Book Title: Upasakadhyayan
Author(s): Somdevsuri, Kailashchandra Shastri
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 636
________________ पं० जिनदासविरचिता [पृ० ३३६ - आधारो यस्य स यतीनां धर्मः श्रुतात् आचाराङ्गाज्ज्ञेयः ज्ञातव्यः ॥९४१।। इत्थमिति एवं पूर्वोक्तरीत्या । तदर्भकयुगाचरणप्रचारं तौ च तो अर्भको बालको च तदर्भको। तयोर्युगं युगलं तस्य आचरणस्य देशयत्याचारस्य क्षुल्लकक्षुल्लिकाचारस्य प्रचारो यत्र । एतादृशं मुनेः सुदत्ताचार्यात् द्वितयधर्मकथावतारं द्वितययोधर्मयोः कथाया अवतारो यत्र तं श्रत्वा, सा देवता चण्डमारोनामा। स नपतिः मारिदत्तः । स च पौरलोकः मारिदत्तनपतिप्रजाजनः। भवभाववृत्तेः भवो देवभवो मनुष्यभवश्च, भावः तत्तद्गतियोग्य भावाः परिणामाः तेषां वृत्तिः प्रवृत्ति : तस्या उचितं योग्यं धर्म जग्राह ग्रहणं चकार ।।९४२॥ मुनिकुमारयुगलमिति-अभयरुचिनामा क्षुल्लकः अभयमतिनाम्नी क्षल्लिकेति मुनिकुमारयुगलं प्रोक्तम् । तत्क्रमेण व्यतिक्रान्तबालकालं यापितकुमारकाल सत् चारित्रम् आचर्य प्रतिपाल्य, कथंभूतं तत् । सुधेति-सुधाशना देवाः तेषां वेश्म स्वर्गः स अधिरुह्यते येन तत् चारित्रं सुधाशनवेश्माधिरोहणम् । पुनः कथंभूतम् यतिविरतीत्यादि यतिर्मुनिः चिरतिरार्या तयोर्वेषी नग्नता, एकशाटकधारित्वं च । भाषितं भाषासमितिपालनम् । एतयोरनल्पा बहवो ये विकल्पा भेदाः स एव प्रासादः सोधः तदुपरि कलशारोपणमिव चारित्रम् अतिचिरं दीर्घकालम् आचर्य प्रतिपाल्य । ऐशानस्वर्गम् अवापदिति निवेदयति ग्रन्थकारः । तद्यथा-अभयरुचिरिति-स मुनिकुमारीऽभयरुचि: सानुजः अनुजा लघुभगिनी अभयमतिः तया सहितः । तत्र देवीवनरहसि देव्या वनं देवीवनं तन्नामकम् अरण्यं तस्य रहः विजनप्रदेशस्तत्र । प्रायम् उपवासं कृत्वा । ऐशानकल्पं द्वितीयस्वर्गम् अवापत प्राप्तः । मारदत्तोऽपि भूपः राजा धृतेति-धृतं पालितं यतिपतिवृत्तं मनीन्द्रचरणं येन स तथाभतः सन तथैव अभयरुचिरिव स्वर्गलक्ष्मीविलासं सरलोकरमासूखम अभजत प्राप्तः ।।९४३॥ रत्नद्वयेनेति-रत्नयोयं सम्यग्दर्शनसम्यग्ज्ञानयुगलमिति भावः तेन समलंकृतेति समलंकृता विभूषिता चित्तवृत्तिः मनोव्यापारो यस्याः । सा चण्डमारोति देवताऽपि गणिनो महं सुदत्ताचार्यस्य पूजाम् आरचय्य प्रविधाय । द्वीपान्तरेति--अन्ये द्वीपा: द्वीपान्तराणि धातकीपुष्करार्धनन्दीश्वरादयः । धुनगाश्च दिवो नाकस्य स्वर्गस्य नगाः पर्वता: पञ्चमेरवश्च तेषां जातं समहः तस्य यानि जिनेन्द्रसद्मानि जिनालयाः तान् वन्दते इति वन्दारुर्वन्दनशीला तस्या भावः वन्दनशीलता तया अनुमतः मान्यः युक्तः यः कामः अभिलाषः तत्र परायणा तत्परा अभूत् अभवत् ।।