Book Title: Upasakadhyayan
Author(s): Somdevsuri, Kailashchandra Shastri
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 630
________________ पं० जिनदासविरचिता [पृ० ३२५ इह वृत्तं चारित्रं चारियपालनं गहनं कठिनं वर्तते । तत् तस्मात्कारणात् स्थास्नु चिरकालं स्थातुं योग्यं शरीरमिदं न विनाश्यं नाशयितुं न योग्यम् । यदा तु शरीरम् धर्मसाधनायालं समर्थ न भवति तदा सल्लेखनां विधाय देहत्याग उचितः । अन्यथा सल्लेखनाकरणम् आत्मघात समं स्यात् । यदा तु तच्छरीरं नश्वरम् पतनाभिमुखं भवति तदा न शोच्यम् । धैर्येण धर्मरक्षणार्थ सल्लेखना विधेया। अतः उक्तं चरितं गहनं न शरीरहानमिति ॥८९२॥ प्रतिदिवसमिति-दिवसं दिवसं प्रति प्रतिदिवसम्, अनुदिनम् । प्रत्यहम् । वपुः विजहबलं बलं सामर्थ्य विजहाति त्यजति यत् तत् शरीरं विजहबलम्। विनश्यत्सामर्थ्यम् इति भावः। उज्झद्भक्तिं उज्झति त्यजति भुक्तं भोजनं यत् तच्छरीरम् अगलदाहारम् । त्यजत्प्रतीकारं परिहरदक्षणोपायम् । एतदवस्थं वपुः शरीरं नृणां मनुजानां श्रावकाणां मुनीनां वा, चरमचरियोदयं चरमम् अन्त्यं चरित्रोदयं सल्लेखनोत्पत्तिरूपं समय कालं निगदति कथयति । एतदवस्थं यदा शरीरं भवति तदा सल्लेखना कार्येक्ति व्यक्तीकृतं सूरिणा ॥८९३॥ पापकृतेः सविधेव पापकार्यस्य संनिकटेव, पापकार्यस्य समीपमागतेव, जरा वृद्धावस्था। कोदशीसा जनिताखिलेति-जनित: उत्पादितः अखिलस्य सर्वस्य कायस्य देहस्य कम्पनातङ्कः वेपथुरोगो यया सा जरा यदि यमदूतीव यमस्य वार्ताहरेव समागता आगता तहि जीवितेषु प्राणेषु क: तर्पः का तृष्णा कोऽभिलाषः । तदा गृहस्थेन मुनिना निरभिलापेण भाव्यम् ॥८९४॥ कान्तेति-यदि चेत् जरया वृद्धावस्थया कर्णान्ते श्रवणयुगस्य समीपे केशपाशस्य ग्रहणस्य विधिः बोधितोऽपि प्रकटीकृतोऽपि ज्ञापितोऽपि मानवः, स्वस्य हितैषी न भवति निजहितेच्छां न कुरुते तहि मृत्युः तं कि न असते। न भक्षयति किम् अपि तु भक्षयत्येव ॥८९५।। उपवासादिभिरिति-उपवास: आहारकर्शनेन, स्निग्धपानपरिहापनेन, खरपानेन, तस्यापि हापनेन इत्यादिभिः अन्नहापनप्रकारः अङ्गे कृतसल्लेखनकर्मा शरीरे कृतं सल्सेखनकर्म येन सः सम्यक् शान्तेन मनसा लेखनम् उपवासादिभिः शरीरकर्शनं कायसल्लेखना, तत् सल्लेखनकर्म येन कृतं स कृतसल्लेखनकर्मा। कषायदोपे च क्रोधादिककपायदोपे च कृतसल्लेखनकर्मा सम्यककृशीकृतकपायकर्मा गणमध्ये चतुःसंघमध्ये प्रायाय यतेत । अनशनाय उपवासाय यतेत प्रयत्नं कुर्यात् आमरणं सावधिकं वा उपवासं कुर्यादिति ॥