Book Title: Upasakadhyayan
Author(s): Somdevsuri, Kailashchandra Shastri
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 635
________________ -पृ०३३६] उपासकाध्ययनटीका मदेन मानेन चाध्माता वर्तन्ते तेषां सच्छाया धर्मस्य प्रभावना न जायते ॥९३२॥ मायया हानि दर्शयतियावदिति-यावत् यावत्कालम् आत्माम्बुषु जोवजलेषु मायानिशालेशोऽपि माया कपट सैव निशा रात्रिः तस्या लेशोऽपि अल्मांशोऽपि कृतास्पदः विहितवसतिर्वर्तते । तावत् तावत्कालं चित्ताम्बुजाकरः मनःकमलसमूहः प्रबोधश्रियं विकाशलक्ष्मी न धत्ते न धारयति ।।९३३॥ लोभाद् गुणहानि निगदति-लोभेति--धन्याः पुण्यवन्तो गुणाः लोभकोकसचिह्नानि लोभ एव वर्तमानकाले अर्थप्राप्तिगृद्धिः एव कीकसम् अस्थि तदेव चिह्नम् अभिज्ञानं येषां तानि चेतःस्रोतांसि मनोजलप्रवाहाः तानि दूरतः त्यजन्ति परिहरन्ति । कामिव चाण्डालसरसीमिव चाण्डालानां मातङ्गानां सरसोमिव तडाममिव ॥९३४॥ क्रोधादिशल्यानां जनविधिमाह-तस्मात इति तस्मात् ततः । अस्मिन्मनोनिकेते अस्मिश्चित्तगेहे । इदं शल्यचतुष्टयम् । आत्मज्ञः स्वस्वरूपज्ञः मुनिर्ग्रहस्थश्च । क्षेमाय कल्याणाय । शमकीलकः क्रोधादिचतुष्टयाभावकोलकैः शङ्कुभिः उद्धत्तुं यतेत निष्कासयितुं यत्नं कुर्यात् । क्षमाकीलकेन क्रोधशल्यम्। मार्दवशकुना मानशल्यम्। आर्जवशङ्कुना मायाशल्यम् । शौचकी लोभशल्यं निष्कासयेत् ॥ ९३५।। बुधैर्विषयेभ्यो मनसा सहेन्द्रियाणि व्यावानीत्युपदिशति-षस्वितिषट् इन्द्रियाणि स्पर्शन-रसन-घ्राण-नयन-श्रोत्र-मनांसि तानि स्वभावादेव षट्स अर्थेषु, विषयेषु स्पर्शेषु अष्टसु । मधुराम्लादिषु पञ्चसु रसेषु । द्वयोर्गन्धयोः । पञ्चविधेषु रक्तपीतादिवर्णेषु । सप्तसु स्वरेषु । मनस्तु एतेषु सर्वविषयेषु आसक्ति जनयत्यतः सर्वेऽपि स्पर्शादयो विषया मनसो भवन्ति इति । तत्स्वरूपति-तेषां विषयाणां स्वरूपाणां परिज्ञानात बोधात् सर्वदा प्रत्यावर्तेत मुनिग्रंहस्थश्च व्यावर्तेत ।।९३६।। विषयेभ्यो नात्मनः कुशलमिति निवेदयति-आपाते इति-तत्काले भुक्तिसमये सुन्दरारम्भैः सुन्दरो मनोहर आरम्भः आदिर्येषां ते तथाभूतैः । विपाके फलकाले विरसक्रियः विरसा अमनोज्ञा दुःखदा क्रिया येषां तैः तथाभूतैः अन्ते दुर्गतिदानशीलः विषैर्वा गरलैरिव विषयः ग्रस्ते व्याकुले आत्मनि कुतः कुशलं भद्रं स्यात् ॥