९४४॥ ध्यानेति-सिद्धगिरी तन्नामके पर्वते रेवानद्यास्तीरे पश्चिमभागे सिद्धवरकूटपर्वते स मुनिः मुनिभिर्यतिभिः सह वर्तते इति समुनिः सुदत्ताह्वयः सुदत्ताभिधानः सूरिः सम्यक् देवत्वाद्यभिलाषरहितं निर्दोष ध्यानं विधाय लान्तवनाम्नि सप्तमे कल्पे स्वर्गे सर्वेति-सर्वेषाम् अमराणाम् ग्रामणोः अग्रणीः सुरो देव: अजायत । ये च अन्ये यशोमतिप्रभृतयः यशोमतिनृपादयः तेऽपि प्रक्लुप्तप्रताः समाचरितचरिताः । सुकृतिभिः पुण्यवद्भिर्जनैः सुरश्च संकीय॑मानश्रियः वर्ण्यमानविभवाः 'त्रिदशेश्वराः सुरपतयः संजाताः समभवन ॥९४५॥ कृतग्रन्थनिर्वाहः सोमदेवसरिरन्त्यमङ्गलमाह-जयविति-जिनोक्तिसधारसः जिनवचनामतरसः यः जगदानन्दस्यन्दी जगतः आनन्दस्य स्यन्दः स्रवणं यत्र अस्ति तथाभूतः जयति सर्वोत्कर्षेण वर्तते । तदनु तदनन्तरं सतां सज्जनानां कामारामः अभिलाषोद्यानं फलसंगमैः स्वर्गादिफललाभ: जयतात उत्कर्ष समदि प्राप्नुतात् । ततश्च तदनन्तरं कवितादेवी सरस्वती, कविताशक्तिर्वा शश्वत् सततं जयताद । यदाश्रयात् यस्याः कवितादेव्याः साहाय्यमवलम्न्य मम इयं कृतिमतिः कृतिकरणसमर्था मतिः बुद्धिः कृती कविः तस्य मतिर्बुद्धिः वा जगत्त्रयभूषणां सूक्ति सूते त्रिलोकालङ्कारां सूक्तिं सुभाषितं सूते जनयति ॥९४६॥ अभिधानेति-अभिषानानां शब्दानां निधाने अक्षयनिधिभूते। यशोधरमहाराजचरिते कथंभूते यशस्तिलकनामनि यशस्तिलकास्ये । सतां मतिः सत्पुरुषाणां मतिः बुद्धिः स्तात् सततं प्रवर्तताम् । एतद्यशोधरमहाराजचरितं सन्तः निजकर्णातिथि सन्ततम् कुर्वन्त्विति भावः ।।९४७।। एतच्चरितस्य पठनं कुर्वतः यशः प्रसरतु कवितारहस्यमुद्रां च लभतामिति कविराशास्ते-एतामिति-अनुपूर्वशः आचार्यपरम्पराम् अनुसृत्य एताम् अष्टसहस्रीम् अष्टसहस्रीति अपरनामघेयां कृति विमशन् कृती धन्यः कविकवितारहस्यमुद्रां कविता एव स्त्री तस्याः रहस्यं भोगः तस्य मुद्राम् अनुज्ञां तथा च कवितायाः गूढतत्वस्य मुद्रां प्रत्ययम् अवाप्नुयात् । आसमुद्रगं च यशः लभेत ॥९४८।। ग्रन्थसमाप्ती निजगुरुपरम्परां कथयति कविः-श्रीमानिति-सदैव सततं श्रीमान् आगमचातुर्यशोभा एव श्रीः सा यस्यास्ति स श्रीमान् संघतिलक: देवसंघस्य भूषणम् यशःपूर्वक: देवः अस्ति । यशोदेवाभिषः सूरिः देवसंघस्य भूषणं अस्तीति भावः । तस्य यशोदेवसूरेः सद्गुणनिधिः सन्तश्च ते गुणाः तेषां निधिः निधानभूतः श्रीनेमिदेवाह्वयः'

Loading...

Page Navigation
1 ... 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664