८९६।। यमनियमति-यम: आमरणं भोगोपभोगादित्यागः । नियमः परिमितकालं तयोस्त्यागः । स्वाध्यायः वाचना. पच्छनादिपञ्चविधः । तपांसि अनशनादिकं बाह्यं षडविधं तपः । प्रायश्चित्तादिकं षडविधम आभ्यन्तरं तपः । देवार्चनाविधिः देवस्य जिनप्रभोः पूजाभिषेकादिकम् । दानं विविधपात्रेभ्य आहारादिदानम् । एतत्सर्वं निष्फलं भवेत् । कदा चेत अवसाने मनः मलिनं स्यात् । मतिसमये चित्तम् आर्तरौद्रादिध्यानेन मलिनं कलुषितं स्यात् ॥८९७।। द्वादशेति-नृपः द्वादशवर्षाणि यावत् शस्त्राभ्यासं कृत्वा यदि रणेषु समरेपु स मुह्येत् प्रमाद्येत्। तर्हि तस्यास्त्रविधेः तस्य अस्त्रशिक्षणस्य किं स्यात् किं फलं भवेत् । तत्सर्वं विफलं भवेत् । तथा यते: पुराचरितं यमनियमस्वाध्यायादिकं सर्वं प्रागाचरितम् आचरणं विफलं भवेत् । अतोऽवसाने परिणामेषु नर्मल्येन भाव्यम् ।।८९८।। स्नेहं विहायेति-बन्धुपु ज्ञातिबान्धवेपु स्नेहं विहाय त्यक्त्वा । मोहं विभवेषु संपत्सु त्यक्त्वा अहिते कलुषतां द्वेषं विहाय त्यक्त्वा । गणिनि निर्यापकाचार्ये निखिलं सकलं दुरीहितं दुश्चेष्टितं निवेद्य कथयिस्वा । तदनु तदनन्तरम् उचितं विधि निर्यापकाचार्येण कथितम् उचितं योग्यं विधि सल्लेखनाचारविशेष भजतु आश्रयतु ॥८९९॥ सल्लेखनाचारविशेपं निगदति-अशनमिति-क्रमेण अशनम् अन्नं हेयं वर्जनीयम्। तदनन्तरं स्निग्धं पानं दुग्धादिकं विवयं तदपि हेयम् । ततः खरं पानं काञ्जिकादिकं शुद्धपानीयरूपं वा विवऱ्या तदपि हेयम् । तदनु सर्वनिवृत्ति सकलत्यागं चतुविधाहारत्यागम् उपवासम् अपि कुर्यात्, कथंभूतः सन् गरुपञ्चकस्मतो निरतः अर्हत्सिद्धाचार्योपाध्यायसाधनां पञ्चपरमेष्ठिनां नामस्मरणे निरतः तत्परः सन् ॥९००॥ कदलीघातवदिति-यथा परश्वादिना कदलीतहरेकप्रहारेणैवोन्मूल्यते तथा दुनिवाररोगशस्त्र प्रहारादिना सकुदेव अक्रमेण आयुषि जीविते विरतिम उपयाति विनाशोन्मुखतां गच्छति सति, केषां कृतिनां पुण्यवताम् । तत्र अकस्मात् आयुविरमणकाले एष सल्लेखनाविधिर्नास्ति 'आहारं त्यक्त्वा स्निग्धं विवर्धयेत, तदपि त्यक्त्वा खरपानं पूरयेत्' इत्यादिरूपः क्रमेणान्नादित्यागविधिर्नास्ति । तदेव ग्रन्थकृदेवमाह-यत् देवे प्रयत्नासाध्ये क्रमविधिः सल्लेखनाविषयोक्तः नास्ति । न भवति कदलीघातमरणे अहं चतुर्विधाहारं

Loading...

Page Navigation
1 ... 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664