९३७। व्रतविशुद्धयं व्रतिकः किं त्यजेत, आह-दुश्चिन्तनमिति-व्रती व्रतानि अहिंसादीनि सन्ति अस्येति व्रती। व्रतविशुद्धयर्थ व्रतानां विशद्धयर्थम उत्कर्षप्रापणार्थ । मनोवाकायसंश्रयं मनः चित्तं, वाक भाषणं, कायः शरीरम् एषां संश्रयः अवलम्बनं यस्य तथाभूतं । दुश्चिन्तनं हिंसाद्यध्यवसायः तत् मनःसंश्रयं नाचरेत् त्यजेदित्यर्थः । दुरालापं वाक्संश्रयम् असत्यनिन्दाकलहादिदोषयुक्तं दुर्भाषणं नाचरेत् । दुर्व्यापारं च कायसंश्रयं देहाधारं परस्त्रीसंभोगादिकं नाचरेत् ।।९३८॥ कि नाम व्रतपालनमित्याह-अभङ्गति-अभङ्गः व्रतस्य अविकलं प्रतिपालनम् । अतिचारः व्रतस्य देशभङ्गात कियतोंऽशस्य रक्षणाच्च अतिचारो भवति । न अतिचारोऽनतिचारः व्रतस्य बाह्याभ्यन्तराभ्याम् अङ्गाभ्यां रक्षणम् अनतिचारः। यथा अहिंसावतसंरक्षणे कोपं न करोति, प्राणिवधबन्धनं न करोति, दयाहीनश्च न भवति । गृहीतेषु प्रतेषु भङ्गम् अकृत्वा, अतिचारपरिहारं च कृत्वा शश्वत् आजन्म तेषु व्रतेषु रक्षणं पालनं क्रियते तत् व्रतपालनं भवेत् ॥९३९॥ यमनियमेषु यत्नकर्तव्यतामुपदिशति-वैराग्येति-यमेषु इति यमेषु अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः । यच्छति नियच्छति इन्द्रियग्राममनेनेति यमः। नियमेषु बाह्याभ्यन्तरशोचतपःस्वाध्यायप्रणिधानानि नियमाः । एतेषु नित्यं यत्नः कर्तव्यः । एतेषां पालनं सदा कर्तव्यमिति भावः । नित्यं वैराग्यभावना कर्तव्या । ये विषयाः दृष्टाः ये च श्रुताः ये चानुभूतास्तेभ्यो निवृत्ततृष्णस्य प्रतिनः मनसो वशीकरणं तस्यैव संज्ञा नाम वैराग्यमिति । तस्य नित्यं भावना अभ्यासः करणीयः। नित्यं तत्त्वविचिन्तनं कर्तव्यम् । किं नाम तत्त्वविचिन्तनम् । प्रत्यक्षेण इन्द्रियानिन्द्रियप्रत्यक्षेण, अनुमानेन, आगमेन च जिनकथितेन ये अनुभूनाः ज्ञाताः जीवादिपदार्थसार्थाः ते विषया यस्याः एतादृशी या असंप्रमोषस्वभावा दृढधारणासंस्कारजाता स्मृतिः स्मरणं तत्त्वानुचिन्तनं तस्मिन्नित्यं यत्नः कर्तव्यः । एतः कारणीतपालनं निर्दोष भवति ॥९४०॥ इस्युपासकाध्ययने प्रकीर्णकविधिर्नाम षट्चत्वारिंशत्तमः कल्पः ॥४६॥ [पृष्ठ ३३६] इत्येष इति-हे क्षितिपतीश्वर, क्षित्याः पृथ्व्याः पतयः स्वामिनः क्षितिपतयः भूपाः तेषाम् ईश्वरः राजराजः तत्संबोधनं हे क्षितिपतीश्वर, इति पूर्वोक्तप्रकारेण गृहिणां धर्मः प्रोक्तः (सुदत्तसूरिणा) हे क्षितिपतीश्वर, मूलोत्तरगुणाश्रयः मूलगुणाः अष्टाविंशतिः आचेलक्यादयः । उत्तरगुणाश्च चतुरशीतिलक्षणास्ते आश्रयः ६५

Loading...

Page Navigation
1 ... 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664