उभयोः विवेकं पार्थक्यं भिन्नलक्षणत्वम् उच्चैः नितरां निवेदयेत कथयेत् । सः वेदः विदुषां प्रीत्यै रुचये स्यात् । वेदः अखिलक्षयकारणं सकलप्राणिविनाशहेतुः स प्रोतिहेतुर्न भवति ।।८८४॥ का नाम त्रयोति प्रश्ने तदुत्तरमाह-जातिरिति--जातिर्जन्म, जरा वृद्धत्वम् मृतिः मरणम् एतत्त्रयो पुसां संसृतिकारणं भवहेतुः भवति । एषा त्रयो यतस्त्रय्याः यस्याः त्रय्याः सम्यग्दर्शनज्ञान

Loading...

Page Navigation
1 ... 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664